By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमसंस्कृतवार्ता: – National News :  राष्ट्रीयवार्ता:  ओमबिरलाः अनवरतं द्वितीयवारं लोकसभायाः अध्यक्षःचितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > हिमसंस्कृतवार्ता: – National News :  राष्ट्रीयवार्ता:  ओमबिरलाः अनवरतं द्वितीयवारं लोकसभायाः अध्यक्षःचितः
राष्ट्रीयवार्ताः

हिमसंस्कृतवार्ता: – National News :  राष्ट्रीयवार्ता:  ओमबिरलाः अनवरतं द्वितीयवारं लोकसभायाः अध्यक्षःचितः

डॉ मनोज शैल
Last updated: 2024/06/27 at 8:02 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

हिमसंस्कृतवार्ता: – National News :  राष्ट्रीयवार्ता:

ओमबिरलाः अनवरतं द्वितीयवारं लोकसभायाः अध्यक्षःचितः

हिमसंस्कृतवार्ताः। भारतीय जनतापार्टीतिदलस्य वरिष्ठनेता सांसदः च ओमबिरलाः  अनवरतं द्वितीयवारं अष्टादश्याः लोकसभायाः अध्यक्षःचितः। असौ ध्वनिमतेन अध्यक्षपदाय चितः जातः। विपक्षदलेन अस्मैपदाय कांग्रेसदलीयः सांसदः के. सुरेशः स्वीय-प्रत्याशी उद्घोषितः परञ्च तस्य कृते अनेन दलेन सदने मतदानाय बलं न प्रदत्तम्। अध्यक्षपदस्य निर्वाचनान्तरं प्रधानमन्त्री नरेन्द्रमोदी विपक्षस्य च नेता राहुलगांधी अथ च संसदीयकार्यमन्त्री किरेन रिजीजूः श्रीबिरलाः अध्यक्षस्य आसनं समीपं नीतवन्तः। इतः पूर्वं यदा प्रातः सदनस्य उपवेशनं समारब्धम् तदा प्रधानमन्त्री अपि च राष्ट्रिय- जनतान्त्रिक-संयुतेः द्वादश अन्ये च नेतारः श्रीविरला इत्यस्मै अध्यक्षपदनिर्वाचनस्य प्रस्तावं प्रख्यापितवन्तः। विपक्षतः शिवसेनादलनेता अरविन्द सावन्तः राष्ट्रवादी-कांग्रेसपार्टीतिदलस्य सुप्रियासुले समाजवादी पार्टीदलस्य आनन्द-भदौरियाः च श्रीसुरेशस्य पक्षे प्रस्तावं प्रस्तावितवन्तः।  निजोद्बोधने श्री ओमबिरलाः सदनस्य सर्वेभ्यः सांसदेभ्यः धन्यवादं प्रदत्तवान्। निर्वाचितः अध्यक्षः श्री बिरलाः अभिव्यक्तवान् यत् सदनगतमूल्यानां लोकतान्त्रिक परम्पराणां च समृद्धिः तस्य प्राथमिकता भविष्यति। असौ अग्रे अवोचत् यत् अष्टादश-लोकसभा अखिले हि विश्वे लोकतन्त्रस्य महती उत्सवानुकूला वर्तते। यतोहि चतुषष्टिकोट्यधिकाः मतदातारः सोत्साहं निर्वाचने भागं स्वीकृतवन्तः। अपि च विगतेषु दशवर्षेषु जनानां आकांक्षाः आशाः अपेक्षाश्च संवर्धिताः। एतत्सर्वं सांसदानां कर्तव्यमस्ति यत् तैः जनानां आकांक्षाः प्रभाविरीत्या सम्पूरणीयाः। अध्यक्षेण सबलं प्रतिपादितवान् यत् सदने गतिरोधं अतिरिच्य पारस्परिकी चर्चा विवादश्च करणीयः। अथ च विरोधस्य माध्यमः सदनस्य गरिम्णः अनुरूपो भवेत्। असौ पुनः प्रावोचत् यत् सदनस्य गरिमानं सीमानां च अनुकूलं स्थापयितुं एव सभापतिः कठोराचारणं समाचरति। ततः पूर्वं प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षपदाय निर्वाचिताय श्रीबिरलाइत्यस्मै शुभकामनाः अयच्छत्। उक्तवान् च यत् श्रीबिरलाइत्यस्य द्वितीयवारं पुनः निर्वाचिते सति प्रसन्नम् अनुभवामि । विपक्षस्य नेता राहुलगांधी

अपि तस्मै वर्धापनानि प्रदत्तवान् प्रोदीरितवान् च यत् सदनमिदं जनानां ध्वनेः प्रतिनिधित्वं करोति।

असौ श्री बिरला इत्यस्मै सदनस्य उचितसञ्चालने विपक्षस्य सहयोगस्य आश्वासनमपि प्रदत्तवान्।

 

भारतेन सवलं प्रतिपादितं यत् स्थायि-अस्थायि श्रेण्ययोः विस्तारं कृत्वा संयुक्तराष्ट्र- सुरक्षापरिषदि संशोधनस्य समयः आगतः

हिमसंस्कृतवार्ताः। भारतेन सबलं प्रतिपादितं यत् स्थायि-अस्थायि-श्रेण्ययोः विस्तारं कृत्वा सुरक्षापरिषदि संशोधनस्य समयः आगतः। येन हि संस्थेयं वैश्विक संघर्षैः प्रभाविविधिना निवारयितुं सक्षमा भवेदिति। सुरक्षापरिषदः वार्षिक प्रतिवेदने संयुक्तराष्ट्र महासभायां चर्चावधौ भारतस्य प्रतिनिधिः प्रतीक माथुरः प्रोदीरितवान् यत् सुरक्षापरिषदि साम्प्रतमपि विश्वासस्य संवर्धनं अथ च प्रदर्शने संशोधनस्यावश्यकता दरीदृश्यते।

 

केन्यायां नवकरप्रस्तावं अभिलक्ष्य प्रदर्शनकारिभिः संसत्भवने आक्रमणं विधाय तदीय एकः भागः अग्निसात् कृतः

हिमसंस्कृतवार्ताः। केन्यायां प्रदर्शनकारिभिः संसत्भवने आक्रमणं विधाय तदीय एकः भागः अग्निसात् कृतः। अनन्तरं आरक्षिणां कार्याचरणे पञ्च प्रदर्शनकारिणः मृताः। संसत्द्वारा एकस्य वित्त-विधेयकस्य अभ्युपगमनानन्तरं आदेशे विधेयकं विरूद्ध प्रदर्शनानि भवन्ति । अस्य विधेयकस्य द्वारा प्रशासनेन नैकेषु करेषु वृद्धिः कृता। जगतः नैकैः देशैः केन्यायां हिंसा चरणं आलक्ष्य चिंता प्रकटिता। जनेभ्यः शांति-स्थापनाय अभ्यर्थना कृता।

 

अन्ताराष्ट्रीय-मादक-पदार्थ-दिवस

 

हिमसंस्कृतवार्ताः। अद्य मादक पदार्थानां दुरुपयोगं अवैधतस्करणं च विरुध्य अन्ताराष्ट्रीय दिवसः विद्यते । अयम् दिवसः विश्व-औषध-दिवस रुपेण अपि सामान्यते। साक्ष्येन स्पष्टं अस्ति-स्थगने निवेशः आवश्यकः अस्य वर्षस्य विषयः वर्तते। संयुक्त राष्ट्र महासभया गतशताब्दस्य सप्तशीतिः तमे वर्षे दिसम्बर मासस्य सप्तमे दिने स्वीकृते प्रस्तावे मादक पदार्थानां दुरुपयोगं अवैध तस्करणं च विरूध्य दृढ़संकल्पः कृतः। तदनु प्रतिवर्ष जूनमासस्य षड्विशे दिने अन्ताराष्ट्रीय दिवस रूपेण एतत् आमान्यते।

 

देहलीमुख्यमंत्री

 

हिमसंस्कृतवार्ताः। आमआदमी पार्टी इति दलस्य संयोजकाय अरविंद केजरीवालाय सर्वोच्च न्यायालयेन दिल्ली-उच्च-न्यायालयस्य निर्णयं समाह्वान युतायाः स्वीय-याचिकायाः प्रत्यावर्तनाय अनुमतिः प्रदत्ता। कथिते मद्य-नीति-सम्बन्धित-धनशोधन-प्रकरणे केजरीवालस्य मुक्तियाचिकायाः निम्न- न्यायालयस्य निर्णये ह्यः दिल्ली उच्च न्यायालयेन अल्पावधिकनिरोधनं कृतम्।

 

तरणस्पर्धायां धनिधि-देसिंघुः श्रीहरि नटराजः च वैश्विक मानांकनस्य माध्यमेन पेरिस- ओलम्पिक स्पर्धायै स्थानं प्राप्तवन्तौ

हिमसंस्कृतवार्ताः। तरणस्पर्धायां धनिधि-देसिंधुः श्रीहरि नटराजः च वैश्विक मानांकनस्य माध्यमेन पेरिस- ओलम्पिक स्पर्धायै स्थानं प्राप्तवन्तौ। अस्मिन् संदर्भे भारतीयतरण-स्पर्धा-महासंघेन घोषणा कृता। फरवरी मासे फिलिपींस देशे आयोजितायां प्रति स्पर्धायां चतुर्दश वर्षीया धनिधिः महिलानां शतमीटर-स्पर्धायां चतुर्थ स्थानं प्राप्तवती । तत्रैव द्विशत-मीटर प्रति स्पर्धायां राष्ट्रीय-मानांक- धारकः नटराजः पुरुषाणां शतमीटर बैंक स्ट्रॉक इति स्पर्धायां स्वर्ण पदकं प्राप्तवान्।

 

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, अन्तर्राष्ट्रीय समाचार, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Road Accident : अनियन्त्रितं भूत्वा बहिः गभीरे गर्ते पतितं बोलेरोकैंपरयानम्, एकः स्थले एव मृतः, द्वौ घातितौ
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?