By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National & International News –  PM Modi : प्रधानमंत्री प्रथमायाः महत्वकांक्षिणः बहुद्देशीय- केन-बेतवा-राष्ट्रिय-नदी संयोजन परियोजनायाः शिलान्यासं कृतवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National & International News –  PM Modi : प्रधानमंत्री प्रथमायाः महत्वकांक्षिणः बहुद्देशीय- केन-बेतवा-राष्ट्रिय-नदी संयोजन परियोजनायाः शिलान्यासं कृतवान्
अन्ताराष्ट्रीयवार्ताःदिवसविशेषःराष्ट्रीयवार्ताः

National & International News –  PM Modi : प्रधानमंत्री प्रथमायाः महत्वकांक्षिणः बहुद्देशीय- केन-बेतवा-राष्ट्रिय-नदी संयोजन परियोजनायाः शिलान्यासं कृतवान्

डॉ मनोज शैल
Last updated: 2024/12/26 at 6:17 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National & International News –

PM Modi : प्रधानमंत्री प्रथमायाः महत्वकांक्षिणः बहुद्देशीय- केन-बेतवा-राष्ट्रिय-नदी संयोजन परियोजनायाः शिलान्यासं कृतवान्

 

प्रधानमन्त्री नरेन्द्रमोदी पूर्वप्रधानमन्त्रिणः भारतरत्न अटलबिहारी वाजपेयिवर्यस्य शततम्यां जयन्त्यां मध्यप्रदेशस्य खजुराहो स्थले देशस्य प्रथमायाः महत्वकांक्षिणः बहुद्देशीय- केन-बेतवा-राष्ट्रिय-नदी संयोजन परियोजनायाः शिलान्यासं कृतवान्। अत्रावधौ प्रधानमन्त्रिणा देशस्य प्रथमायाः ओड्ङ्कारेश्वर- फ्लोटिंग सोलर इत्यस्याः परियोजनायाः अपि उद्घाटनं विहितम्।

 

अत्रावसरे त्रिपञ्चाशदधिकैक- शतोत्तरैकसहस्र संख्यकानाम् अटलग्राम सुशासन भवनानां भूमिपूजनमपि अकरोत्। श्रीमोदी वाजपेयि वर्यस्य स्मृतौ एकां प्रैष्य चिटिकां मुद्रामपि प्रकाशितवान्। अत्रावसरे प्रधानमन्त्री प्रोक्तवान् यत् भारतीय जनता पार्टीति दलाय सुशासनं केवलम् एकदिवसीय – समायोजनं नास्ति अपि तु प्रशासनस्य अभिज्ञानं वर्तते। पूर्वप्रधानमन्त्रिणः अटल बिहारी वाजपेयिवर्यस्य स्मृतयः विनिमयीकृत्य श्रीमोदी न्यगादीत् यत् अटलवर्यः सुशासनस्य उत्तमसेवायाः च प्रेरणास्त्रोतः अस्तीति।

 

प्रधानमन्त्री बाबा – साहेब अम्बेडकरस्य भूमिकां प्रशंसयन् अवदत् यत् भारतस्य जलसंसाधनानां सुदृढीकरणाय जलप्रबन्धनाय जलबन्धनिर्माणाय च डॉ अम्बेडकरस्य दूरदर्शिता महत्वपूर्ण योगदानं प्रदत्तवती। देशे पर्यटनं प्रवर्धयितुं प्रशासनस्य प्रयत्नान् उल्लेखयन् श्रीमोदी आश्वासितवान् यत् केन्द्रप्रशासनं देशविदेशयोः समेषां पर्यटकानां कृते सौकर्याणि समेधितुं नैरन्तर्येण प्रयतमानं विद्यते। एतस्मिन् कार्यक्रमे मध्यप्रदेशस्य राज्यपालः मंगूभाई पटेलः मुख्यमन्त्री डॉ. मोहन यादवः केन्द्रीयजलशक्तिमन्त्री सी.आर. पाटिलः च उपस्थिताः समभवन्। अवधेयं वर्तते यत् केन बेतवा राष्ट्रिय नदी संयोजन परियोजना पञ्चाधिक षड्शतोत्तर- चतुश्चत्वारिंशत्सहस्र- कोटिरूप्यकाणां व्ययेन स्थापितास्ति। एषा परियोजना मध्यप्रदेशस्य उत्तरप्रदेशस्य च विभिन्नजनपदेभ्यः सिञ्चन- सौविध्यानि प्रदास्यति येन लक्षशः कृषकपरिवाराः लाभान्विताः भविष्यन्ति। अस्याः परियोजनायाः कारणात् अस्य क्षेत्रस्य जनानां कृते पेयजलापूर्तिरपि भविष्यति।

 

 

सुशासनदिवसरूपेण आचरित: पूर्व- प्रधानमनत्रिणः अटल बिहारी वाजपेयिनः जन्मदिवस:

 

राष्ट्रपतिः द्रौपदीमुर्मुः उपराष्ट्रपतिः जगदीप-धनखड़ः प्रधानमन्त्री नरेन्द्रमोदी च पूर्व- प्रधानमनत्रिणः अटल बिहारी वाजपेयिनः शत-तम-जयन्त्यवसरे राजधान्यां नवदिल्ल्यां ‘सदैव अटल’ स्मारके पुष्पाञ्जलिम् अर्पितवन्तः । अत्रावसरे पूर्व-राष्ट्रपतिः राम-नाथ कोविन्दः रक्षामन्त्री राजनाथसिंहः लोकसभाध्यक्षः ओम बिरला भाजपा-दलस्य राष्ट्रियाध्यक्षः जेपी नड्डाः अन्ये जनाश्च पूर्वप्रधानमन्त्रिणे पुष्पाञ्जलिम् अर्पितवन्तः ।

 

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः नवस्थापिताः बहुद्देशीय प्राथमिक कृषि सहकारिसंस्थाः, दुग्धोत्पादक- मत्स्यपालनसहकारिसंस्थाः च राष्ट्राय समर्पितवान्

 

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः अद्य नवदिल्ल्यां दशसहस्राधिकं नवस्थापिताः बहुद्देशीय प्राथमिक कृषि सहकारिसंस्थाः, दुग्धोत्पादक- मत्स्यपालनसहकारिसंस्थाः च राष्ट्राय समर्पितवान्। असौ राष्ट्रिय सहकारिता सम्मेलनस्य समये नवसङ्घटित सहकारिता समितये पञ्जीकरणप्रमाणपत्राणि, रुपे किसानक्रेडिट्काई, माइक्रो एटीएम इत्येतानि च वितरितवान्। एतैः वित्तीयपत्रैः पञ्चायतेषु ऋणसुविधाः वित्तीयसमावेशं च वर्धिष्यति। अपिच ग्रामीणेभ्यः योजनानां लाभः सरलतया भविष्यति। एताः समितयः ग्रामीण क्षेत्रेषु सहकारि संस्थानानां विकासकार्ये सहायकाः भविष्यन्ति। मन्त्रिणा सबलं प्रकाशितं यत् पूर्वं यदा देशे आधारभूत- संरचनाभ्यः प्राथमिकता नैव प्रदत्तासीत् तदा पूर्व प्रधानमन्त्रिणा अटल बिहारी वाजपेयिवर्येण स्वर्णिम – चतुर्भुज – मार्गः शुभारम्भितः।

 

प्रधानमन्त्री स्वामित्वयोजनायाः अन्तर्गतं पञ्चाशल्लक्षाधिक सङ्ख्यकानि सम्पत्तिपत्राणि वितरिष्यति

 

प्रधानमन्त्री नरेन्द्रमोदी आगामिनि शुक्रवासरे स्वामित्वयोजनायाः अन्तर्गतं पञ्चाशल्लक्षाधिक सङ्ख्यकानि सम्पत्तिपत्राणि वितरिष्यति। श्रीमोदी योजनायाः लाभार्थिभिः सह संवादमपि समाचरिष्यति । योजनायाः अन्तर्गतं ग्राम्य जनसङ्ख्यासु उत वा निवासक्षेत्रेषु प्रत्येकं निवसते सम्पत्तिस्वामिने अधिकारस्य प्रतिवेदनम् प्रदास्यते। पञ्चायतीराजमन्त्रालयेन उक्तं यत् स्वामित्वयोजना एतेषां भूस्वामिनां स्वसम्पत्त्याः मुद्रीकरणं कृत्वा सक्षमं ऋणप्राप्त्यर्थं साहाय्यं करिष्यति तथा च सम्पत्तिसम्बद्धविवादान् न्यूनीकरणं करिष्यति। पञ्चायतीराजसचिवेन विवेकभारद्वाजेन वार्ताहरैः सह वार्तालापं कुर्वता उक्तं यत् अस्याः योजनायाः अन्तर्गतं ड्रोन इत्यस्य निरीक्षणेन प्रायशः सप्तदशसहस्रोत्तर त्रिलक्षं यावत् ग्रामाणां निरीक्षणम् अभवत्।

 

हर्षोल्लासेन आचरित: क्रिसमिस पर्व

 

क्रिसमस् पर्व सम्पूर्णजगति महतोल्लासेन परिपालित:, भगवतः ईसा मसीहस्य जयंत्यवसरे इदं पर्व आमान्यते। अस्मिन् पर्वणि जनाः परस्परम् उपहारान् वितरन्ति। राष्ट्रपतिः द्रौपदी-मुर्मुः उपराष्ट्रपतिः जगदीप धनखडः प्रधानमंत्री नरेन्द्रमोदी च जनेभ्यः क्रिसमस्-पर्वणः शुभकामनाः अयच्छन्। एकस्मिन् सन्देशे राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् क्रिसमस पर्व प्रेम्णःसद्भावनायाश्च सन्देशं यच्छति। उपराष्ट्रपतिना उक्तं यत् इदं पर्व सद्भावं सहानुभूर्ति क्षमां च स्मारयति। अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् पर्वणाम् ऋतुः समेभ्यः प्रसन्नतां शान्तिं समृद्धिः च यच्छेत्।

 

कजाकिस्तानदेशस्य अक्ताऊ विमानस्थानकस्य समीपे यात्रीविमानं दुर्घटितम्

 

कजाकिस्तानदेशस्य अक्ताऊ विमानस्थानकस्य समीपे यात्रिविमानं दुर्घटितम् । पञ्चाशदधिकं जनाः मृत्युं संप्राप्तवन्तः । अजरबैजानविमानसेवायाः विमानं अजरबैजानदेशस्य बाकुतः रूसदेशस्य ग्रोजनी नगरं प्रति गच्छद् आसीत्। सप्तषष्टि- यात्रिणः चालकदलस्य च पञ्च सदस्याः च विमाने स्थिताः आसन् । कुज्झटिकायाः कारणेन विमानस्य मार्गः परिवर्तितः । कजाकिस्तानस्य स्वास्थ्यमन्त्रिणा अकमारल् अल्नाजारोवा इत्यनेन उक्तं यत् प्रारम्भिक- प्राप्तप्रतिवेदनेषु दुर्घटनायां षड् जनाः जीविताः आसन्, येषांस्थितिः गम्भीरा वर्तते ।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

शिक्षा-मन्त्रिणा धर्मेंद्र-प्रधानेन ‘टीचर ऐप 2.0’ इत्यस्य शुभारम्भः कृतः

गृह-मन्त्रालयेन नूतना राष्ट्रियातङ्कवाद-विरोधी नीतिः ‘प्रहार’ इति अनावरिता

गुयाना-देशस्य उपराष्ट्रमन्त्रिणा भरत-जगदेवेन उपराष्ट्रमन्त्रिणा सी.पी. राधाकृष्णन् महोदयेन सह मेलनं कृतम्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP NEWS : पीएमजीएसवाई-चरण-४ इत्यस्यान्तर्गतं पुरातनमार्गेषु धातुकरणाय अनुमोदनं प्राप्तम्- लोकनिर्माणमंत्री
Next Article babyjohn वरुणधवनस्य चलच्चित्रं बेबी जॉन क्रिसमस-दिने प्रदर्शितं जातम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?