Himsanskritnews Headlines : प्रमुखा: राष्ट्रीया: अन्ताराष्ट्रीया: प्रादेशिका: च संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- माइक्रोसॉफ्ट इत्यस्य सेवायाः अवरुद्धानन्तरं शनिवासरे सर्वेषु विमानस्थानेषु विमान-संचालन-प्रक्रिया सामान्यरूपेण समारब्धा अस्ति ।
- सर्वकारेण संसदः वित्त-सङ्कल्पना सत्रात् पूर्वं रविवासरे सर्वदलीयोपवेशनम् आहूतम् अस्ति ।
- राष्ट्रिय-परीक्षाभिकरणम् एन.टी.ए. इत्यनेन नीट-स्नातक-प्रवेशपरीक्षायाः परिणामः परीक्षा-केन्द्रानुसारं स्वकीयान्तर्जालपटले उद्घोषितः अस्ति।
- बांग्लादेशे प्रवर्तमानं आरक्षण- विरुद्ध-प्रदर्शनम् वीक्ष्य सहस्राधिकाः भारतीयच्छात्राः भारतं प्रत्यावर्तिताः ।
- महिला-एशिया-विंशति-प्रति-विंशति-क्रिकेट-चषके, थाईलैंड-दलेन मलेशियादलं द्वाविंशति-धावनाङ्कै: पराजितम् ।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशः देशस्य प्रथमं राज्यं यत् राज्यस्य ६,००० तः अधिकेभ्य: निराश्रितबालेभ्य: वैधानिक-अधिकार-प्रदाय, तान् ‘राज्यस्य बालकाः’ इति रूपेण स्वीकृतवन्त: । राज्यसर्वकारेण निराश्रितबालानां सम्माननीयं जीवनं प्रदातुं दायित्वं स्वीकृतम् अस्ति।
- शनिवासरे शिमलायां वेदविहार- पब्लिकस्कूल-एजुकेशनल-सोसायटी इत्यस्य अध्यक्ष के.एस. श्रीकोट: मुख्यमंत्री-सुखाश्रयकोषाय १,५४,०८,६५७ रुप्यकाणां सहायताराशि: चैकमाध्यमेन अददत्। एतस्याः राश्याः अतिरिक्तं ११० उत्पीठिका:, १६ काष्ठपेटिकाः, ८४ आसन्दा:, त्रीणि वाद्ययन्त्राणि, विविधानि ज्ञानप्रदायकानि पुस्तकानि च समित्या प्रदत्तानि।
- हिमाचलप्रदेशे चत्वारः नवीनाः डीजीपीः प्राप्ताः। इतरथा भारतीयपुलिससेवाया: (आईपीएस) अधिकारी संजीवरंजन: ओझा इत्यस्मै राज्यस्य सीआईडी इत्यस्य प्रभारः दत्तः अस्ति। राज्यसर्वकारस्य मुख्यसचिवेन प्रबोध सक्सेना इत्यनेन अस्मिन् विषये आदेशाः प्रसारिता:।
- उत्तरभारतस्य प्रसिद्धायां मणिमहेशयात्रायां प्रत्येकस्य भक्तस्य पञ्जीकरणं भविष्यति। यात्रा अगस्तमासस्य २८ दिनाङ्कात् सेप्टेम्बरमासस्य ११ दिनाङ्कपर्यन्तं भविष्यति। मणिमहेशं गच्छन् कोऽपि www.manimaheshyatra.hp.gov.in इत्यत्र पञ्जीकरणं कर्तुं शक्नोति।
- हिमाचलपथपरिवहननिगमस्य प्रबन्धनेन हमीरपुरजनपदस्य नादौनाय नूतनं बस-आगारं उपहाररूपेण दत्तम् अस्ति । राज्यसर्वकारस्य आदेशेन हिमाचलपथपरिवहननिगमस्य प्रबन्धनिदेशकः रोहनचन्दठाकुरः अधिसूचना प्रसारितवान्। अस्मिन् आगारस्य अन्तर्गतं के मार्गाः प्रचलन्ति इति विषये पृथक्-पृथक् आदेशाः निर्गताः भविष्यन्ति।