By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: “विकसित- कृषि- संकल्प- अभियानस्य भव्यं समापनसमारोहः सम्पन्नः”
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > “विकसित- कृषि- संकल्प- अभियानस्य भव्यं समापनसमारोहः सम्पन्नः”
प्रादेशिकवार्ताबिहारवार्ताः

“विकसित- कृषि- संकल्प- अभियानस्य भव्यं समापनसमारोहः सम्पन्नः”

डॉ.अमनदीप शर्मा
Last updated: 2025/06/13 at 8:05 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

“विकसित- कृषि- संकल्प- अभियानस्य भव्यं समापनसमारोहः सम्पन्नः”
“शारदीय- कृषक- जन- कल्याण- कार्यक्रमे कृषकाणां सहभागिता”

“वैज्ञानिकानां कृषकैः सह संयोगस्य सार्थकारम्भ:”

हिमसंस्कृतवार्ता:- अंकुश कुमार: दरभङ्गाया ऐतिहासिकभूमौ “विकसित- कृषिसंकल्प- अभियानस्य समापनसमारोपः “शारदीय- कृषक- जनकल्याणचौपाल २०२५” इत्यस्य आयोजनं महता उत्साहेन च गरिमया च सह सम्पन्नम्। अस्मिन् अवसरे उपमुख्यमन्त्रिणः सह-कृषिमन्त्रिणः माननीयः विजयकुमारसिन्हा महोदयस्य गरिमामयी उपस्थिति आसीत्। अस्य कार्यक्रमस्य मुख्यलक्ष्यम् आसीत्। कृषकान् तकनीकीज्ञानैः, शासकीय-योजनाभिः च संयोजयितुं कृषिनवप्रवर्तनैः च अवगतं कर्तुम्।माननीय- उपमुख्यमन्त्री अवदत् यत्- देशस्य यशस्विनः प्रधानमन्त्रिणः नरेन्द्रमोदिनः, बिहारस्य लोकप्रियमुख्यमन्त्रिणः नीतीशकुमारस्य च नेतृत्वे भारतस्य कृषिनीतेः क्षेत्रे ऐतिहासिकः परिवर्तनः जातः अस्ति। सन् २०१४ तमे वर्षे यत्र कृषि-बजट् २१९३० कोटि रूप्यकाणि आसीत्, तत् अद्य पर्यन्तं १,२७,२०० कोटि रूप्यकाणि जातम्। प्रधानमन्त्री- कृषकसम्माननिधि योजनायाः माध्यमेन ९.८ कोटि कृषकेभ्यः ३.७ लाख कोटि रूप्यकाणां हस्तान्तरणं सम्पन्नम्। न्यूनतम- समर्थनमूल्यस्वरूपेण कृषकेभ्यः २३.६१ लक्षकोटि रूप्यकाणि प्राप्तानि। कृषक- ऋणसुविधायाः संवर्धनार्थं कृषक- क्रेडिट- कार्ड परिसीमा ३ लक्षरूप्यकात् ५ लक्षरूप्यकं यावत् वृद्धं कृतम्। २५ कोटि रूप्यकात् अधिकानि मृत्तिका-स्वास्थ्य-पत्राणि वितर्य मृत्तिकागुणवृद्धिः अपि साधिता। एतेन सह, बिहारराज्ये अपि कृषिक्षेत्रे निरन्तरं प्रगतिः दृश्यते। सन् २००५ तमे वर्षे यत्र कृषिबजट केवलं २० कोटि रूप्यकाणि आसीत्, अद्य तस्य परिमाणं ३६०० कोटि रूप्यकाणि यावत् जातम्। मुख्यमन्त्रिणः नीतीशकुमारस्य नेतृत्वे चतुर्थ- कृषि- सड़क- मानचित्रे (२०२३-२०२८) योजनानां १६२२६८.७८ कोटि रूप्यकव्ययेन कार्यान्वयनं प्रवर्तमानम् अस्ति।
विकसित- कृषि- संकल्प-अभियानं दिनाङ्क २९ मई तः १२ जून २०२५ यावत् राज्यस्य सर्वेषु जनपदेषु वैज्ञानिकैः, कृषि-विभागेन, कृषि- वैज्ञानिक- केन्द्रैः विश्वविद्यालयैः च सहकार्येण सफलतया सञ्चालितम्। अयं अभियानः प्रधानमन्त्रिणः “लैब-टु-लैण्ड” इति मन्त्रस्य मूर्तिरूपं यः वैज्ञानिकाः ग्रामेषु गत्वा कृषकैः सह प्रत्यक्षसंवादं कुर्वन्ति। यदि प्रतिहेक्टेयरं उत्पादनम् एकक्विण्टल अपि वर्धते, तर्हि सम्पूर्णदेशे २० लक्षटनपर्यन्तं अतिक्रान्त- उत्पादनं सम्भवम्।
माननीयमन्त्रिणा कृषकेभ्यः आह्वानं कृतं यत् ते वैज्ञानिकानां परामर्शम् स्वीकरोतु, नवीन- प्रविधी: अंगीकुर्युः, येन उत्पादनं वर्धेत्, व्ययः न्यूनीभवेत्, आयश्च वर्धेत्। तेन उक्तं यत् वर्षे २०२४-२५ तमे ३३०९ लक्ष टनम् खाद्यान्न- उत्पादनं सम्भाव्यते, यत्र शारदीयधान्यं १२०६ लक्षटन, गोधूमः ११५४ लक्षटन, बागवती- उत्पादनं ३६२१ लक्ष टनम् अपि प्रत्याशितम्।
उपमुख्यमन्त्रिणा दरभङ्गाया ऐतिहासिक- धरोहरं प्रणम्य महाराजाधिराज- श्रीकामेश्वरसिंहस्य पुण्यस्मृतिं कृतवान्, च मिथिलायाः सांस्कृतिकमहत्त्वं “पद-पदपर्यन्तं पोखरि, मीनं, मखानं, मधुरवाणी पानयुक्तं मुखे” इत्यनेन विशिष्टतया उल्लिख्य कृषि- परम्पराया आदरं प्रदर्शितवान्।अस्मिन् समारोहे सहस्रशः कृषकाः, कृषि- वैज्ञानिकाः, अधिकारिणः, जनप्रतिनिधयः च सन्निहिताः। कार्यक्रमस्य समापनं उत्साहवर्धकसन्देशैः च उज्ज्वल- कृषि- भविष्य- प्रतिसंकल्पेन च सम्पन्नम्।

You Might Also Like

वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन स्वच्छतापक्षोत्सवः आयोजितः

पीएमएवाई-यू २.० मध्ये बिहारस्य उत्कृष्टप्रदर्शनम्; द्वौ प्रतिष्ठितौ राष्ट्रियपुरस्कारौ प्राप्तौ

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article केन्द्रसर्वकारः ट्राउट्-उत्पादनं वर्धयितुं साहाय्यं करिष्यति इति केन्द्रीयमन्त्री एस.पी.सिंहबघेलः
Next Article प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?