By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: असमवार्ताः-‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्यानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > असमवार्ताः-‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्यानम्
संस्कृतगतिविधयः

असमवार्ताः-‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्यानम्

डॉ.अमनदीप शर्मा
Last updated: 2025/05/03 at 6:48 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

असमवार्ताः- ‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्यानम् आभासीयमाध्यमेन अतीव सुष्ठुतया अभवत् वेदान्तदर्शनस्य मोक्षसाधनविषये अतीव महत्वपूर्णविवेचना सञ्जाता।

हिमसंस्कृतवार्ता डॉ.निशिकान्तपाण्डेयः नलबारी (असमराज्यम्), ०२ मे २०२५

कुमारभास्करवर्म-संस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च आयोजितायाः‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्याने वेदान्तशास्त्रानुसारं मोक्षसाधनानामुपरि अतीव सुन्दरविवेचनम् आभासीयमाध्यमेन सम्पन्नम्। अस्मिन् व्याख्याने भारतराष्ट्रस्य नानास्थानेभ्यः शास्त्रजिज्ञासवः छात्राः, शोधार्थिनः, अध्यापकाश्च अंशग्रहणं कृतवन्तः।अस्मिन् अवसरे मुख्यवक्तृत्वमलंकृतवान् आसीत् डॉ श्रीकरः जी. एन., केन्द्रीयसंस्कृतविश्वविद्यालयस्य अगरतलापरिसरस्य सहायकाचार्यः। सः अद्वैतवेदान्तानुसारं सर्वादौ महावाक्यानां विषये सम्यग् विवेच्य मोक्षसाधनानां विषये स्पष्टीकृतवान् । स्वव्याख्याने सः बोधितवान् यत् श्रवणमनननिधिध्यासनद्वारा एव ब्रह्मसाक्षात्कारं कर्तुं शक्यते। ब्रह्मसाक्षात्कारेण एव परमपुरुषार्थस्य अवाप्तिः भवति। तथा यः साधनचतुष्टयसम्पन्नो भवति सैव वेदान्तशास्त्रस्य अधिकारित्वेन ब्रह्मसाक्षात्कारं प्राप्य मुक्तो भवतीति।कार्यक्रमे अध्यक्षत्वेन आसन् विश्वविद्यालयस्य कुलपतयः आचार्यप्रह्लाद रा. जोशीमहोदयाः। अस्मिन् कार्यक्रमे सर्वदर्शनमन्थनपरिषदः अध्यक्षः श्री पुलक उपाध्यायः, सम्पादिका सुश्री जिमि डेका, प्रचारप्रमुखः श्री हरिप्रसन्न अधिकारी, विभागस्य अतिथ्यध्यापिका सुश्री मयूरी काकती, तथा अतिथ्यध्यापकः श्री लिराज काफ्ले इत्यादयः उपस्थिताः आसन्।मङ्गलाचरणम् विभागस्य छात्रया विदिशा शर्मा इत्यनया सम्पादितम्। कार्यक्रमस्य संचालनं विभागीयच्छात्रया निशितादेव्या कृतम्। धन्यवादज्ञापनं सर्वदर्शन विभागीयच्छात्रया निहाली शर्मा इत्यनया सम्पादितम्, शान्तिमन्त्रपाठश्च सञ्चालिकया एव विधत्तः।एतस्मिन् व्याख्याने डॉ रणजीतकुमारतिवारी (सर्वदर्शनविभागाध्यक्षः), डॉ. चम्पककलिता (मीमांसाविभागाध्यक्षः), श्री विवेकाचार्यः (पुराणइतिहासविभागाध्यक्षः), डॉ. कमललोचनात्रेयः (साहित्यविभागे अध्यापकः), डॉ. लोपामुद्रा गोस्वामी (सर्वदर्शनविभागस्य सहाध्यापिका) च अन्ये च बहवः अध्यापकाः शोधार्थिनः छात्रवर्गश्च आसन्।
सत्रस्य अन्तिमे परमपुरुषार्थावाप्तिसन्दर्भे बहवः जिज्ञासाः छात्रैः प्रकटिताः। मुख्यवक्त्रा तासां जिज्ञासानां सम्यग् अवबोधनं पुरस्सरं अतीव सुष्ठुतया वेदान्ततत्त्वानां दार्शनिकविश्लेषणमपि प्रदत्तम्। सर्वदर्शनमन्थनपरिषद् इत्ययं विद्वत्संघः सर्वदर्शनविभागस्य वर्तमानशोधार्थिनां पूर्वछात्राणां च संयोजनेन संस्थापितः। अस्याः परिषदः लक्ष्यं सर्वशास्त्रेषु यत् परमज्ञानं निहितं वर्तते, येन च मनुष्यजीवनं उन्नतिपूर्वकं भवति, तस्य ज्ञानस्य विषये सर्वान् अवाबोधनम्।एषा ‘शास्त्रमन्थनम् ’ इत्याख्या १०८-व्याख्यानमाला सर्वदर्शनमन्थनपरिषदा प्रारब्धा वर्तते।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

TAGGED: असम
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Himcare – सर्वकारेण हिमकेयरसुविधाः पुनः स्थापयितव्याः, जनाः चिकित्सां विना चिकित्सालयात् प्रत्यागच्छन्ति – जयरामठाकुरः 
Next Article प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?