By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः
धर्मसंस्कृतिः

महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः

डॉ.अमनदीप शर्मा
Last updated: 2025/02/24 at 7:06 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
6 Min Read
SHARE

महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः

शिवराजभट्टः

प्रतिसम्वतसरे फाल्गुनमासे कृष्णपक्षे शिवरात्रिदिने हिन्दुधर्मालम्बीनजनानां भक्तानां शिवालयेषु जनसम्मर्दः भवति । अस्मिन् दिने भारतस्य रीवामण्डले महामृत्युञ्जय शिवालयधामे, उज्जैननगरे महाकालेश्वर शिवालयधामे, मंडीमण्डले भूतनाथशिवालयधामे ,जूनागढ़े शिवालयधामे,तमिलनाडुराज्ये रामेश्वरधामे, जम्मूमण्डले शिवखोरीधामे, ऋषिकेशे नीलकंठे तथा नेपालस्य काठमाण्डौमण्डले पशुपतिधामे, अछामस्य बैद्यनाथधामे, देवघाटे, एवं प्रकारेण भुटानदेशे, बाङ्लादेशे, बर्मादेशे स्थितेषु बहुषु शिवालयेषु मेलापकाः भवन्ति । अस्मिन् चतुर्दशीदिने भक्तजनाः एकदिवसीयं शिवरात्रिव्रतं कृत्वा भगवन्तं शिवं गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितः चतुर्यामेषु प्रतियामे धूपैर्दीपैश्च नैवेद्यैः स्तोत्रपाठैर्जपादिभिः पूजार्चनं कुर्वन्ति प्रार्थयन्ति च । महाशिवरात्रिव्रतं नॄणां सर्वमङ्गलकारकम् वांछितार्थप्रदञ्चास्ति तस्मात् महाशिवरात्रिव्रतस्य प्रभावेण भक्तानाम् गृहे सर्वदुःखैकनाशनं सुखं, शान्तिः, समृद्धिः च प्राप्यन्ते, अनुत्तमसर्वैश्वर्यं लभ्यन्ते, सर्वविघ्नविनाशं भुत्वा, यद्यत्प्रार्थयते तत्तत वस्तु प्राप्नुवन्ति सर्वदा इह लोके सुखं भुक्त्वा दृढां शिवभक्तिं प्राप्नुवन्ति, अन्ते च शिवलोकं याते भक्तजनाः इति विश्वासं कुर्वन्ति ।
शिवशब्दस्य अर्थः कल्याणम् अस्ति तदा शिवरात्रिः कल्याकारीरात्रिः इत्यपि मन्यते । हिन्दुपञ्चाङ्गे द्वादशमासेषु द्वादशः भगवतः शिवस्य प्रियकृष्णचतुर्दश्यः शिवरात्रयः नामभिः प्रसिद्धा सन्ति, परन्तु ताषु फाल्गुनमासस्य कृष्णचतुर्दशी शिवस्य अतिप्रिया तिथिः महाशिवरात्रीति नाम्ना प्रसिद्धा अस्ति । अस्मिन् विषये श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमोऽध्याये शिवः नंदिकेश्वरं प्रति कथयति “शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया” अपरमेकं कथनम् अपि अस्ति “चतुर्दश्यां तु कृष्णायां फाल्गुने शिवपूजनम् । तामुपोष्य प्रयत्नेन विषयान् परिवर्जयेत ।” अस्मिन् महोत्सवविषये बहुनि पुराणानि बहुनि आख्यानानि सन्ति । सृष्टेः आरम्भे फाल्गुनमासे कृष्णपक्षे चतुर्दशीदिने मध्यरात्रौ भगवन् शङ्करः ब्रह्मणः रुद्ररूपेण अवतीर्णः बभूव । रुतं शब्दस्य अर्थं दु:खं, द्रावयति नाशयति अर्थात दुःखंनाशयति इति रुद्रः । अयम् उत्सवः हिन्दुधर्मे प्रसिद्धासु चतसृषु रात्रिषु मध्ये एका अस्ति । भगवतः कृष्णस्य जन्मदिवसे भाद्रकृष्णाष्टम्याम् पुराकाले भगवता कृष्णेन सर्वान् रक्षकान् मोहयित्वा गोकुलं गतवान् तस्मात् मोहरात्रीति नाम्ना प्रसिद्धा अस्ति । आश्विनशुक्लसप्तम्यां अर्थात नवरात्रिपर्वणि सप्तम्यां तिथौ देवीं कालरात्रीं पुजयन्ति तस्मात् कारणात् कालरात्रीति नाम्ना प्रसिद्धा अस्ति । कार्तिकमासे अमावस्यायां सुखसमृद्धर्थं लक्ष्मीं पूजयन्ति तस्मात् सुखरात्रीति नाम्ना प्रसिद्धा अस्ति । चतसृषु पवित्रासु रात्रिषु मध्ये एका शिवरात्रिः भगवतः शिवस्य आशुतोषस्य दिवसः अस्ति इति अपि पुराणेषु वर्णितः अस्ति । अस्मिन्दिने भक्तजनाः स्वगृहे शिवालये वा गत्वा निर्जलाव्रतम्, रात्रौजागरणम्, चतुर्यामेषु पूजनं, शिवलिङ्गे दुग्धाभिषेकं, शिवमहिमायाः गायनं, शिवसहस्रनामादि स्त्रोत्रपाठं, मन्त्र जपमित्यादिकं कार्यं कुर्वन्ति । बहुषु पुराणेषु शिवपूजनस्य विषये बहवः विधयः वर्णिताः सन्ति, परन्तु भगवन् शिवः केवलः शुद्धजलैः, विल्वपत्रै, लतापुष्पादिभिः च प्रसन्नः भवति बह्व्यः पूजनसामग्र्यः आवश्यकाः न इति भक्तजनाः विश्वासं कुर्वन्ति । “ न स्नानेन न वस्त्रेण न धूपेन न चार्चया । तुष्यामि न तथा पुष्पर्यथा तत्रोपवासतः।।” इत्यपि वर्णनमस्ति। महाशिवरात्रिः उत्सवः बहूनाम् उत्सवानां राजा इति कथ्यते, शिवरात्रि-उत्सवः जीवने आनन्दं जीवनान्ते च मोक्षम् आनयति इति जनाः मन्यन्ते। यदि कोऽपि आसम्वत्सरपर्यन्तं शिवपूजार्चनं कर्तुं समर्थः न भवति तर्हि महाशिवरात्रीदिने पूजार्चनं कृत्वा सम्पूर्णसंवत्सरस्य शुभफलं प्राप्नोति इति विश्वासम् अस्ति । प्रलयकाले अस्मिन् दिने भगवन् शिवः तृतीयेन नेत्रेण विश्वविनाशं करिष्यति इति पुराणेषु उल्लेखः अस्ति । श्रीगरुडपुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चतुर्विंशत्युत्तरशततमोऽध्याये महाशिवरात्रिव्रते अस्मिन्विषये “माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी । तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥” इत्यादि वर्णनमस्ति। शिवरात्रि व्रतविषये अग्निपुराणे द्विनवत्यधिकशततमोऽध्याये “माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी । कामयुक्ता तु सोपोष्या कुर्वन् जागरणं व्रती । शिवरात्रिव्रतं कुर्वे चतुर्दश्यामभोजनं” वर्णनमस्ति
श्रीमद्नारदपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे त्रयोविंशत्यधिकशततमोऽध्याये द्वादशमासस्थितचतुर्दशीव्रतवर्णनं प्रंसगे पृथक-पृथक चतुर्दशी व्रतस्य पृथक पृथक वर्णनमस्ति । अन्त्ये महाशिवरात्रि विषये “अंत्यकृष्णचतुर्दश्यां शिवरात्रिव्रतं द्विज । निर्जलं समुपोष्यात्र दिवानक्तं प्रपूजयेत् ।।” इति कथनमस्ति । स्कन्दपुराणे व्रतविषये “सागरो यदि शुष्येत क्षीयेत हिमवानपि । मेरुमन्दरशैलाश्च रीशैलो विन्ध्य एव च ।। चलन्त्येते कदाचिद्वै निश्चलं हि शिवव्रतम्।। ” इति वर्णनमस्ति। अयं दिवसः भगवतः शिवस्य पार्वतीदेव्याः सह पुनर्मिलनरूपेण अपि प्रसिद्धः अस्ति । पुराकाले भगवन् शिवः हिमालयस्य पूत्रीं पार्वतीं सार्धं फाल्गुनमासे कृष्णपक्षे चतुर्दशे दिने विवाहं चकार तस्मादपि महाशिवरात्रिदिवसस्य महन्महत्त्वं वर्तते । अधुनापि यदि कस्यापि विवाहे विविधा बाधाः सन्ति येनकेनापि कारणेन विवाहकार्ये विलम्बं भवति तदा चेत् सः भक्तिभावेण शिवरात्रिव्रतं करोति तदा व्रतप्रभावेण सर्वाः बाधाः विनिर्मुक्तो भूत्वा शीघ्रमेव विवाहः भवति इति भक्तजनाः मन्यन्ते ।
महाशिवरात्र्याः दिवसे भगवन् शिवः लिङ्गरूपेण प्रादुर्बभुव । तस्मिन् समये ब्रह्माः विष्णुः च प्रथमं लिङ्ग रूपेण शिवस्य पूजार्चनं स्तुतिञ्च चक्रतुः । अतः एव महाशिवरात्र्याः दिने शिवलिङ्गस्य विशेषरूपेण पूजनं भवति । यदा वासुकिम् मथनं योक्त्रं कृत्वा तथा मन्थानं मन्दरं कृत्वा उदधिं मेथुः । तदा भगवन् विष्णु स्वयं कुर्मरुपं समास्थाय मन्दरञ्च दध्रे । मथनतः प्राप्तः कालकुट विषात् रक्षाणार्थाय देवाः शिवं स्तुतिम् चक्रुः । भगवन् विष्णुः भगवन्तं शिवं समुद्रमन्थात् निर्गतः हालाहालविषं ग्रहणार्थं ददौ । ततः भगवन् शिवः तं विषममृतवत् स्वकण्ठे धृत्वा कैलासम् जगाम सृष्टिं सङ्कटात् ररक्ष । भगवतः शिवस्य कण्ठंनीलवर्णं बभूव भगवन् शिवः नीलकण्ठः इति अपि उच्यते इति वर्णनमस्ति । महाशिवरात्रौ पशुपतिनाथं षोडशोपाचारैः वेदघोषपूर्वकं पूजनं कुर्वन्ति । रात्रौ प्रथमयामे मोक्ष प्राप्तर्थं सायङ्काले शिवलिङ्गे पुजार्चनं कृत्वा दुग्धाभिषेकं जलाभिषेकञ्च कुर्वन्ति । द्वितीययामे रात्रौ धन समृद्धि प्राप्त्यर्थं शिवलिङ्गे पूजार्चनं कृत्वा दध्नाभिषेकं जलाभिषेकञ्च कुर्वन्ति । तृतीययामे मध्यरात्रौ शारीरिक रोगव्याधि विनासार्थं शिवलिङ्गे पूजार्जनं कृत्वा आज्याभिषेकं जलाभिषेकञ्च कुर्वन्ति । चतुर्थयामे अर्थात अपरदिने प्रभात समये ब्रह्म मुहुर्ते शिवलिङ्गे पूजार्चनं कृत्वा मधुनाभिषेकं जलाभिषेकं कुर्वन्ति। अस्मिन् दिने, देशदेशात् भक्ताजनाः साधवः, योगिनः, वैरागीनः, संन्यासिनः, नागबाबा इत्यादीनां विभिन्नानां सम्प्रदायानां वेषं धारयतः योगी पशुपतिनाथस्य दर्शनं पूजार्चनं कर्तुं अत्र समागच्छन्ति। महाशिवरात्रौ सायङ्काले दीपप्रज्वलनस्य परम्परा अस्ति । भगवन् शिवः धुनिप्रियः अस्ति इति पौराणिकविश्वास अस्ति, एवं शीतकाले अद्यापि शीतलः न भवेत चिन्तयित्वा , उष्णस्थानात् आगतः भक्तजनाः शीतं मा वाधेत, बहवः जनाः मनोरन्जनार्थं यत्रतत्र शिवधुनेः प्रज्वालनं कुर्वन्ति ।

You Might Also Like

श्रीवामदेवसंस्कृतमहाविद्यालये पञ्चत्रिंशद्बटूनां यज्ञोपवीतसंस्कारः

श्रीभगवत्कृपाशक्तिः-नारदोपाध्यायः

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-डॉ विमलेश झा

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article मन की बात- भारतीय-निवासिताः सर्वे जनाः नूतन प्राविधि-क्षेत्रे आर्टिफिशियल इंटेलिजेंस जगत्यां अग्रे एव चलन्ति
Next Article बागेश्वर-धाम-चिकित्सा एवं विज्ञान-अनुसन्धान-संस्थानस्य आधारशिलां संस्थापितवान् प्रधानमन्त्री नरेन्द्रमोदी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?