By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कानपुरनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना विविधविकासपरियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतम्।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > कानपुरनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना विविधविकासपरियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतम्।
राष्ट्रीयवार्ताः

कानपुरनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना विविधविकासपरियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतम्।

Shiva Sharma
Last updated: 2025/05/30 at 8:12 PM
Shiva Sharma - TGT Sanskrit
Share
1 Min Read
SHARE

कानपुरनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना विविधविकासपरियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतम्।

(हिमसंस्कृतवार्ता शिवा शर्मा)

Contents
कानपुरनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना विविधविकासपरियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतम्।उत्तरप्रदेशस्य मुख्यमन्त्री श्रीआदित्यनाथयोगी सर्वकारस्य उपलब्धिनां समीक्षां गणनाञ्च कृतवान्।

विगतदिने प्रधानमन्त्रीनरेन्द्रमोदी कानपुरतः गौतमबुद्धनगरे तिसृणां महत्त्वपूर्णविद्युत्परियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतवान्। एतासां परियोजनानाम् अनुमानितो व्यय: प्रायः ३५० कोटिरूप्यकाणि इति वर्तते।
प्रधानमन्त्री श्रीनरेन्द्रमोदी विगतदिने १५ प्रमुखपरियोजनानाम् उद्घाटनं शिलान्यासञ्च कृतवान्। तत्रैव हरितध्वजं प्रदर्श्य कानपुरमेट्रोरेलपरियोजनायाः द्वितीयचरणस्य शुभारम्भं कृतवान्।

उत्तरप्रदेशस्य मुख्यमन्त्री श्रीआदित्यनाथयोगी सर्वकारस्य उपलब्धिनां समीक्षां गणनाञ्च कृतवान्।

कानपुरनगरे समायोजिते प्रधानमन्त्रिण: अस्मिन् कार्यक्रमे मुख्यमन्त्रीयोगीआदित्यनाथ: अपि उपस्थित: आसीत्। मुख्यमन्त्रीयोगी सर्वकारस्य उपलब्धिनां विषये अद्यतनकार्यक्रमस्य च विषये सूचनां प्रदत्तवान्।

शुभमस्य परिवारः चकेरीविमानस्थानके प्रधानमन्त्रिणा सह अमिलत्।

शुक्रवासरे कानपुरनगरे समागत: प्रधानमन्त्रीनरेन्द्रमोदी चकेरीविमानस्थानके पहलगाम-आतङ्क-आक्रमणे मृतस्य शुभमद्विवेदीइत्यस्य कुटुम्बसदस्यैः सह मिलितवान्। शुभमद्विवेदी इत्यस्य पिता सञ्जयद्विवेदी, माता सीमाद्विवेदी भार्या ऐशन्या च तत्रोपस्थिता आसीत्।

प्रधानमन्त्रिणा स्वकीये भाषणे पाकिस्तानस्य उपरि शब्दाक्रमणं कृतम्।

श्रीमोदी स्वकीये भाषणे पाकिस्तानस्य उपरि शब्दाक्रमणं कृतवान्।
असौ सम्भाषितवान् यद् भारतं प्रत्येकं आतङ्कवादिनं समुचितं प्रत्युत्तरं प्रदास्यति। प्रत्युत्तरं प्रदानस्य कालस्य , मार्गस्य च अस्माकं सैन्यबलं स्वयमेव निर्णयं करिष्यति। द्वितीयं भारतं परमाणुविस्फोटस्य तर्जनेन भयभीतो न भविष्यति न च तदाधारितं किमपि निर्णयं करिष्यति। भारतं आतङ्कवादिनां स्वामिन: आतङ्कवादिनां संरक्षणं कुर्वत् सर्वकारं च समदृष्टया पश्यति।

“ऑपरेशनसिन्दूर” इत्यस्य अद्यापि न समापनम् नाभवत्, “शत्रुः कस्यापि भ्रमस्याधीने मा तिष्ठेत्” इति प्रधानमन्त्री नरेन्द्रमोदी सम्भाषितवान्।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By Shiva Sharma TGT Sanskrit
Follow:
Shiva Sharma (TGT Sanskrit Education department HP) Education Qualification: Shastri PU (Gold medalist), MA Sanskrit PU (Gold medalist), B.ed HPU, Two year diploma in vocal music, Poet Sanskrit and hindi, Sanskrit singer. Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article तालिबान्-पाकिस्तानयोः मध्ये रक्तरंजितः संघर्षः, बलूचिस्तानसीमायां गोलिकानां प्रहारः, सीमायां तनावः वर्धितः
Next Article 31/05/2025 प्रार्थनासभायां वाचनार्थं प्रमुखवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?