एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता
एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता विश्वपर्यावरणदिवसे वृक्षारोपणम्, पर्यावरणसंरक्षणविषये च वक्तारः स्वविचारान् प्रकटितवन्तः दरभङ्गा, ५ जून। विश्वपर्यावरणदिवसस्य (२०२६) अवसरे ललितनारायणमिथिलाविश्वविद्यालयस्य भूगोलविभागस्य स्नातकोत्तर-एनएसएस-इकाइतः च संयुक्तावधाने स्नातकोत्तरभूगोलविभागे वृक्षारोपणस्य पर्यावरणजागरूकतासङ्गोष्ठ्याः च आयोजनं कृतम्। कार्यक्रमस्य अध्यक्षता…
कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम्
कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम् विश्वपर्यावरणदिवसे कुलपतेः नेतृत्वे सञ्चालितम् अभियानम् हिमसंस्कृतवार्ता, दरभङ्गा, ५ जून। विश्वपर्यावरणदिवसस्य अवसरे कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयमुख्यालये कुलपतेः प्रो. लक्ष्मीनिवासपाण्डेयमहोदयस्य नेतृत्वे शुकवासरे वृक्षारोपणं कृतम्। राष्ट्रीयसेवाोजनायाः (NSS) पर्यावरणमञ्चस्य च संयुक्तावधाने स्नातकोत्तरविभागप्राङ्गणेन सह विविधेषु…
नशामुक्तये सामूहिकप्रयासाः आवश्यकाः – राज्यपालः
नशामुक्तये सामूहिकप्रयासाः आवश्यकाः - राज्यपालः हिमसंस्कृतवार्ता: - शिमला।विश्वपर्यावरणदिवसे, राज्यपालः कवीन्द्रगुप्तः स्वच्छपर्यावरणाय नशामुक्तहिमाचलाय च सामूहिकरूपेण प्रयासान् कर्तुम् आह्वानं विहितवान्। तेन प्रकथितं यत् हिमाचलप्रदेशः स्वच्छपर्यावरणेन शुद्धवायुना च समृद्धं राज्यं वर्तते। सः आगामिसन्ततीनां…
धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्
धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम् हिमसंस्कृतवार्ता: - धर्मशाला। भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः 'इन्डिगो एयरलाइन्स्' इति विमानेन गगल-विमानापत्तने स्वपरिवारेण साकं प्राप्तवान्। भारतनिर्वाचन-आयोगस्य माननीयः मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः काङ्गड़ा-चम्बा-जनपदयोः चतुर्दिवसीय-प्रवासे वर्तते। तस्य…
जनगणना 2027- १५ जूनपर्यन्तं स्वयं पूरयन्तु स्वविवरणम्; मुख्यमन्त्रिणा प्रदेशवासिभ्यः सहभागितां निश्चितं कर्तुं कथितम्
जनगणना 2027- १५ जूनपर्यन्तं स्वयं पूरयन्तु स्वविवरणम्; मुख्यमन्त्रिणा प्रदेशवासिभ्यः सहभागितां निश्चितं कर्तुं कथितम् हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खूः गतदिने जनगणना-२०२७ इत्यस्याः अन्तर्गतं प्रचलति स्वगणना-अभियाने (सेल्फ एन्यूमरेशन) भागं गृहीतवान्, अन्तर्जाल-जालाधारस्य (ऑनलाइन…
विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायां ‘संस्कृतवाङ्मये पर्यावरणचिन्तनम्’ इति विषये राष्ट्रियसङ्गोष्ठ्याः आयोजनम्
विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायां ‘संस्कृतवाङ्मये पर्यावरणचिन्तनम्’ इति विषये राष्ट्रियसङ्गोष्ठ्याः आयोजनम् विश्वमोहनझा, दरभङ्गा, २ जूनमासः। ललितनारायणमिथिलाविश्वविद्यालयस्य स्नातकोत्तर-संस्कृतविभागस्य तथा च डॉ. प्रभातदास-फाउण्डेशन-इत्यस्य संयुक्ततत्वावधाने विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायाम् आगामी-जूनमासस्य ४ दिनाङ्के पूर्वाह्णे सार्ध-एकादशवादने (11:30) एका राष्ट्रियसङ्गोष्ठी आयोजयिष्यते।…
सक्षमाय, उत्तरदायित्वपूर्णाय, नियमानुकूलाय च प्रशासनाय अधिकारिणां प्राप्तं नवीनं ‘सखित्वम्’
सक्षमाय, उत्तरदायित्वपूर्णाय, नियमानुकूलाय च प्रशासनाय अधिकारिणां प्राप्तं नवीनं ‘सखित्वम्’ हिमसंस्कृतवार्ता, राघवनाथ झा।पाटलिपुत्रम्, २ जूनमासः (ज्येष्ठकृष्णद्वितीया, २०८३ विक्रमीयः)। बिहारसर्वकारस्य सामान्यप्रशासनविभागस्य मुख्यजाञ्चायुक्त-निदेशालयेन प्रकाशितायाः ‘अखिलभारतीयसेवाऽधिकारिणाम् अनिवार्यसहचरः’ इति पुस्तकस्य विमोचनं मङ्गलवासरे मुख्यसचिवालयस्य सभाकक्षे आयोजित-कार्यक्रमे…
शेखपुरामण्डलाय चिकित्सामहाविद्यालयस्योपहारः, त्रिंशद्दिनेषु समस्यायाः अनिस्तारणे अधिकारिणः निलम्बिताः भविष्यन्ति : मुख्यमन्त्री
शेखपुरामण्डलाय चिकित्सामहाविद्यालयस्योपहारः, त्रिंशद्दिनेषु समस्यायाः अनिस्तारणे अधिकारिणः निलम्बिताः भविष्यन्ति : मुख्यमन्त्री हिमसंस्कृतवार्ता, राघवनाथ झा।.शेखपुरा, २ जूनमासः (ज्येष्ठकृष्णद्वितीया, २०८३ विक्रमीयः)।शेखपुरामण्डलस्य बरबीघा-प्रखण्डे सामस-बुजुर्ग-पञ्चायते आयोजिते सहयोगशिविरे मुख्यमन्त्रिणा विकास-सुशासन-उत्तरदायित्वविषयेषु अनेकाः महत्त्वपूर्णाः घोषणाः कृताः। अस्मिन् मङ्गलमये…
केन्द्रसर्वकारेण लोखण्डेप्रशान्तसीतारामः सीबीएसई (CBSE) संस्थायाः अध्यक्षपदे नियुक्तः
केन्द्रसर्वकारेण लोखण्डेप्रशान्तसीतारामः सीबीएसई (CBSE) संस्थायाः अध्यक्षपदे नियुक्तः भारतीयप्रशासनिकसेवाश्रेण्याः (IAS) वरिष्ठः अधिकारी लोखण्डेप्रशान्तसीतारामः केन्द्रीयमाध्यमिकशिक्षाबोर्ड (CBSE) इत्यस्य नूतनः अध्यक्षः नियुक्तः अस्ति। श्रीसीतारामः अस्मात् पूर्वं गृहमन्त्रालये अपरसचिवरूपेण कार्यरतः आसीत्। सः श्रीराहुलसिंहस्य स्थानं स्वीकृतवान्,…
इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः
इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः पाटलिपुत्रम्, २ जूनमासः (ज्येष्ठकृष्णद्वितीया, २०८३ विक्रमीयः)। प्रेषकः राघव नाथ झा बिहार-शर्कराशाला-सङ्घस्य (BSMA) एकं प्रतिनिधिमण्डलम् उपमुख्यमन्त्रिणं कृषिमन्त्रिणं च विजयकुमारसिंहमहोदयम् उपगम्य राज्यस्य इक्षुकृषकाणां विविधसमस्याभिः सम्बद्धं ज्ञापनपत्रं…
