By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : आकाशवाण्यां संस्कृतवार्ता-सम्प्रषारणस्य पञ्चाशततमं वर्षमभिलक्ष्य  प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रति मनोगते कार्यक्रमे शुभाशंशाः सम्प्रेषिताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : आकाशवाण्यां संस्कृतवार्ता-सम्प्रषारणस्य पञ्चाशततमं वर्षमभिलक्ष्य  प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रति मनोगते कार्यक्रमे शुभाशंशाः सम्प्रेषिताः
राष्ट्रीयवार्ताः

National News : आकाशवाण्यां संस्कृतवार्ता-सम्प्रषारणस्य पञ्चाशततमं वर्षमभिलक्ष्य  प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रति मनोगते कार्यक्रमे शुभाशंशाः सम्प्रेषिताः

डॉ मनोज शैल
Last updated: 2024/06/30 at 10:30 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National News : हिमसंस्कृतवार्ताः – राष्ट्रीयवार्ता:

Mann Ki Baat : प्रधानमन्त्रिणा संविधानसंहितां प्रति, राष्ट्रस्य लोकतान्त्रिक व्यवस्थां प्रति च जनविश्वासाय जनेभ्यः धन्यवादाः प्रदत्ताः

Mann Ki Baat : आकाशवाण्यां संस्कृतवार्ता-सम्प्रषारणस्य पञ्चाशततमं वर्षमभिलक्ष्य  प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रति मनोगते कार्यक्रमे शुभाशंशाः सम्प्रेषिताः

Mann Ki Baat : प्रधानमन्त्रिणा श्रीमोदिना अस्मिन् वर्षे पर्यावरण-दिवसावसरे समारब्धस्य ‘एक पेड़ माँ के नाम’ इति कार्यक्रमस्य विषये उक्तं यत् स्वकीयया मात्रा सह उतो वा मातुः नाम्ना एकः पादपः रोपणीयः

हिमसंस्कृतवार्ता: – नवदेहली। 

 

प्रधानमन्त्री नरेन्द्र मोदी अद्य स्वकीये आकाशवाणीतः प्रसारिते ‘मन की बात’ इति कार्यक्रमे देशवासिनः प्रति आभारभावान् व्यक्तीकृतवान्। तेन संविधानसंहितां प्रति, राष्ट्रस्य लोकतान्त्रिक-व्यवस्थां प्रति च जनविश्वासाय, सामान्य लोक-सभानिर्वाचनानन्तरं प्रसारिते अस्मिन् एकादशोत्तर-एकशततमे मन की बात इति धारावाहिके कार्यक्रमे अद्य प्रातः एकादशवादने राष्ट्र सम्बोधयता उक्तं यत् अस्य वर्षस्य निर्वाचनम् विश्वस्य सर्वाति बृहत्तमं निर्वाचनमासीदिति। यत्र पञ्चषष्टिकोटिजनैः मतदानं कृतम्। श्रीमोदिना अस्मिन् वर्षे पर्यावरण-दिवसावसरे समारब्धस्य ‘एक पेड़ माँ के नाम’ इति कार्यक्रमस्य विषयेऽपि चर्चा कृता। तेनोक्तं यत् स्वकीयया मात्रा सह उतो वा मातुः नाम्ना एकः पादपः रोपणीयः इति। योगस्य विषये चर्चा कुर्वन् प्रधानमन्त्री उक्तवान् यत् आसंसारं दशमः विश्वयोगदिवसः सोत्साहेन परिपालितः। तेनोक्तं यत् योगदिवसस्य आयोजनं यथायथं अग्रे वर्धते, तथैव नूतन-कीर्तिमदपि संरचयदस्ति। प्रधानमन्त्रिणा एतदपि उक्तं यत् अग्रिममासस्य अस्मिन्नेव कालांशे पेरिस ओलम्पिकाख्यः क्रीडाकुम्भः समारप्स्यति। तेनोक्तं यत् अस्मिन् क्रीडाकुम्भे कतिपय प्रकरणानि पप्रथमतया दृष्टिपथं समायास्यन्ति। प्रधानमन्त्री उक्तवान् यत् आराष्ट्रम् इच्छति यत् क्रीडकाः पदकानि संगृह्य प्रत्यावर्तयेयुरिति। प्रधानमन्त्री मोदी उक्तवान् यत् कुवैतप्रशासनेन स्वकीये आकाशवाणी कार्यक्रमे एकः कार्यक्रमः हिन्दीभाषायाः अपि समारब्धोऽस्ति।

संस्कृतवार्ता-सम्प्रषारणस्य अयं पञ्चाशततमः वर्षः अस्ति, इति मत्वा प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रत्यपि शुभाशंशाः सन्ति सम्प्रेषिताः

ध्यातव्यमस्ति यत् आकाशवाण्याः संस्कृतवार्तावर्गस्य स्वर्णजयन्तिवर्षः अद्यारभते। संस्कृतवार्तायाः प्रथमप्रसारणं चतुस्सप्तत्यधि-कैकोनविंशत्तमख्रिष्टाब्दस्य जूनमासस्य त्रिंशत्तमदिनाङ्कतः आकाशवाणीकेंद्रात् समारब्धम्। पूर्वं पञ्चनिमेषात्मिका दैनिकसंस्कृतवार्ता प्रातः नववादने सम्प्रसारिता, तदुपरान्ते च अस्याः प्रसारणकालः पञ्चोनसप्तवादनमजायत। दशनिमेषात्मकञ्च द्वितीयप्रसारणं सन्ध्यायां दशाधिकषड्‌वादने अभवत्, अनन्तरञ्च कालोऽयं परिवर्त्य विंशतिनिमेषाधिकषड्वादनमभवत्। स्वस्यां विशिष्टशैल्यां, आकाशवाणीवर्गः विगतैकोनपञ्चाशत्वर्षेभ्यः भारतस्य नागरिकान्तं यावत् संस्कृतभाषायां संस्कृतवार्ताः प्रापयन्नस्ति। प्रधानमन्त्रिणा मन की बात इति कार्यक्रमे अग्रे उक्तं यत् जूनमासस्य त्रिंशद्दिनाङ्कः इतोऽपि एकेन कारणेनापि विशिष्टः अस्ति, यतो हि दिवसोऽयं हलदिवसरूपेणापि परिपाल्यते। तेनोक्तं दिवसोऽयं झारखण्डस्य वीरयोः सिद्ध-कान्हू चेत्येतयोः साहसपराक्रमेण सम्बद्धोऽस्ति । याभ्यां-ब्रिटिश-अत्याचाराणां विरोधः विहितः आसीत्। प्रधानमन्त्रिणा मन की बात इति कार्यक्रममाध्यमेन जनैस्सह संयोजने साफल्याय प्रसन्नता अस्ति प्रकटिता। नेतोक्तं यत् मन की बात इति कार्यक्रमे भारतस्य समृद्ध संस्कृतिविषये, इतिहास-विषये विकसितभारतस्य विनिर्माणे च परिचर्चा सातत्यं प्रवहिष्यतीति।

जनरल-उपेन्द्र-द्विवेदी इत्यनेन नवदेहल्यां सेनाध्यक्षरूपेण कार्यभारं स्वीकृतम्।

हिमसंस्कृतवार्ता: – नवदेहली। 

जनरल-उपेन्द्र-द्विवेदी इत्यनेन रविवासरे दिल्ली-नगरे सेनाध्यक्षरूपेण कार्यभारं स्वीकृतम्। जनरल-मनोज-पाण्डेयः चतुरधिकदशकेभ्यः विशिष्ट सेवां प्रदाय सेवानिवृतः अभवत्। स्वकीये सुदीर्घकार्यकाले सः विविध-पदेषु सेवाम् अयच्छत्।

विदेशमंत्रिण: एस.जयशंकरस्य कतरदेशस्य यात्रा 

हिमसंस्कृतवार्ता: – नवदेहली। 

विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः अद्य कतर-देशस्य यात्रायां गच्छति। विदेश मन्त्रालयेन प्रोक्तं यत् एक-दिवसीय यात्रावधौ डॉ. जयशंकर कतर देशस्य प्रधानमन्त्रिणा विदेशमन्त्रीणा च शेख-मोहम्मद-बिन-अब्दुल रहमान-बिन-जसीम-अल-सानी इत्यनेन सह मेलनं करिष्यति। डॉ जयशंकर द्वयोः देशयोः मध्ये राजनीतिकं व्यापारिक विनिवेश-ऊर्जा-सुरक्षा-सांस्कृतिक-परस्पर हिताधारितः विषयेषु च क्षेत्रीय अन्ताराष्ट्रिय च विषयैस्सह द्विपक्षीय सम्बधानां समीक्षामपि करिष्यति। मन्त्रालयेन प्रोक्तं यत् भारत-कतर देशयोः मध्ये ऐतिहासिक-मैत्रीपूर्णश्च सम्बन्धः वर्तते।

ऋतुविज्ञानकेन्द्रम् –  आगामिषु द्वित्रिषु दिवसेषु उत्तरभारतस्य कतिपय-भागेषु दक्षिण-पश्चिम वर्षर्तोः वरीवर्धनाय परिस्थितयः अनुकूलाः

हिमसंस्कृतवार्ता: – नवदेहली।

भारतीय-ऋतुविज्ञानविभागेन उक्तं यत् आगामिषु द्वित्रिषु दिवसेषु पश्चिमराजस्थान, हरियाणा, चण्डीगढ, पंजाबस्य कतिपय भागेषु पश्चिमोत्तरप्रदेश, हिमाचलप्रदेश, जम्मोः अवशिष्ट भागेषु च दक्षिण-पश्चिम वर्षर्तोः वरीवर्धनाय परिस्थितयः अनुकूलाः सन्तीति। विभागेनोक्तं यत् उत्तराखण्ड, हिमाचलप्रदेश, पंजाब, हरियाणा, चण्डीगढ़, उत्तरप्रदेश, पूर्वीराजस्थान, मध्यप्रदेशे च त्रिचतुर्दिवसेषु उन्कटवर्षायाः अस्ति सम्भावना।

महिला क्रिकेटनिकषस्पर्धा – स्नेहा-राणा इत्यनया दक्षिण अफ्रीकां विरुध्य अष्टक्रीडकान् सम्पात्य कीर्तिमत् विरचितम्

हिमसंस्कृतवार्ता: – नवदेहली।

महिला-क्रिकेट-स्पर्धायां भारतीय चक्रीयकन्दुकक्षेपिकया स्नेहा-राणा इत्यनया एम.ए. चिदम्बरं क्रिकेट क्रीडाङ्गणे एकाक्यां निकषक्रिकेटस्पर्धायां तृतीये दिवसे दक्षिण अफ्रीकां विरुध्य अष्टक्रीडकान् सम्पात्य कीर्तिमत् विरचितम्। अवशिष्टे च द्वे क्रीडिके दीप्ति शर्मा इत्यनया पातिते। सम्प्रति दक्षिण अफ्रीकायाः महिला दलम् फालो-ऑन-इति क्रीडां-क्रीडति ।

 

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, Mann Ki Baat, National News, PM Modi, pmo, Pradhanmantri Narendra Modi, अन्तर्राष्ट्रीय समाचार, इण्डिया न्यूज़, नरेन्द्र मोदी, प्रधानमंत्री, मन की बात, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Shimla News : पेयजलसंकटात् निवृत्तिः, सहस्राणि जनाः इदानीं तृतीयदिने आपूर्तिं प्राप्स्यन्ति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?