महाराष्ट्र झारखण्डनिर्वाचनम्- महिलाप्रतिनिधिनां कृते अस्य निर्वाचनस्य विशिष्टं महत्त्वं वर्तते
हिमसंस्कृतवार्ताः। महाराष्ट्र झारखण्ड राज्ययोः विधानसभानिर्वाचनाय केवलं द्वे दिने एव अवशिष्टौ स्तः। अतः प्रचाराभियानमपि तीव्रगत्यां प्रचलति। महाराष्ट्र नवम्बरमासस्य विंशतिः दिनाङ्के एकस्मिन् चरणे एव निर्वाचनं भविष्यति। राज्ये अष्टाशीत्यधिक द्विशतं विधानसभा आसनानां कृते षत्रिंशत्यधिकैक शतोत्तर चतुःसहस्रं यावत् अभ्यर्थिनः भाग्यस्य परीक्षणं करिष्यन्ति। तेषु एकसप्तत्यधिक सप्तशतोत्तर त्रिसहस्रं यावत् पुरुषाः, त्रिषष्ठ्योत्तर त्रिशतं महिला अभ्यर्थिनः च सन्ति । महिलाप्रतिनिधिनां कृते अस्य निर्वाचनस्य विशिष्टं महत्त्वं वर्तते। अवधेयं वर्तते यत् महाराष्ट्रस्य विधानसभायाः कृते महिलानां सहभागितायाः समृद्धः इतिहासः अस्ति । सप्त पञ्चाशदधिक ऊनविंशति शततमे वर्षे विधानसभायाः आरम्भे एकषष्ठ्योत्तर चतुःशतं यावत् महिलाः निर्वाचिताः। तासां राज्यस्य राजनैतिकपरिदृश्ये महत्त्वपूर्ण योगदानम् अस्ति। झारखण्डे द्वितीयचरणस्य विधानसभानिर्वाचनस्य प्रचारः अद्य सायं समाप्तः भविष्यति। मतदातृन् आकर्षयितुं विभिन्नराजनैतिकदलानां नेतारः सर्वविध प्रयासरताः सन्ति। बोकारो मण्डलस्य गोमियायां एकां नैर्वाचनिक जनसभां सम्बोधयन् भाजपायाः अध्यक्षः जेपी नड्डा झारखण्डे असीमित भ्रष्टाचाराय कुशासनाय च हेमन्त सोरेनं आरोपितवान् ।
महाराष्ट्र झारखण्डनिर्वाचनम्- महिलाप्रतिनिधिनां कृते अस्य निर्वाचनस्य विशिष्टं महत्त्वं वर्तते
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
