पाकिस्तानस्य राजधान्यां इस्लामाबादनगरे ईरान-अमरीकादेशयोः मध्ये प्रचलतः युद्धविराम-वार्तायाः प्रथमः चरणः समाप्तः अभवत्। एषा चर्चा प्रायः होराद्वयं यावत् प्रचलिता। ईरानेन अमरीकादेशेन सह वार्तायै एषा शर्तः (प्रतिबन्धः) कृता अस्ति यत् लेबनानदेशे इस्रायली-आक्रमणानि पूर्णतया स्थगितानि भवेयुः। ईरानेन चेतावनी दत्ता यत् यदि आक्रमणानि निरन्तरं भविष्यन्ति, तर्हि वार्ता पूर्णतया निरस्ता भवितुं शक्नोति। एषा सूचना ईरानस्य सूत्राणां माध्यमेन प्राप्ता, किन्तु अद्यापि आधिकारिकं वक्तव्यं न निर्गतम्।
अस्यां गोष्ठ्यां विशेषज्ञाः सुरक्षा-राजनीति-सेना-अर्थव्यवस्था-विधि-सम्बद्धेषु विषयेषु चर्चां कृतवन्तः। अमरीकापक्षतः उपराष्ट्रपतिः जे.डी. वेन्सः, ईरानपक्षतः च संसद्-अध्यक्षः मोहम्मद बागेर गालिबाफः नेतृत्वं कृतवन्तौ।
अपरपक्षे ‘व्हाइट हाउस’ इत्यनेन पुष्टिः कृता यत् उपराष्ट्रपतिः जे.डी. वेन्सः अन्ये अमरीकीयाधिकारिणः च इस्लामाबादनगरे ईरानस्य प्रतिनिधिमण्डलेन सह प्रत्यक्षं मिलितवन्तः। एषा मेलनं रविवासरे अपि प्रचलेत् इति सम्भावना अस्ति। सप्तचत्वारिंशत् (४७) वर्षेभ्यः पूर्वं अर्थात् १९७९ तमे वर्षे ईरानस्य इस्लामिक-क्रान्तेः अनन्तरं प्रथमवारं द्वयोः देशयोः नेतारौ एतादृशे उच्चस्तरे परस्परं वार्तां कृतवन्तः।
पूर्वं ईरानेन उक्तम् आसीत् यत् यदि इस्लामाबादे प्रचलन्ती वार्ता कञ्चित् परिणामं न प्राप्नोति, तर्हि केवलं इस्रायलदेशः एव दोषी न भविष्यति। इस्रायल-अमरीकादेशयोः निर्णयाः परस्परं संलग्नाः सन्ति, अतः वार्तायाः विफलतायाः उत्तरदायित्वम् अमरीकादेशस्य अपि भविष्यति। ईरानेन अमरीकादेशः तर्जितः यत् यदि होर्मुज-मार्गेण किमपि अमरीकीयं जलयानम् आगमिष्यति, तर्हि अग्रिमेषु त्रिंशत् (३०) निमेषेषु तस्य उपरि आक्रमणं करिष्यामः।

इस्लामाबादनगरे ईरान-अमरीकादेशयोः मध्ये प्रचलतः युद्धविराम-वार्तायाः प्रथमः चरणः समाप्तः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment