By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: योग: स्वस्था जीवनशैली – प्रो हरेराम: त्रिपाठी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > योग: स्वस्था जीवनशैली – प्रो हरेराम: त्रिपाठी
संस्कृतगतिविधयः

योग: स्वस्था जीवनशैली – प्रो हरेराम: त्रिपाठी

डॉ.अमनदीप शर्मा
Last updated: 2025/06/22 at 6:46 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

योग: स्वस्था जीवनशैली – प्रो हरेराम: त्रिपाठी
मन-बुद्धि-शरीराणां सामंजस्यमेव योगाभ्यासपद्धति: – डॉ. चन्द्रगुप्तवर्णेकर:
हिमसंस्कृतवार्ता: – नागपुरम्।
अन्ताराष्ट्रीय-योगदिवसोपलक्ष्ये शनिवासरे कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य योगविज्ञानं समग्रस्वास्थ्यविभाग:, राष्ट्रियसेवायोजना, क्रीडाविभागः, महिलाप्रकोष्ठः चेत्येतेषां सहकारेण मुख्यालये रामटेक इत्यत्र अन्ताराष्ट्रीययोगदिवसः आचरितः।
कार्यक्रमस्य मुख्यातिथिः संस्कृतभवितव्यस्य प्रकाशकः डॉ. चन्द्रगुप्तवर्णेकरः आसीत् । कार्यक्रमस्य अध्यक्षता कुलपति: प्रो. हरेरामत्रिपाठी अकरोत्।
अतिथिनां शुभहस्तेन दीपप्रज्वलनेन कार्यक्रमस्य उद्घाटनं कृतम्। योगविभागस्य छात्रै: योगप्रदर्शनं कृतम् । परिचयः भारतीयधर्म-दर्शन-संस्कृति-संकायस्य अधिष्ठाता प्रो. कलापिनी अगस्ती अकारयत् । स: अवदत् यत् योगविज्ञानविभागेन आयोजितैः विविधैः योगशिबिरैः, योगपरामर्शकेन्द्रैः, योगविज्ञानपाठ्यक्रमैः च समाजे योगस्य प्रचारः क्रियते। योगविभागेन महिलाबालानां कृते विशेषस्य निःशुल्कयोगशिबिरस्य आयोजनं कृतम्। योगविभागस्य छात्राः अमेरिका, आस्ट्रेलिया, श्रीलङ्का, अर्जेन्टिना, सिङ्गापुर इत्यादिषु अनेकेषु देशेषु योगप्रशिक्षणं ददति। सः स्वजीवने योगस्य समावेशस्य विषये कथयन् अष्टाङ्गयोगस्य प्रतीकात्मकं महत्त्वं व्याख्यातवान् ।
मुख्यातिथिः डॉ. चन्द्रगुप्तवर्णेकरः अवदत् यत् जनयोगस्य प्रथमः प्रयोगः जनार्दनस्वामीना नागपुरे कृत्वा एतत् योग-आन्दोलनं प्रारब्धम्। अद्य विश्वयोगदिवसः आचर्यते, तस्य प्रवर्तकः जनार्दनस्वामी अस्ति। योगः केवलं व्यायामः एव नास्ति, एषः अभ्यासविधिः अस्ति या मनः, बुद्धिः, शरीरं चेत्येतेषां समन्वयं, संतुलनं, सामञ्जस्यं च प्राप्नोति; योगस्य निरन्तरं अभ्यासेन कौशलस्य विकासः भवति। योगः चिकित्साव्यवस्था अस्ति तथा च लोनावालानगरस्य कैवल्यधाम् इत्यत्र विशेषसंशोधनं कृतम् अस्ति; तस्य प्रयोगेषु सिद्धं परिणामः प्राप्तः ।
अध्यक्षीयसम्बोधने कुलपतिः प्रो.हरेराम: त्रिपाठी इत्यनेन उक्तं यत्, योग: स्वस्था जीवनशैली अस्ति, सर्वै: अपि एतत् स्वीकर्तव्यम् इति आह्वानं कृतवान्। अस्मिन् वर्षे योगदिवसस्य आदर्शवाक्यं योग-एकं पृथिवी-एकं स्वास्थ्यम् अस्ति। अस्माकं वसुधैव कुटुम्बकम् इति अवधारणायाः अनुरूपं सर्वेषां कृते शान्तिपूर्णं स्वास्थ्यं विश्वयोगदिवसस्य आदर्शवाक्यम् अस्ति। तदर्थं सर्वैः योगजीवनशैली स्वीक्रियताम् । आरोग्यार्थं प्राणायामस्य विविधरूपेषु विस्तरेण चर्चा, अभ्यासः च आवश्यकः । भारतीययोगव्यवस्था अन्ताराष्ट्रीयरूपेण मान्यताप्राप्ता अस्ति तथा च भारतीयज्ञानपरम्परायाः निधिः अस्ति । अध्यापनेन, अनुसन्धानेन, प्रकाशनेन, पाण्डुलिपिभिः च अस्य निधे: संरक्षणाय प्रयत्नाः क्रियन्ते । विभागः प्रतिवर्षं विविधकार्यक्रमैः योगस्य विज्ञानं अभ्यासं च संयोजयति । योगदिने अपि अस्य आविष्कारः भवति । योगविभागः राष्ट्रिय-अन्ताराष्ट्रीय-स्तरयोः प्रसिद्धः अस्ति । अहं गर्वेण उल्लेखयामि यत् अस्य पृष्ठतः प्रो.अगस्तीवर्यस्य तस्य दलस्य च निरन्तरं परिश्रमः अस्ति।अस्मिन् अवसरे गणमान्यजनानाम् आश्रयेण वैदर्भी त्रैमासिकं प्रकाशितम् ।
कार्यक्रमस्य संचालनं डॉ. रेणुका करण्डिकर इत्यनया कृतम्, धन्यवादपत्रं च डॉ. सचिन द्विवेदी इत्यनेन कृतम्। कार्यक्रमस्य समापनं शान्तिप्रार्थनाद्वारा अभवत्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article भारतीयज्ञानपरम्परायां योगस्य महती भूमिका- कुलपतिः
Next Article अद्य योगः विश्वाय शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?