Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान्
हिमसंस्कृतवार्ताः। भारतस्य अद्यतन जङ्गमदूरवाणिः इत्यस्याः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान्। गतवित्तीयवर्षस्य प्रथमदशमासेषु भारतस्य बृहत्तमनिर्यातरूपेण जङ्गम-दूरवाणिः समुद्भूतास्ति। सूचना-प्रौद्योगिक-मन्त्रिणा अश्विनीवैष्णवेन एकस्मिन् सामाजिकान्तर्जालीय संदेशे इदमुक्तम्। सः अवदत्, यत् यत्र त्रयोदशोत्तर-द्विसहस्र, चतुर्दशोत्तर -द्विसहस्रतमयोः सत्रे देशस्य जङ्गम-दूरवाण्याः निर्यातः सप्तषष्ठ्यधिकैकशततमे स्थाने आसीत् तत्रैव अधुना प्रथमस्थानं प्राप्तवानिति। सः अवदत् यत् सर्वकारेण जङ्गमदूरवाण्याः उत्पादनसम्बद्धाः प्रोत्साहनयोजनाः समारब्धाः सन्ति, अस्मै क्षेत्राय अवसरोऽयं महत्त्वपूर्णः अस्ति। मन्त्री उक्तवान् यत्, अस्मिन् क्षेत्रे विशेषतया महिलाभ्यः लक्षशः नूतनानि वृत्यवसराणि सृज्यन्ते।
Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
