मोदीमन्त्रिमण्डलस्य नूतनमन्त्रिभि: कार्यग्रहणम् कृतम्
हिमसंस्कृतवार्ता: – नवदेहली।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे राष्ट्रिय-जनतान्त्रिक-संयुति-प्रशासनस्य नवघटितस्य केन्द्रीय-मन्त्रिपरिषदः मन्त्रिभिः अद्य निज-कार्यभारः सम्भालितः। एतेषु गृहमन्त्री अमित- शाहः, रक्षान्त्री राजनाथ सिंहः, विदेश मन्त्री डॉ. एस. जयशंकरः, कृषिमन्त्री शिवराजसिंह- चौहानः स्वास्थ्य-मन्त्री जगत-प्रकाश-नड्डा सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः क्रीडा- युवा-प्रकरणानां मन्त्री मनसुख मांडविया च सम्मिलिताः सन्ति। एतान् अतिरिच्य अन्ये अपि मन्त्रिणः अद्य आरभ्य मन्त्रालयेषु कार्यारम्भं कृतवन्तः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे राष्ट्रिय-जनतान्त्रिक-संयुति-प्रशासनस्य अयं तृतीयः कार्यकालः विद्यते। अवधेयं यत् गतदिने सञ्जाते मन्त्रिमण्डलीयोपवेशने मन्त्रालयानाम् आबण्टनं सज्जातम्। अत्रान्तरे विदेशमन्त्रालस्य पदभारग्रहणानन्तरं विदेशमन्त्री एस जयशङ्करः अवदत् यत् प्रथमं भारतं वसुधैव कुटुम्बकम् इति भारतीय-विदेशनीतेः अनुगुणं केन्द्रप्रशासनं कार्यं करिष्यति।
हिमसंस्कृतवार्ताः,१२ जून। केन्द्रीयमन्त्री पीयूषगोयलः गतदिने नवीदिल्लीनगरे वाणिज्य-उद्योगमन्त्रालयस्य कार्यभारं स्वीकृतवान्। अस्मिन् अवसरे वदन् सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सुदृढविकासप्रधानशासनेन देशे सर्वत्र प्रगतेः तरङ्गः प्रेरिता। युवानां कृते नूतनावकाशान् सृज्य सर्वेषां नागरिकानां हिताय निरन्तरं कार्यं कर्तुं सर्वकारः प्रतिबद्धः इति सः अवदत्।
श्री प्रल्हाद जोशी उपभोक्तृकार्याणि, खाद्यं, सार्वजनिकवितरणं च मन्त्रित्वस्य अतिरिक्तं केन्द्रीयनवीन-नवीकरणीय-ऊर्जामन्त्रीरूपेण अपि कार्यभारं स्वीकृतवन्तः, श्रीपाद येस्सो नाइकः नवीन-नवीनीकरणीय-ऊर्जा-मन्त्रालये राज्यमन्त्रीरूपेण कार्यभारं स्वीकृतवान् ।
केन्द्रीयमंत्री राजीवरंजनसिंहः मत्स्यपालन-दुग्धपालनमन्त्रालयः पंचायतीराजमन्त्रालयः इत्यनयोः प्रभारं स्वीकृतवान। प्रभारं स्वीकृत्य मीडियां सम्बोधयन् सः अवदत् यत् अस्य दृष्टेः कार्यान्वयनस्य यत्किमपि बाधकं भवति तत् दूरीकर्तुं तस्य ध्यानं भविष्यति।
श्रीगजेन्द्रसिंहशेखावतः केन्द्रीयपर्यटनमन्त्रीरूपेण कार्यभारं स्वीकृतवान्। अस्मिन् अवसरे सः कृतज्ञतां प्रकटितवान् यत् वैश्विकरूपेण भारतस्य प्रदर्शनस्य, अस्माकं देशे विश्वस्य आमन्त्रणस्य च दायित्वं तस्मै दत्तम् अस्ति।
डॉ. वीरेन्द्रकुमारः केन्द्रीयसामाजिकन्यायसशक्तिकरणमन्त्रीरूपेण कार्यभारं स्वीकृतवान् । रक्षा निखिलखड्से युवाकार्याणां क्रीडाराज्यमन्त्रीरूपेण कार्यभारं गृहीतवान्। डॉ. सुकान्तमजुमदारः पूर्वोत्तरक्षेत्रस्य विकासमन्त्रालये राज्यमन्त्रीरूपेण कार्यभारं स्वीकृतवान् ।
मोदीमन्त्रिमण्डलस्य नूतनमन्त्रिभि: कार्यग्रहणम् कृतम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment