HP WEATHER – हिमाचले निरन्तरम् एकसप्ताहं यावत् वर्षिष्यन्ति मेघाः, पञ्चसु मण्डलेषु दिनद्वयं यावत् वृष्टेः ‘नारङ्गसचेतना’

हिमसंस्कृतवार्ता: — शिमला ।
हिमाचलप्रदेशे निरन्तरम् एकसप्ताहं यावत् मेघवर्षणस्य सम्भावना वर्तते। राज्यस्य पञ्च मण्डलानां कृते दिनद्वयस्य प्रचण्डवृष्टेः नारङ्ग-सचेतना प्रसारिता अस्ति। गतेषु २४ होरासु कसौली-क्षेत्रे ५५.०, मनाल्यां ५१.०, भटियाते ४५.३, धर।मपूरे ४२.४, सराहन-क्षेत्रे ३९.५, कोटखाई-क्षेत्रे ३१.१, सलूण्यां २६.२, जुब्बड़हट्ट्यां २५.६, जोत-चम्बायां २१.२, भरमौरे १६.२ तथा च भरवाईं-क्षेत्रे १४.० मिलिमीटर (mm) वृष्टिः अङ्किता। राजधान्या शिमलाया साकम् अन्येषु बहुषु भागेषु स्थगं-स्थगं वृष्टिः प्रचलति।
निर्माणस्य कतिपयहोरासु एव ध्वस्ता जाता रोध-भित्तिः
अपरपक्षे, चुराह-उपमण्डलस्य ‘कल्हेल-बंजली-रैला’ मार्गस्य ‘थलान’ इत्यस्य ‘कुठलु’ स्थाने लोकनिर्माणविभागेन (PWD) शुक्रवासरे निर्मिता रोध-भित्तिः (डंगा) चिररात्रौ ध्वस्ता जाता। सूचनानुसारम् अस्मिन् स्थाने मार्गस्य क्षतिग्रस्तत्वात् गमनागमनं बाधितं भवति स्म। बस-यानयोग्यं मार्गं पुनरुद्धर्तुं लोकनिर्माणविभागेन अत्र रोध-भित्तेः निर्माणं कृतम् आसीत्। ग्रामीणानां कथनमस्ति यत् अत्र कङ्क्रीट-माध्यमेन सुदृढः रोध-भित्तिः स्थापनीया, येन मार्गः दीर्घकालं यावत् सुरक्षितः तिष्ठेत्, जनानां गमनागमने च कापि बाधा न भवेत्।
एतेषां मण्डलानां कृते प्रचण्डवृष्टेः सतर्कता
ऋतुविज्ञानकेन्द्र-शिमलायाः अनुसारं राज्ये १० जुलाई दिनाङ्कं यावत् वृष्टेः क्रमः प्रचलिष्यति इति पूर्वानुमानं वर्तते। ६, ७ तथा ८ जुलाई दिनाङ्केषु राज्यस्य अधिकांशभागेषु मन्दतः मध्यमा वृष्टिः भवितुं शक्नोति। साकमेव ६ तथा ७ जुलाई दिनाङ्कयोः केषुचित् स्थानेषु प्रचण्डतः अतिवृष्टिः, ८ जुलाई दिनाङ्के च प्रचण्डवृष्टेः ‘नारङ्गसचेतना’ अस्ति। ४, ५, ९ तथा १० जुलाई दिनाङ्केषु राज्यस्य बहुषु क्षेत्रेषु मन्दतः मध्यमा वृष्टिः भवितुं सम्भावना अस्ति। ४, ५ तथा ९ जुलाई दिनाङ्कयो: केषुचित् स्थानेषु वृष्टेः पीत-सतर्कता वर्तते।
६ जुलाई दिनाङ्काय मण्डी-सिरमौरमण्डलयोः प्रचण्डतः अतिवृष्टेः ‘नारङ्गसचेतना’ प्रसारिता अस्ति। ७ जुलाई दिनाङ्के अपि चम्बा-काङ्गड़ा-सिरमौरमण्डलानां कृते नारङ्ग-सचेतना अस्ति। शिमला-समेतेषु अन्येषु मण्डलेषु पीतसचेतना प्रसारिता। सोलन-सिरमौर-बिलासिपुर मण्डलानां कृते पीतसचेतना अस्ति।
जुलाई मासस्य दिनत्रये सामान्यात् १०६% अधिका वृष्टिः
अस्मिन् ऋतुकालीनवृष्टिकाले (मानसून-सीजन) १ तः ३ जुलाई पर्यन्तं राज्ये सामान्यात् १०६% अधिका वृष्टिः अङ्किता। अस्या अवधेः कृते १५ मिलिमीटर वृष्टिः सामान्या मन्यते स्म, परन्तु वास्तवतः ३०.९ मिलिमीटर वृष्टिः संजाता। बिलासपुरे सामान्यात् ३७%, चम्बायां १०७%, हमीरपुरे ४५%, काङ्गड़ायां १२५%, किन्नौरे ४२३%, कुल्लू-क्षेत्रे १९५%, मण्ड्यां ४६%, शिमलायां ११७%, सिरमौरे १४३%, सोलन-क्षेत्रे १४Map तथा च ऊना-मण्डले १३०% अधिका वृष्टिः अङ्किता। लाहौल-स्पीतौ सामान्यात् ३०% न्यूना वृष्टिः अभवत्।
प्रावृट्ऋतौ स्थानीयप्रशासनम् आपदाप्रबन्धनसमूहा: च पूर्णतया सावधानाः – नरेशचौहानः
राज्ये मानसूनकाले आपदाप्रबन्धनस्य सज्जतां सतर्कतां च अधिकृत्य मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खू महोदयस्य प्रधानपरामर्शदात्रा (मीडिया) नरेशचौहानेन कथितम्— ‘अस्माकं सर्वकारः, मण्डलाप्रशासनं, लोकनिर्माणविभागः, विद्युत्विभागः, स्थानीयप्रशासनम् आपदाप्रबन्धनदलानि च श्च पूर्णरूपेण सजगाः सन्ति। वयम् २०२३ तमवर्षस्य भीषणविपद् तथा २०२५ तमवर्षस्य जटिलानां स्थितीनां सम्मुखीकरणं कृतवन्तः। अतः, प्रत्येकः विभागः सज्जः तिष्ठति, कस्यामपि घटनायां सत्यां सद्यः प्रक्रमं करोत्। मार्गाः शीघ्रतिशीघ्रं उद्धाट्यन्ते, आवश्यकीः सेवाः च विना कापि विलम्बं पुनरुद्ध्रियन्ते… अहं पर्यटकेभ्यः प्रार्थयितुम् इच्छामि यत् शिमला, मनाली, धर्मशाला, डलहौजी, कसौली सदृशानि स्थानानि सुरक्षितानि सन्ति। जनैः आगन्तव्यं, हिमाचलप्रदेशस्य सुखदवातावरणस्य मानसूनस्य च सौन्दर्यस्य आनन्दः ग्रहीतव्यः। केवलं अतिवृष्टिकाले तैः नदीभ्यः, उपनदेभ्यः, सङ्कटपूर्णस्थानेभ्यश्च दूरे स्थातव्यम्। राज्यस्य यात्रां न कर्तुं किमपि कारणं नास्ति।’
