#TheRajaSaab अस्मिन् दिने ‘द राजा साहब’ चलच्चित्रं प्रदर्शितं भविष्यति, पुटकस्य प्रसारणतिथ्या: विषये अपि महती वार्ता आगता
वार्ताहर: – जगदीश डाभी, मुम्बई
दक्षिणस्य नायकस्य प्रभासस्य भयानकहास्यचलच्चित्रस्य ‘द राजा साहब’ इत्यस्य विषये महती वार्ता आगता। ‘द राजा साहब’ प्रभासस्य प्रथमः भयानकहास्यचलच्चित्रम् अस्ति । प्रशंसकाः बहुकालात् अस्य चलच्चित्रस्य प्रतीक्षां कुर्वन्ति । पूर्वम् एतत् चलच्चित्रम् अप्रैलमासे प्रदर्शितं भविष्यति स्म । परन्तु चित्रोतलनं न सम्पन्नस्य कारणात् निर्मातारः विमोचनस्य तिथिं स्थगितवन्तः । अधुना निर्मातारः नूतनं विमोचनस्य तिथिं घोषितवन्तः। चलच्चित्रस्य प्रदर्शनदिनाङ्केन सह निर्मातृभिः विज्ञापन पुटकस्य प्रदर्शनस्य तिथिः अपि घोषिता अस्ति । अस्मिन् मासे विज्ञापन पुटकं प्रदर्शितं भविष्यति। अस्मिन् वर्षे अन्ते चलच्चित्रं प्रदर्शितं भवति इति कारणतः प्रशंसकाः किञ्चित् अधिकं प्रतीक्षां कर्तुं प्रवृत्ताः भविष्यन्ति । अद्य निर्मातारः ‘द राजा साहब’ इत्यस्य प्रभासस्य छायाचित्रं सामाजिकमाध्यमेषु प्रसारितं कृतवन्तः। छायाचित्रं प्रसारितं कृत्वा निर्मातारः सूचितवन्तः यत् विज्ञापन पुटकं जूनमासस्य १६-दिनाङ्के प्रदर्शितः भविष्यति। तथा च चलच्चित्रं दिसम्बरमासस्य ५-दिनाङ्के प्रेक्षागृहेषु प्रदर्शितं भविष्यति।