झारखण्डस्य स्थितिः हिमाचल इव न भवेत् इति जयराम ठाकुरः राञ्च्यां काङ्ग्रेसस्य उपरि वाक्प्रहारं कृतवान्
हिमसंस्कृतवार्ता:- राञ्ची। जयरामठाकुरः काङ्ग्रेसस्य वचनानि कार्याणि च विषये प्रश्नान् उत्थापितवान्। जयरामठाकुरः भाजपा मीडियाकेन्द्रम्, राञ्ची इत्यत्र आयोजिते पत्रकारसम्मेलने उक्तवान् यत् काङ्ग्रेसेन हिमाचले मिथ्याप्रतिज्ञा: दत्त्वा सत्ता प्राप्ता। अधुना प्रतिज्ञानां च विरुद्धं कार्यं कर्तुम् आरब्धम् अस्ति। सः अवदत् यत् हिमाचले काङ्ग्रेसेन १० प्रतिज्ञा: दत्ताः, परन्तु वर्षद्वयं गतम्, अधुना यावत् काङ्ग्रेसेन स्वस्य एकापि प्रतिज्ञा न पूर्णं कृता, तस्य सर्वा: प्रतिज्ञा व्यर्थाः एव अभवन्। सः अवदत् यत् हिमाचलप्रदेशे काङ्ग्रेसेन कृताः प्रतिज्ञाः अधुना झारखण्डे पुनः पुनः क्रियन्ते। काङ्ग्रेसस्य प्रतिज्ञानां विषये प्रश्नान् उत्थापयन् जयरामठाकुरः अवदत् यत् १८ तः ६० वर्षाणां मध्ये आयुषः महिलानां कृते प्रतिमासं १५०० रूप्यकाणि दातुं प्रतिज्ञा कृता अस्ति। परन्तु हिमाचलप्रदेशे २ वर्षाणाम् अनन्तरं येषां महिलानां भगिनीनां च प्रतिज्ञा आसीत् तेभ्यः प्रतिमासं १५०० रूप्यकाणि न प्राप्यन्ते स्म । काङ्ग्रेसेन ५ वर्षेषु ५ लक्षं युवानां कृते कार्याणि प्रदास्यति इति प्रतिज्ञा कृता आसीत्, प्रतिवर्षं १ लक्षं कार्याणि दास्यन्ति। परन्तु सत्तां प्राप्तमात्रेण कार्याणि दातुं स्थाने पदानि निरस्तानि अभवन्।
जयराम ठाकुरः- झारखण्डस्य स्थितिः हिमाचल इव न भवेत्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment