सी.बी.आई. इत्यस्य महती प्रकिया, मनाल्यां ९३ सहस्रम् उत्कोचं गृह्णन् सेनायाः गैरिसन्-अभियन्ता बन्दीकृतः
हिमसंस्कृतवार्ता: — मनाली ।
हिमाचलप्रदेशस्य मनाल्याः ‘बहाङ्ग’ क्षेत्रे केन्द्रीय-अन्वेषण-ब्यूरो (सी.बी.आई.) शिमला-शाखया भ्रष्टाचारविरोधिनीं महतीं प्रक्रियां प्रचाल्य ‘मिलिट्री इंजीनियरिंग सर्विसेज’ (MES) इत्यस्य सहायक-गैरिसन्-अभियन्ता के.के. सोनी (उत्तरप्रदेशनिवासी) ९३ सहस्ररूप्यकाणाम् उत्कोचं प्रत्यक्षतः गृह्णन् बन्दीकृतः। आरोपी-अधिकारिणः उपरि कस्यचित् कर्माध्यक्षस्य (ठेकेदार के) प्रायः ३० लक्षरूप्यकाणां प्रलम्बितं देयकं (बिल) स्वीकृतं कारयितुं पूर्णप्रदानस्य प्रतिशतं त्रयम् (३%) उत्कोचरूपेण याचितुम् आरोपः अस्ति।
सूचनानुसारं, कर्माध्यक्षेण उत्कोचयाचनायाः सङ्केतः सी.बी.आई. संस्थायै दत्तः आसीत्।
उपालम्भस्य प्रमाणीकरणोत्तरं संस्थया सुनियोजितं पाश-प्रक्रमं (‘ट्रैप ऑपरेशन’) सज्जं कृतम्। निर्धारितयोजनानुसारं यथा एव आरोपी-अधिकारिणः ९३ सहस्ररूप्यकाणाम् उत्कोचं स्वीकृतवान्, तदैव सी.बी.आई. दलेन सः घटनास्थले एव बन्दीकृतः। एषा प्रक्रिया सी.बी.आई. शिमला-शाखायाः आरक्षक-अधीक्षकस्य (SP) राजेशचहलस्य नेतृत्त्वे अतिरिक्त-आरक्षक-अधीक्षकेण सुमितपालेन उप-आरक्षक-अधीक्षकेण गोविन्दसोलङ्किना च साकं विहिता। बन्दीकरणात् सद्यः परमेव सी.बी.आई. संस्थया आरोपिणः सर्वकारीय-आवासे अपि मर्मान्वेषणम् (छापेमारी) कृतम्।
सायङ्कालं यावत् प्रवृत्तायां अन्वेषण-प्रक्रियायां दलेन शङ्कास्पदा नकदी-राशिः, महत्त्वपूर्णाः सर्वकारीय-प्रलेखाः (दस्तावेज) अन्याः पञ्जिकाश्च (रिकॉर्ड) स्वाधीनाः कृताः, येषाम् अन्वेषणं प्रचलति। संस्था अधुना एतदपि ज्ञात्वा प्रयतते यत् आरोपिणः एषा उत्कोचखोरी कस्यचित् बृहत्-तन्त्रस्य (नेटवर्क) भागः तु नासीत्। एतादृशात् संवेदनशीलात् रक्षाप्रतिष्ठानेन सम्बद्धात् कार्यालयात् उत्कोचप्रकरणस्य सम्मुखम् आगमनेन सुरक्षा-प्रशासनिक-मण्डलेषु अपि महान् सङ्क्षोभः संजातः। सी.बी.आई. संस्थया आरोपिणः विरुद्धं भ्रष्टाचारनिवारण-अधिनियमस्य अन्तर्गतं प्रकरणं पञ्जीकृतम्। संस्था अधुना आरोपिणा सह पृच्छां करोति तस्य वित्तीय-व्यवहाराणां, सम्पत्तीनां तथा च अन्येषाम् आनुषङ्गिक-अधिकारिणां भूमिकायाः अपि अन्वेषणं विधीयते।
