HP NEWS : पीएमजीएसवाई-चरण-४ इत्यस्यान्तर्गतं पुरातनमार्गेषु धातुकरणाय अनुमोदनं प्राप्तम्- लोकनिर्माणमंत्री
हिमसंस्कृतवार्ता: – शिमला ।
लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अवदत् यत् प्रधानमन्त्री ग्रामसड़कयोजनाचरण-४ इत्यस्मिन् नूतनमार्गैः सह पुरातनविकृतमार्गेषु धातुकरणस्य राज्यस्य आग्रहं केन्द्रसर्वकारेण स्वीकृतम्। लोकनिर्माणमन्त्री उक्तवान् यत् राज्येन अस्मिन् विषये केन्द्रीयग्रामीणविकासमन्त्रिण: शिवराजसिंहचौहानस्य विशेषानुरोधः कृतः आसीत्। कृतज्ञतां प्रकटयन् सः अवदत् यत् राज्ये नूतनमार्गैः सह पुरातनविकृतमार्गेषु धातुकरणाय केन्द्रसर्वकारेण अनुमतिः राज्यस्य प्रायः १०००- १५०० किलोमीटर्पर्यन्तं मार्गाणां धातुकरणाय साहाय्यं करिष्यति। प्रधानमन्त्री- ग्रामपथयोजना- चरणचतुष्टयस्य अन्तर्गतविविधप्रावधानैः राज्यस्य ग्रामीणक्षेत्रेषु मार्गाणां सुदृढीकरणे महती सहायता भविष्यति इति उक्तवान्।
विक्रमादित्यसिंहः अवदत् यत् राज्यस्य विभिन्नेषु क्षेत्रेषु हिमपातेन अवरुद्धेषु मार्गेषु यातायातस्य सुचारुरूपेण संचालनार्थं युद्धपदे कार्यं क्रियते। अधिकांशः अवरुद्धमार्गाः विभागेन समये एव उद्घाटिताः सन्ति। हिमपातेन प्रभावितेषु चिह्नितेषु क्षेत्रेषु पर्याप्तं कार्यबलं यन्त्राणि च नियोजितानि सन्ति। पर्यटनर्तौ पर्यटकानाम् अपि च स्थानीयजनानाम् अपि असुविधा न भवेत् इति प्रयत्नाः क्रियन्ते।