By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम्
राष्ट्रीयवार्ताःचलचित्रवार्ताः

मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम्

डॉ.अमनदीप शर्मा
Last updated: 2025/05/02 at 6:46 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् भारतं चलच्चित्र-निर्माणस्य, डिजिटल सामग्र्याः, गेमिंग-फैशिन इत्यनयोः, संगीतस्य, सजीवप्रसारणस्य च क्षेत्रे वैश्चिककेन्द्रस्य रूपेण विकसति । ध्यानास्पदं वर्तते यत् मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन सेंटर इत्यत्र वेव्स् इति प्रथमं वैश्विक मनोरञ्जन-सम्मेलनं समुद्घाट्य प्रधानमन्त्रिणा मोदिना एतत् प्रोदीरितम् । तेन प्रोक्तं यत् वेव्स् इति शब्देन संस्कृति-रचनात्मकता सार्वभौमिक संपर्काणां तरङ्गः द्योतते । सः प्रोक्तवान् यत् अनेन वैश्चिक मंचेन कलाकाराणां रचनाकाराणां च विचाराः वृद्धिमधिगमिष्यन्ते। प्रधानमंत्री पुनः अकथयत् यत् वेव्स् वैश्चिक ध्यानं समाकर्षयति यतोऽहि शताधिकानां देशानां कलाकाराः, नवोन्मेषकाः, निवेशकाः, नीतिनिर्मातारश्च अस्मिन् सम्मेलने एकत्रीभूताः सन्ति । वेव्स् इत्यस्य प्रंशसा कुर्वता प्रधानमन्त्रिणा प्रोक्तं यत् अनेन नवोन्मेषकाः रचनाकाराः च प्रोत्साहिताः भविष्यन्ति । प्रधानमंत्री अकथयत् यत् वेव्स-शिखर सम्मेलनं वैश्चिक मञ्चे भारतस्य रचनात्मक शक्तीनां प्रदर्शनं करोति । तेन प्रतिपादितं यत् वर्तमानसमये, एनीमेशन इत्यस्य वैश्चिकापण-मूल्यं त्रिंशदधिक-चतुश्शतं बिलियन डॉलर-मिततोऽपि अधिकम् अस्ति, अपि च आगामि-दशके अस्य द्विगुणीभूतस्य अनुमानम् अस्ति। सः प्रोक्तवान् यत् अनेन भारतस्य एनीमेशन-ग्राफिक डिज़ाइन इत्यनयोः उद्योगाय एकः महत्वपूर्णः अवसरः प्रदास्यते । श्रीमोदी अकथयत् यत् देशः तृतीया बृहत्तमार्थव्यवस्था भवितुं सकारात्मकदिशि प्रयासं करोति, अपि च अस्य पार्श्वे विश्वस्य तृतीयं बृहत्तमं स्टार्टअप इति पारिस्थितिकतंत्रम् अस्ति । सः प्रोक्तवान् यत् विकसित-भारतं प्रति भारतस्य यात्रा अधुनैव समारब्धा अस्ति सहेव अर्बुदतोऽप्यधिकायाः जनसंख्यायाः देशः भारतम्, अर्बुदतोऽप्यधिकानां कथानां देशः अपि अस्ति। अस्मिन् अवसरे महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फडणवीसः प्रख्यापितवान् यत् भारतं सञ्चारमाध्यमक्षेत्रे मनोरञ्जनक्षेत्रे च विश्वस्य नेतृत्वं विधातुं सज्जमस्ति। तेनोदीरितं यत् मनोरञ्जनार्थव्यवस्था भारतमहाराष्ट्रयोः कृते नूतनविकासस्य आधारभूतास्ति।

You Might Also Like

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: जियो-वर्ल्ड-कन्वेंशन-सेंटर
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Internet – विद्यालयानां कृते अन्तर्जालस्य आग्रहं कृतवन्तः शिक्षकाः,
Next Article नवदेहल्यां केन्द्रीय- ग्रामीणविकास- राज्यमन्त्रिणा कमलेश पासवानेन सह मिलितवान् लोकनिर्माणमन्त्री विक्रमादित्यसिंहः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?