प्रधानमन्त्रिणे मोदिने साइप्रसदेशेन ग्रैण्ड् क्रॉस् आफ् द आर्डर् आफ् मकारिओस् तृतीयं इत्याख्यः सर्वोच्च-नागरिकसम्मानः प्रदत्तः
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी भारत-साइप्रस देशयोः सहभागितया सह-प्रजातन्त्र मूल्येषु, विधिराज्ये च दृढतया निहितं वर्तते इति वर्णितवान्। सः अवदत् यत् द्वयोः देशयोः मैत्री परिस्थितिभिः न निर्मिता, सीमाभिः वा निरुद्धा नास्ति, मित्रता समयस्थित्यां दृढतया स्थितास्ति। श्रीमोदिना निकोसियानगरस्य राष्ट्रपतिभवने साइप्रसदेशस्य राष्ट्रपतिना निकोस-क्रिस्टो-डौलिडेस् इत्यनेन सह प्रतिनिधिमण्डलस्तरीय वार्तायाः अनन्तरं वार्ताहरान् सम्बोधयन् एतत् उक्तम्। सः अवदत् यत् साइप्रस-देशस्य पञ्चत्रिंशोत्तर द्विसहस्रतम वर्षस्य लक्ष्यं तथा भारतस्य सप्तचत्वारिंशोत्तर द्विसहस्रतम वर्षस्य विकसितभारत इत्येतयोः मध्ये बहु साम्यं वर्तते, आगामिषु पञ्चवर्षेषु सहभागितायाः भविष्यस्य स्वरूपं निर्मातुं मार्गचित्रं निर्मितं भविष्यति । प्रधानमन्त्रिणा भारतस्य अधिसीमं-आतङ्कवादविरुद्धे युद्धे समर्थनार्थं साइप्रस्-देशाय धन्यवादः अपि प्रदत्तः, आतङ्कवादस्य, मादकद्रव्याणां व्यापारस्य, शस्त्राणां गुप्त चौरम् तस्कर्याः च निवारणाय उभयोः देशयोः विभागानां मध्ये वास्तविकसमये सूचनाविनिमयतन्त्रस्य विकासस्य योजनां च घोषितवान्। प्रतिनिधिमण्डलस्तरीय वार्तायां उभौ नेतारौ भारत-साइप्रस सम्बन्धयोः समग्र विषयेषु व्यापक चर्चा कृतवन्तौ । रक्षा, सुरक्षा, प्रौद्योगिकी, स्वास्थ्यसेवा, नवीकरणीय ऊर्जा, जलवायुन्यायादिषु क्षेत्रेषु सहकार्यस्य विषये चर्चा कृतवन्तौ। साइप्रस् देशेन UNSC इत्यस्य स्थायीसदस्यत्वेन भारतेन सह संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदि प्रतिनिधिचरित्रं प्रवर्धनाय स्वस्य समर्थनं पुनरुक्तम्। सद्यः एव जाते पहलगाम आतङ्कवाद-आक्रमणस्य विषये साइप्रस्-देशेन भारतस्य सीमापार-आतङ्कवाद-विरुद्ध-युद्धे एकतां, अटल-समर्थनं च प्रकटितम् । ततः पूर्वं श्रीमोदी राष्ट्रपतिनिकोस् क्रिस्टो डौलिडेस् इत्यनेन सह उपवेशनं कृतवान्, यस्मिन् समये साइप्रसदेशस्य राष्ट्रपतिना तस्मै ग्रैण्ड् क्रॉस् आफ् द आर्डर् आफ् मकारिओस् तृतीयेन साइप्रस् गणराज्यस्य सर्वोच्च-नागरिकसम्मानः प्रदत्तः। पुरस्कारोयं प्रधानमन्त्रिणं मोदिनं प्राप्तानां अन्तार्राष्ट्रीय-पुरस्काराणां वर्धमानसूच्यां योजयति। कृतज्ञतां प्रकटयन् श्रीमोदी अवदत् यत् एतत् भारतस्य एक दशमलव चत्वारि कोटिजनानाम् कृते गौरवम् अस्ति।
प्रधानमन्त्रिणे मोदिने साइप्रसदेशेन ग्रैण्ड् क्रॉस् आफ् द आर्डर् आफ् मकारिओस् तृतीयं इत्याख्यः सर्वोच्च-नागरिकसम्मानः प्रदत्तः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment