By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/06/30 at 10:18 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता:

  • आकाशवाण्यां संस्कृतवार्ता-सम्प्रषारणस्य अयं पञ्चाशततमः वर्षः अस्ति, इति मत्वा प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रति मनोगते (मन की बात इति)  कार्यक्रमे शुभाशंशाः सम्प्रेषिताः सन्ति।

 

  • प्रधानमन्त्रिणा संविधानसंहितां प्रति, राष्ट्रस्य लोकतान्त्रिक व्यवस्थां प्रति च जनविश्वासाय जनेभ्यः धन्यवादाः प्रदत्ताः ।

 

  • प्रधानमन्त्रिणा श्रीमोदिना अस्मिन् वर्षे पर्यावरण-दिवसावसरे समारब्धस्य ‘एक पेड़ माँ के नाम’ इति कार्यक्रमस्य विषये उक्तं यत् स्वकीयया मात्रा सह उतो वा मातुः नाम्ना एकः पादपः रोपणीयः इति।

 

  • जनरल-उपेन्द्र-द्विवेदी इत्यनेन नवदेहल्यां सेनाध्यक्षरूपेण कार्यभारं स्वीकृतम्।

 

  • भारतीय-ऋतुविज्ञानविभागेन आगामिषु द्वित्रिषु दिवसेषु उत्तरभारतस्य कतिपय-भागेषु दक्षिण-पश्चिम वर्षर्तोः वरीवर्धनाय परिस्थितयः अनुकूलाः सन्तीति उक्तम्।

 

हिमाचलवार्ता:

  • देहरातः भाजपा प्रत्याशी होशियारसिंहः अवदत् यत् मुख्यमन्त्री तस्य पत्नी च सम्प्रति स्वराजनैतिकमहत्वाकांक्षायाः पूर्तये देहरायां भूमिम् अन्विष्यन्ते। स: अवदत् यत् सा राजनैतिकरोटिकां सेकयितुं देहरानगरम् आगता अस्ति। मुख्यमन्त्रिणः पत्नी अद्यपर्यन्तं देहरानगरं न आगता किन्तु निर्वाचनप्रतियोगितायाः समयः अभवत् तदा सा देहरां स्मृतवती।

 

  • मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः देहरा- विधानसभाक्षेत्रे कांग्रेसपार्टीति दलस्य प्रत्याशी तथा स्वधर्मपत्न्या: कमलेशठाकुराया: पक्षे प्रचारं कृतवान्। मुख्यमन्त्री उक्तवान् यत् पूर्वविधायकः होशियारसिंहः देहराक्षेत्रस्य जनान् वदेत् यत् सः विधायकपदात् किमर्थं त्यागपत्रं दत्तवान्, अधुना पुनः विधायकत्वेन उपनिर्वाचनं प्रतिस्पर्धयति इति। सः अवदत् यत् भाजपानेतृभिः होशियारसिंहेन च एतत् उपनिर्वाचनं जनसमूहे आरोपितम्। 
  • शिमलानगरम् इव ग्राम्यक्षेत्रेषु सहस्राणि पेयजलग्राहकाः अपि तृतीयदिने जलं प्राप्नुयुः। एतेषु क्षेत्रेषु सप्तमे अष्टमे च दिने सार्धैकमासपर्यन्तं जलं प्राप्यते स्म। अधुना जलशक्तिविभागेन एतेषु क्षेत्रेषु नियमितरूपेण जलस्य आपूर्तिः करणीया इति निर्देशाः कृताः। कसुम्पटीमण्डले कुलम् ४६३ पेयजलयोजना: सन्ति, तेषु सर्वेषु जलस्तरस्य वृद्धेः अनन्तरं जनानां कृते सम्बलं दीयते।

 

  • वर्षर्तुः आरब्धा अस्ति, तस्मात् राज्ये हानिः भवितुं आरब्धा अस्ति। चण्डीगढ- मनाली- राजमार्गे मण्डी-पण्डोहयोः मध्ये ६, ९ माइलपर्यन्तं यावत् गतवर्षर्तौ यत् विनाशं कृतं तत् स्मरणं कृत्वा सर्वेषां आत्मा कम्पते। मण्डी-पण्डोहयोः मध्ये चतुर्णां जनानां प्राणाः गताः आसन्, यत्र एकः लघुः बालकः अपि आसीत्, परन्तु अस्मिन् समये चतुष्मार्गस्य निर्माणे संलग्ना केएमसी-कम्पनी बृहत्तरस्य दुर्घटनायाः, अप्रियघटनायाः च प्रतीक्षां कुर्वती अस्ति। यतोहि केएमसी-कम्पनी न सर्वं मलिनावशेषम् अपसारितवती न च अधुनापि किमपि व्यवस्थां कृतवती

 

You Might Also Like

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himsanskritnews headlines, International news, National News, national News Headlines, News Headlines, आज के मुख्य समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Air Force Recruitment : वायुसेनायाम् अग्निवीर- नियुक्त्यर्थं पञ्जीकरणं, यूनः ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति
Next Article National News : आकाशवाण्यां संस्कृतवार्ता-सम्प्रषारणस्य पञ्चाशततमं वर्षमभिलक्ष्य  प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रति मनोगते कार्यक्रमे शुभाशंशाः सम्प्रेषिताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?