अथ वार्ता:
1.हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य गोष्ठ्याम् अनेके बृहन्निर्णयाः अभवन्। राज्यमन्त्रिमण्डलस्य सभायां पशुमित्रनीतिः -२०२५ इति अनुमोदिता। अस्याः नीतेः अन्तर्गतं पशुपालनविभागे बहुकार्यकार्यकर्तृणां (पशु मित्राणां) १,००० पदानां पूर्ति: भविष्यति।
2.प्रधानमन्त्री ग्राममार्गयोजनायाः चतुर्थचरणस्य अन्तर्गतं राज्ये १५०० (पञ्चशताधिकैकसहस्रं) किलोमीटरपरिमितानां मार्गाणां निर्माणं भविष्यति।लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अस्य कृते पञ्चायतानां स्थानीयसमुदायस्य च सहकार्यं याचितवान्।
3.हिमाचलप्रदेशस्य चम्बाजनपदे प्रातः पादोन–एकादशवादने भूकम्पो जात:। चांजूकालीमातामन्दिरात् २८ (अष्टाविंशति:) किलोमीटरत्रिज्यायां ३.३ (त्रि–दशमलव–त्रि) तीव्रतायां भूकम्पो जात: यत्र कापि क्षतिर्नाभवत् इति सूचना सम्प्राप्यते ।
4.हिमाचलप्रदेशस्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः उक्तवान् यल्लोकनिर्माण-नगरविकासविभागयोः अन्तर्गतं विकासात्मकपरियोजनानां कार्यान्वयनस्य शीघ्रतायै व्यापकरणनीतिः स्वीक्रियते। असौ उक्तवान् यत् अद्यैव नगरविकासविभागस्य, लोकनिर्माणं, नाबार्ड इत्येतेषां वरिष्ठाधिकारिभि:, अभियन्तृभि:, कार्यकारीपदाधिकारिभिश्च सह उच्चस्तरीयसमीक्षागोष्ठी अभवत्।
(यदि आप प्रतिदिन इन समाचारों से लाभान्वित हो रहे हैं तो कृतज्ञता स्वरूप अपनी प्रतिक्रिया अवश्य दें व हिमसंस्कृतवार्ता की सदस्यता लेकर हमें सहयोग करें।)
Good