By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: SPU Mandi : विकसितभारतस्य दिशि युनां भवेद् अग्रणी भूमिका- प्रो. ललितकुमार: अवस्थी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > SPU Mandi : विकसितभारतस्य दिशि युनां भवेद् अग्रणी भूमिका- प्रो. ललितकुमार: अवस्थी
राष्ट्रीयवार्ताःहिमाचलवार्ता

SPU Mandi : विकसितभारतस्य दिशि युनां भवेद् अग्रणी भूमिका- प्रो. ललितकुमार: अवस्थी

डॉ मनोज शैल
Last updated: 2024/06/11 at 10:54 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

SPU Mandi : विकसितभारतस्य दिशि युनां भवेद् अग्रणी भूमिका- प्रो. ललितकुमार: अवस्थी

हिमसंस्कृतवार्ता:- डॉ. राकेश शर्मा, लघ्वीकाशी मण्डी।

सरदार- पटेल- विश्वविद्यालयस्य इतिहासविभागद्वारा क्रांतिकारी रामप्रसादबिस्मिलजयंतीसमारोहस्य आयोजनं कृत। कार्यक्रमे आर्थिकरूपेण क्षीणछात्रेभ्य: शिक्षा- उत्थान- प्रोत्साहन- छात्रवृत्तिरपि आबंटिता। कार्यक्रमस्य मुख्यातिथि: प्रो. ललितकुमार अवस्थी, कुलपति: सरदार- पटेल- विश्वविद्यालय: मंडी आसीत्। कार्यक्रमस्य अध्यक्षता प्रो. अनुपमासिंह:, प्रति कुलपतिवर्यया कृता। विशिष्टातिथिरूपेण आचार्य: राजेशकुमारशर्मा अधिष्ठाता, महाविद्यालय- विकास- परिषद् एवं अभियन्ता सुनीलवर्मा, परीक्षानियंत्रक:, कुल सचिवश्च (अतिरिक्त कार्यभार:) आस्ताम्। मातु: सरस्वत्या: चित्रस्य सम्मुखं ज्योति प्रज्वाल्य, क्रांतिकारी- रामप्रसादबिस्मिलस्य चित्रे पुष्पांजलि- अर्पणेन कार्यक्रमस्य शुभारंभ: अभवत्। कार्यक्रमसंयोजक: डॉ. राकेशकुमारशर्मा मुख्यातिथे:, अन्येषां अतिथीनां च स्वागतं, परिचयं च आकारयत्। सः कार्यक्रमस्य उद्देश्यान् सविस्तरम् अवबोधयत्। अवसरेऽस्मिन् मुख्यातिथि: प्रो. ललितकुमार अवस्थी क्रांतिकारी- रामप्रसादबिस्मिलं श्रद्धासुमनानि समर्पय अवदत् यत् तस्य जीवनात् अस्माभि: प्रेरणा स्वीकर्तव्या। सः अल्पवयसि एव स्वसर्वस्वं भारतमातु: चरणेषु समर्पितवान्। तेनोक्तं यत् विकसितभारतस्य निर्माणे युवानाम् अग्रणी भूमिका भविष्यति। अतः युवानः स्वलक्ष्यस्य निर्धारणं कृत्वा अग्रेसरेयु:। तेन योजितं यत् भारतम् एक: युवादेश: अस्ति अतः देशस्य विकास युवानः स्वकीयभूमिकां सुनिश्चितां कुर्यु:। सः उक्तवान् यत् ते हिमाचलप्रदेशस्य क्रांतिकारिणां विषये अधिकाधिकं ज्ञानम् समर्जय तत् समाजपर्यन्तम् आनेयु:। कार्यक्रमस्य अध्यक्षा आचार्या अनुपमा सिंह उक्तवती यत् क्रांतिकारी रामप्रसादबिस्मिल: तेषु क्रांतिकारिषु आसन् ये अल्पवयसि एव देशाय सर्वस्वं समर्पितवन्तः। अतः तेषां जीवनात् अस्माभि प्रेरणा ग्रहीतव्या। विशिष्टातिथि: अभियन्ता सुनील वर्मा अवदत् यत् क्रांतिकारी रामप्रसादबिस्मिलस्य जीवनं संघर्षमयम् आसीत्। सः क्रांतिकारी- आंदोलनं  नवदिशा दत्तवान्। कार्यक्रमे मुख्यातिथि आचार्य: ललितकुमार अवस्थी आर्थिकरूपेण क्षीणेभ्य: द्वादश छात्रेभ्यो: पञ्च- पञ्चसहस्ररूप्यकाणां शिक्षा- उत्थान- प्रोत्साहन- छात्रवृत्ति आबंटिताम् अकरोत्। मंचसंचालनं छात्रया नीतिकया कृतम्। विभागीयविवरणं छात्रा गीता कुमारी, गतिविधिविवरणं च शुभम अकरोत्।  क्रान्तिकारी रामप्रसादबिस्मिलस्य जीवने शोधार्थी विनोदकुमार: स्ववक्तव्यं दत्तवान्। आचार्य: राजेशकुमारशर्मा धन्यवादप्रस्तावं प्रस्तुतवान्। कार्यक्रमे डॉ. गंगाराम राजी, कृष्णचंद्र महादेविया, अनिल शर्मा, नरेश मल्होत्रा, मुरारी शर्मा, कन्हैयालाल सैनी, अजय सहगल:, डॉ. लखबीरसिंह: अधिष्ठाता, शोध, डॉ. पवनचांद अधिष्ठाता, छात्रकल्याणम्, डॉ सुनील ठाकुर: अधिष्ठाता, योजना एवं विकास:, डॉ करण गुप्ता विभागाध्यक्ष:, प्रबंधनविभाग: डॉ. जगदीप वर्मा, डॉ चेतन चौहान:, डॉ रामपाल:, विकेश कुमार:, राजेशशर्मा, कृष्ण कुमारसहितं समाजस्य प्रबुद्धजना:, इतिहाससमिते:, इतिहासविभागस्य समस्तविद्यार्थिनः उपस्थिता: आसन्। 

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, Mandi News, sardar Patel University Mandi, SPU Mandi, छोटी काशी मण्डी, मण्डी, सरदार पटेल विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article KSDSU : भाषाक्रीड़ायां प्रशिक्षार्थिभिः प्रदर्शितम् कौशलम्
Next Article मोदीमन्त्रिमण्डलस्य नूतनमन्त्रिभि: कार्यग्रहणम् कृतम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?