Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- पश्चिम बङ्गाले दुरापादितायां रेल-दुर्घटनायां रेलविभागस्य अधिकारित्रयं समेत्य अष्टौ जनाः मृत्युमुपगताः।
- प्रधानमन्त्रिणा नरेन्द्रमोदिना रेल-दुर्घटनायां गभीरं दुःखं प्रकटितम्। प्रधानमन्त्री राष्ट्रिय-साहाय्य- कोषात् प्रत्येकं मृतकस्य परिजनेभ्यः दश-लक्ष-रूप्यकाणि प्रदास्यन्ते।
- केन्द्रीयगृहमन्त्री अमितशाहः नवदिल्लयां मणिपुरस्थितिं समीक्षितुं उच्चस्तरीयोपवेशनस्य अध्यक्षताम् अकरोत्।
- भारत-अमेरिकयोः मध्ये द्वितीयं वार्षिकं उदीयमान प्रौद्योगिकी सम्बद्धं उपवेशनं नव-दिल्ल्यां प्रचलति।
- ईद-उल अजहा पर्व अद्य देशस्य पृथक् पृथक् भागेषु परम्परा पूर्वकं परिपाल्यते।
- जम्मू-कश्मीरस्य बान्दीपुरा जनपदस्य अरगाम-क्षेत्रे अद्य सुरक्षाबलैः सह सङ्घर्षे एकः आतङ्क-वादी मारितः
- विंशति प्रति-विंशति-इत्येतस्यां क्रिकेट-प्रतिस्पर्धायाम् अद्य न्यूजीलैण्डदलं पापुआ न्यूगिनी दलं सम्मुखी करिष्यति।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् राज्यसर्वकारः सोलनमण्डलस्य कण्डाघाटे दिव्याङ्गानाम् उत्कृष्टताकेन्द्रस्य स्थापनां कर्तुं गच्छति। अत्याधुनिकसुविधाभिः सुसज्जितं केन्द्रं २७ वर्षपर्यन्तं विशेषरूपेण सक्षमबालानां कृते आवासीयसुविधाः, क्रीडाङ्गणानि, गुणवत्तापूर्णशिक्षासहितं च व्यापकसुविधा: प्रदास्यति। राज्यसर्वकारः दिव्याङ्गजनानाम् कल्याणाय परियोजनायाः समयबद्धसमाप्त्यर्थं प्रतिबद्धः अस्ति।
- राज्ये उत्तमयातायातव्यवस्थां निर्मातुं हिमाचलप्रदेशस्य पर्यटनस्थलानां सर्वेक्षणं ड्रोन्-यानेन क्रियते । यातायात-पर्यटन-रेल-विभागेन राज्यस्य मनाली-शिमला-नगरयोः ड्रोन्-आधारित-यातायात-सम्मर्द-व्याप्ति-प्रतिवेदनं निर्मितम् अस्ति ।
- हिमाचलप्रदेशस्य हमीरपुरं, नालागढम्, देहरा इत्यादिषु विधानसभासनत्रयेषु उपनिर्वाचनं भवितुं गच्छति। एतेषु त्रिषु आसनेषु भवितुं शक्नुवन्तः उपनिर्वाचनार्थं काङ्ग्रेसेन नालागढ-हमीरपुर-आसनयोः प्रत्याशिनौनः अन्तिमरूपेण निर्धारितौ स्त:। काङ्ग्रेसेन हमीरपुरतः डॉ. पुष्पेन्द्र वर्मा, नालागढतः हरदीपसिंह बावा च नामाङ्कितौ।
- राष्ट्रीय-आपदा-प्रबन्धनदलेन अर्थात् एनडीआरएफ-दलेन हिमाचलप्रदेशस्य अष्टमं उच्चतमं शिखरं मणिरङ्गपर्वतं विजितम् अस्ति । अभियानस्य कृते दलं द्वयोः भागयोः विभक्तम् आसीत् । प्रथमदलस्य एकादश पर्वतारोहिणः द्वितीयदलस्य पञ्च पर्वतारोहिणः च मणिरङ्गपर्वतस्य कठिनशिखरं प्राप्तुं सफलाः अभवन् ।