मन की बात- भारतीय-निवासिताः सर्वे जनाः नूतन प्राविधि-क्षेत्रे आर्टिफिशियल इंटेलिजेंस जगत्यां अग्रे एव चलन्ति
प्रधानममिन्त्रणा नरेन्द्रमोदिनोक्तं यत् आर्टिफिशियल इंटेलिजेंस-क्षेत्रे भारत-देशः द्रुतगत्या स्वीय अभिज्ञानं सुदृढी करोति। आकाशवाणीतःगतदिने मन की बात इत्यस्मिन् कार्यक्रमे श्री मोदिनोक्तं यत् भारतीय-निवासिताः सर्वे जनाः नूतन प्राविधि-क्षेत्रे आर्टिफिशियल इंटेलिजेंस जगत्यां अग्रे एव चलन्ति । असौ पेरिस नगर्यां ए. आई. अर्थात् आर्टिफिशियल इंटेलिजेंस-उपवेशने भागं ग्रहणावसरे वदति स्म। प्रधानमन्त्रिणोक्तं यत् यूनां सहभागिता-कारणात् अन्तरिक्ष- आर्टिफिशियल इंटेलिजेंस-सदृश-विभिन्न-क्षेत्रेषु नूतन क्रान्ति समायाता अस्ति। तेन गर्वं-अनुभूय अभिव्यक्तं यत् भारत-देशेन गत-मासे इसरो-माध्यमेन स्वकीय अन्तरिक्ष यानं प्रक्षेपितम्। तेन भणितं यत् एतेन स्पष्टमस्ति यत् राष्ट्रं प्रतिदिनं अंतरिक्ष-विज्ञाने नूतन-उपलब्धयः प्रापयति। प्रधानमन्त्रिणा अंतरिक्ष-वैज्ञानिकानां दलं नारीणां सहभागित्वमपि प्रशंसितम् । राष्ट्रिय-विज्ञान-दिवसः अस्मिन् मासे अष्टाविंशति-तारिकायां आमानितः। तेन मार्च अष्टम दिने अन्ताराष्ट्रिय-महिला-दिवस-परिपालन-विषये ऽपि चर्चा प्रकटितः। तेन भणितं यत् अवसरोऽयं नारी-शक्तिं नमन-करणस्य विशिष्ट-अवसरो विद्यते। प्रधानमन्त्रिणा प्रतिपादितं यत् हंसा मेहता वर्येण स्वीय राष्ट्रिय-ध्वज-निर्माणात् तं प्रति हुतात्मभूताभ्यः महिलाभ्यः योगदानमपि अस्माकं समक्षं उपस्थापितम् आसीत्। प्रधानमन्त्रिणा घोषणा एका विहिता यत् महिला दिवसोपलक्ष्ये असौ एकं पदक्षेपं विधास्यति, यं नारी-शक्तिं विषये पूर्णतया समर्पिता भविष्यति। प्रधानमन्त्रिणा उत्तराखण्डे राष्ट्रीय-क्रीडासु जनानां सहभागिता चर्चिता । तेनोक्तं यत् आयोजनेऽस्मिन् देवभूम्यां नूतन स्वरूपं प्रस्तुतम्। श्रीमोदिना प्रोक्तं यत् सर्वाधिक-स्वर्ण-पदक-विजेतुं-सैन्य-दलं भूरि-प्रशंसितम्। तेन भणितं यत् अस्मदीय बहवः क्रीडकाः ‘खेलो इंडिया’ इति अभियानस्य योगदानं अस्ति।
प्रधानमन्त्रिणा भणितं यत् अधुना प्रत्येकस्मिन् अष्टमेषु जनेषु एकः स्थूल-कायायाः कारणात् चिन्तितो वर्तते। चिन्तास्पदं वर्तते यत् बालकेरूयपि स्थूलतन-समस्या द्विगुणी भूता जाता। तेनोक्तं यत् जनाः स्वकीय-भोजन-चर्चायां परिवर्तनं विधाय आलस्य-मुक्ताः भवितुं शक्नुवन्ति । मन- की बात- इति कार्यक्रमे प्रधानमन्त्रिणा स्थूल जनानां विषये ओलम्पिक पदक विजेता-नीरज-चौपड़ा- मुष्ठी- क्रीडिका निखत जरीन-प्रख्यात चिकित्सक देवी शेट्टी एतेषां संदेशाः अपि सर्वश्रवण-गोचरी कृताः। डॉ. देवी शेट्टी वर्यया प्रोक्तं यत् स्थूल-मनुष्यः सर्वेषु कार्येषु आलस्यपूर्णेन करोति, एतां समस्यां अपाकरणस्य आवश्यकता विद्यते। प्रधानमन्त्रिणा भारतस्य जीवंत-वनस्पति जीव-जन्तूनां उल्लेखः अपि कृतः। तेनोक्तं यत् एशियाई सिंहः, हंगुल-पिग्मी हॉग- लॉयन- टेल्ड मैकाक-विश्वे कुत्रापि न प्राप्यन्ते। तेन वन्य जीवन-संरक्षण-सम्बद्ध-कार्येषु सक्रिय भूमिकां निर्वहणार्थं देशीय जनजातीय जनान् प्रति आभारः प्रकटितः। प्रधानमन्त्रिणा भणितं यत् कर्नाटके बी. आर. टी. बाघ-अभ्यारण्ये-बाघानां संख्या द्रुतगत्या वर्धयति। श्रीमोदिना अंडमान निकोबार द्वीप समूहे ‘डियर-वुमन’ नामधेया अनुराधा-रावस्य उल्लेखः अपि कृतः। अनुराधा रावेन गत त्रिषु दशकेषु मृग-मयूराणां रक्षार्थं अभियानमेकं प्रचालितम्। प्रधानन्त्रिणा परीक्षां भागं ग्रहीतुं तत्परेभ्यः छात्रेभ्यः शुभकामना संदेशः अपि प्रसारितः।
मन की बात- भारतीय-निवासिताः सर्वे जनाः नूतन प्राविधि-क्षेत्रे आर्टिफिशियल इंटेलिजेंस जगत्यां अग्रे एव चलन्ति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
