HP Congress – हिमाचल-काङ्ग्रेसेन सङ्घटनस्य दृढीकरणाय निर्मितं मार्गचित्रम्, राज्ये सद्यः एव भविष्यति मन्त्रिमण्डलविस्तारः
हिमसंस्कृतवार्ता: — शिमला ।
हिमाचलप्रदेश-काङ्ग्रेसस्य नूतन-कार्यकारिण्याः सङ्घटनात् परं शनिवारवासरे राजीवभवने आयोजितायाम् प्रथमायां सामान्यसभायां (आम सभा) सङ्घटनं मतदानकेन्द्रस्तरं (बूथ स्तर) यावत् सुदृढीकर्तुं आगामि-राजनैतिक-रणनीतेः उपरि च विमर्शः कृतः। उपवेशने काङ्ग्रेसस्य हिमाचलप्रभारिणी रजनीपाटिलमहोदया सद्यः एव प्रदेशे मन्त्रिमण्डलविस्तारस्य स्पष्टं सङ्केतं दत्तवती। तया ज्ञापितं यत् १६ तथा १७ जुलाई दिनाङ्कयोः धर्मशालायां भविष्यति महत्त्वपूर्ण-उपवेशने सङ्घटन-महासचिवस्य के. सी. वेणुगोपालस्य उपस्थितौ मन्त्रिमण्डलविस्तारं समेतान् बहून् प्रमुखाशयान् अधिकृत्य विमर्शः भविष्यति।
माध्यमैः (मीडिया) साकं सम्भाषणे रजनीपाटिलमहोदया अवदत् यत् काङ्ग्रेसदलस्य ध्यानं सङ्घटनं भूमितलं (जमीनी स्तर) यावत् सुदृढीकर्तुं वर्तते। राममन्दिर-धनसङ्ग्रहप्रकरणं प्रति भारतीयजनतापक्षस्य (भाजपा) उपरि प्रहारं कुर्वती रजनीपाटिलमहोदया अवदत् यत् काङ्ग्रेसदलं निष्पक्षां गभीराञ्च अन्वेषणं याचते। तस्याः कथनम् आसीत् यत् भाजपादलेन राममन्दिरनाम्ना जनेभ्यः मतं (वोट) याचितं, अतः अधुना सम्मुखम् आगतानाम् आरोपाणां सत्यता अपि प्रकटिता भवेत्।
तया तैलवर्गे (पेट्रोल) एथनॉल-मिश्रणस्य विषयं प्रत्यपि चिन्ता प्रदर्शिता, उक्तञ्च यत् सर्वकारेण अस्य प्रभावाणाम् गम्भीरम् अध्ययनं कृत्वा आवश्यकाः उपायाः करणीयाः। उपवेशने सङ्घटनस्य सुदृढीकरणं, राजनैतिक-रणनीतिः, प्रदेशस्य समसामयिकाः विषयाः च अधिकृत्य विस्तरेण चर्चा विहिता।
