By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > बिहारवार्ताः > प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः
बिहारवार्ताः

प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः

डॉ.अमनदीप शर्मा
Last updated: 2025/06/13 at 8:06 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः
हिमसंस्कृतवार्ता:- अंकुश कुमार:। बिहारराज्यस्य वरिष्ठ- भारतीय- प्रशासनिक- सेवाधिकारी पंकजकुमारः पटनानगरे स्थिते कृषिभवने औपचारिकरूपेण बिहारराज्यकृषिविभागस्य प्रधानसचिवपदस्य कार्यभारं स्वीकृतवान्। पदभारग्रहणस्य समये निवर्तमानसचिवः सञ्जयकुमार अग्रवालः प्रधानसचिवं सादरं स्वागतवान्। पदभारं स्वीकृत्य प्रधानसचिवेन विभागस्य वरिष्ठ- अधिकारिभिः सह एकः परिचयात्मकं मेलनम् आयोजितः। तस्मिन् समावेशे प्रधानसचिवेन सर्वेषाम् अधिकारिणां परिचयं प्राप्तं कृतवन्तः, विभागस्य प्रमुखयोजनाः, कार्यक्रमाः, वर्तमानकार्यप्रणाली च विषये विस्तृतं ज्ञानं प्राप्तम्। सः अधिकारिभ्यः विभागीयकार्येषु पारदर्शिता, समयपालनं, समर्पणं च अपेक्षितवान्। तेन उक्तं यत् “कृषिविभागः राज्यस्य मेरुदण्डरूपेण स्थितः अस्ति, अस्य सक्रियता च नवप्रयोगः च एव कृषकाणां समृद्धेः मूलमस्ति।”प्रधानसचिवेन निदेशः प्रदत्तः यत् सर्वेऽपि मण्डलाधिकारिणः आगामिसमीक्षासभायै स्व-स्वक्षेत्रे योजनानां प्रगतिस्थितिः, समस्याः च इत्यादि विषयानुसारं PPT प्रस्तुतिं सज्जां कुर्वन्तु। तेन उक्तं यत् यथावत्सूचनासंग्रहः, विश्लेषणम् एव प्रभाविप्रणयनस्य आधारभूतं तत्त्वमस्ति।
प्रधानसचिवेन स्पष्टतया उक्तं यत् “समस्ते अधिकारीणः परस्परं समन्वय-संवादयोः भावनया कार्यं कुर्वन्तु, यतः योजनानां लाभः यथार्थ- लाभार्थिभ्यः प्राप्तव्यः। विभागस्य प्रत्येकं कार्यं कृषकेन्द्रितं भवेत्। कृषकाः अस्माकं राष्ट्रस्य मेरुदण्डः, तेषां कल्याणाय सर्वैः समुचितं यत्नं कर्तव्यम्।”

You Might Also Like

वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन स्वच्छतापक्षोत्सवः आयोजितः

पीएमएवाई-यू २.० मध्ये बिहारस्य उत्कृष्टप्रदर्शनम्; द्वौ प्रतिष्ठितौ राष्ट्रियपुरस्कारौ प्राप्तौ

बिहारवार्ता-ःबिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्

सामूहिकहिंसा-मिथ्यासङ्घट्ट-भित्तिभञ्जकशासनानां विरोधे भाकपा (माले) दलस्य प्रतिरोधप्रदर्शनम्

एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता

TAGGED: पंकज
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article “विकसित- कृषि- संकल्प- अभियानस्य भव्यं समापनसमारोहः सम्पन्नः”
Next Article अहमदाबादविमानदुर्घटना- एयर इण्डिया इत्यनेन २४२ जनानां मध्ये २४१ जनानां मृत्योः पुष्टिः कृता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?