नोएडा-प्रदर्शनम् -: श्रमिकाणाम् अन्तिमा अभियाचना, राहुल गान्धी महोदयः श्रमिकाणां समर्थनं कृतवान्
कांग्रेस-दलस्य पूर्व-अध्यक्षः राहुल गान्धी महोदयः नोएडा-नगरे श्रमिकाणां वेतनवृद्धये कृतम् आन्दोलनं न्याय्यं मन्यमानः उक्तवान् यत्— “आकाशस्पर्शिण्याः मूल्यवृद्धेः (महंगाई) काले वेतनवृद्धि-याचना सर्वथा युक्तिसङ्गता अस्ति, एतस्याम् अभियाचनायां संवेदनशीलतापूर्वकं ध्यानं दातव्यम्।”मङ्गलवासरे सामाजिक-माध्यमे ‘X’ (पूर्वं ट्विटर) इत्यत्र श्रीगान्धी महोदयः नोएडा-नगरस्य अनेकासु कम्पनीषु सोमवासरे श्रमिकाणां वेतनवृद्धये कृतस्य आन्दोलनस्य समर्थनं कृतवान्। सः अवदत् यत् यथा मूल्यवृद्धिः वर्धमाना अस्ति, तथा तेषां ‘न्यूनतमं वेतनम्’ अपि वर्धनीयम्। कांग्रेस-नेतुः मते सोमवासरे नोएडा-नगरस्य मार्गेषु यत् किमपि अभवत्, सा अस्य देशस्य श्रमिकाणाम् ‘अन्तिमा अभियाचना’ आसीत्। एतादृशः स्वरः यः दीर्घकालात् अनश्रुतः कृतः, यः याचनां कुर्वन् श्रान्तः जातः। नोएडा-नगरे कार्यं कुर्वतः एकस्य श्रमिकस्य १२,००० रूप्यकाणां मासिक-आये प्रायः ४,००० तः ७,००० रूप्यकाणि केवलं गृहभाटके (किराये) एव व्ययितानि भवन्ति।
नोएडा-प्रदर्शनम् -: श्रमिकाणाम् अन्तिमा अभियाचना, राहुल गान्धी महोदयः श्रमिकाणां समर्थनं कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
