HP Government : मुख्यमंत्रिण: हस्तक्षेपानन्तरं मन्त्रिणौ गोमा, धर्माणी च सर्वकारीयावासौ प्राप्तवन्तौ
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: हस्तक्षेपानन्तरं आयुषमन्त्री यादविन्दरगोमा, नगरविकासमन्त्री राजेश: धर्माणी च सर्वकारीयावासौ प्राप्णवन्तौ। विधानसभाध्यक्ष: कुलदीपसिंहपठानिया स्वनिवासं गमिष्यति। तस्य भवनं यादवेन्द्रगोमावर्याय दत्तम् अस्ति। पूर्वं मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: मुख्यसचिवस्य आवास: राजेश धर्माणी इत्यस्मै दत्तम् अस्ति। भरतखेड़ा प्रतिनियुक्त्यां दिल्लीं गतः अस्ति।
वस्तुतः सार्धपञ्चमासान् यावत् मन्त्रिभ्यां आवासा: न आवंटिता: आसन् । मुख्यमन्त्रिणः सम्मुखे विषयः आगतः ततः परं एतत् आवंटनं कृतम् अस्ति। गोमायाः आवंटितगृहे पुनर्स्थापनकार्यं प्रचलति इति कथ्यते। एतादृशे सति तान् स्थानान्तरयितुं मासः यावत् समयः भवितुं शक्नोति । गोमा, धर्माणी च ११ जनवरी दिनाङ्के मन्त्रीरूपेण शपथं कृतवन्तौ। तदनन्तरं सर्वकारीयमन्त्रिणां कृते अभिप्रेतानि गृहाणि तेभ्यः अद्यापि न आवंटितानि आसन् । वस्तुतः मन्त्रिमण्डलानाम् आवासा: सीपीएस इत्यादिभ्यः आवंटिता: सन्ति। उल्लेखनीयं यत् मुख्यमंत्री-महोदयेन काङ्गड़ा-बिलासपुर-जनपदयो: समन्वयं निर्वाहयितुम् मन्त्रिपदानि दत्तानि सन्ति। मन्त्रिणां कृते सर्वकारेण १२ गृहाणि निर्मिताणि, एतयोः मन्त्रिणः विहाय अन्ये सर्वे मन्त्रिणः तेषु एव निवसन्ति । सम्प्रति विधानसभाद्वारा आवंटितानां विधायकानां कक्षेषु मन्त्रिद्वयं निवसति।