By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Election : कांग्रेसदलं पुनः चत्वारिंशत्-आसनत: न्यूनमेव आसनानि प्राप्स्यति – अमितशाह:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Election : कांग्रेसदलं पुनः चत्वारिंशत्-आसनत: न्यूनमेव आसनानि प्राप्स्यति – अमितशाह:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

HP Election : कांग्रेसदलं पुनः चत्वारिंशत्-आसनत: न्यूनमेव आसनानि प्राप्स्यति – अमितशाह:

डॉ मनोज शैल
Last updated: 2024/05/26 at 1:00 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

HP Election : कांग्रेसदलं पुनः चत्वारिंशत्-आसनत: न्यूनमेव आसनानि प्राप्स्यति – अमितशाह:

हिमसंस्कृतवार्ता- ऊना। 

लोकसभानिर्वाचनस्य, विधानसभा उपनिर्वाचनस्य च मतदानं हिमाचलप्रदेशे जूनमासस्य प्रथमदिनाङ्के भविष्यति। निर्वाचनार्थं सर्वाणि राजनैतिकदलानि प्रबलप्रचारे व्यग्रा: सन्ति।

केन्द्रीयगृहमन्त्री अमितशाहः अद्य हिमाचलप्रदेशस्य भ्रमणं कुर्वन् अस्ति। हमीरपुरस्य भाजपाप्रत्याशिन: अनुरागठाकुरस्य,  कांगड़ाया: राजीवभारद्वाजस्य च समर्थने असौ जनसभां कृतवान्। प्रधानमन्त्री मोदी गतदिवसे एव हिमाचलस्य मण्डी-नाहन-नगरयोः सभां कृतवान् आसीत् । सभायां वदन् अमितशाहः अवदत् यत् अहं दृढतया एतत् वदामि यत् पाकाधिकृत-कश्मीर: (पीओके)  भारतस्य अस्ति, सः तिष्ठति, वयं च गृह्णीमः।

प्रधानमंत्री देशे शतप्रतिशतम् विकासं कृतवान् : शाह:

केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी हिमाचलप्रदेशं तस्य जनान् च बहु प्रेम करोति, अतः एव मोदीसर्वकारस्य कार्यकाले हिमाचले विकासस्य नूतनाः आयामाः स्थापिताः। उक्तवान् यत् यदि मोदी सम्पूर्णे देशे शतप्रतिशतम् विकासं प्राप्तवान् तर्हि हिमाचले अस्य विकासस्य दरः १५० प्रतिशतं जातः। परन्तु हिमाचलस्य काङ्ग्रेससर्वकारः एतत् सर्वं द्रष्टुं न समर्थः अस्ति। ये दत्ता प्रतिज्ञा पूर्णां कर्तुं न शक्तवन्तः तेभ्य: जनसमूहस्य विकासस्य काऽपि अपेक्षा न भवेत्।

राज्यस्य जनाः भाजपया सह सन्ति : अमितशाहः

काङ्ग्रेसपक्षं लक्ष्यं कृत्वा शाहः अवदत् यत् काङ्ग्रेसपक्षस्य पुरातनपरम्परा अस्ति यत् मृषावादेन सत्तां गृह्णाति, पश्चात् जनान् स्वभाग्ये त्यक्तुं शक्नोति। परन्तु भाजपा राज्यस्य जनै: सह तिष्ठति। वर्तमानकाङ्ग्रेससर्वकारं लक्ष्यं कृत्वा सः अवदत् यत् वर्तमान: काङ्ग्रेससर्वकार: मिथ्या, निरर्थक: च अस्ति। प्रथममन्त्रिमण्डले एकलक्षं कार्याणि, महिलाभ्यः १५०० रुप्यकाणि, गोमयस्य, दुग्धस्य च क्रयणम् इत्यादय: प्रतिज्ञा: काङ्ग्रेसपक्षेण न पूर्णा। 

आपदि मुक्ततया सहायता कृता : शाह:

शाहः अवदत् यत् हिमाचलप्रदेशे यदा आपदा अभवत् तदा केन्द्रं सर्वात्मना साहाय्यं कृतवान्। परन्तु काङ्ग्रेसः केन्द्रस्य साहाय्यं न पश्यति। हिमाचलस्य योजनानां परियोजनानां च कृते केन्द्रेण सहस्राणि कोटिरूप्यकाणि दत्तानि। सः हिमाचलप्रदेशस्य जनानां कृते आह्वानं कृतवान् यत् अस्माकं विधानसभा उपनिर्वाचनप्रत्याशिनां विजयः भवतु, हिमाचले अपि भाजपासर्वकारस्य निर्माणं भविष्यति। पूर्ववत् हिमाचलप्रदेशे अद्यापि द्विगुणइञ्जिनसर्वकारः कार्यं करिष्यति। शाहः अवदत् यत् स्थानीयसांसदः अनुराग ठाकुरः अस्मिन् क्षेत्रे योजनाबद्धविकासं कृतवान्।

अनुराग ठाकुरः राज्यस्य कृते सहस्रकोटिरूप्यकाणां योजनाः आनयत् : शाह

मोदिन: आशीर्वादेन अनुरागठाकुरः राज्याय सहस्रकोटिरूप्यकाणां योजनाः आनयत् । अनुरागस्य प्रशंसाम् कुर्वन् शाहः अवदत् यत् अनुरागठाकुर इव सांसदः दीपेन अन्वेषणं कृत्वा अपि न लभ्यते। गृहमन्त्री उक्तवान् यत् केवलम् अस्य कारणात् अनुरागठाकुरस्य मतदानं न कर्तव्यम्। यतः सः अपारं विकासं प्राप्तवान् । अत एव जनानां भाजपाय मतदानं कर्तव्यम्। यतः भाजपा देशस्य तादात्म्येन सह काऽपि सन्धिं नाकरोत्। पुलवामा-आक्रमणस्य प्रतिक्रिया दशदिनान्तरे शत्रून् पराजित्य पाकिस्तानस्य स्वगृहे प्रविश्य पाठः पाठितः ।

नक्सलवादस्य समस्यायाः समाधानार्थं मोदीसर्वकारेण महत्त्वपूर्णानि कार्याणि कृतानि : शाह:

एतदेव न, नक्सलवादस्य समस्यायाः निवारणाय मोदीसर्वकारेण अपि महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। हिमाचलसर्वकारः विकासविरोधी अस्ति, विगत १५ मासेषु केवलं सर्वकारीयसंस्थानां पिधानाय एव कार्यं कृतम्।  निर्वाचने काङ्ग्रेस-हिमाचल-सर्वकारेण दत्ता: प्रतिज्ञा: तासु काश्चन अपि सम्पूर्णं कर्तुं न शक्तवान्। जनसामान्यं प्रति कृतानां प्रतिज्ञानां विपरीतम् अस्मिन् निर्वाचने काङ्ग्रेसपक्षः पराजितः भविष्यति, भाजपा सर्वाणि आसनानि जिगीषति।

शाहः अवदत् यत् काङ्ग्रेसपक्षेण राममन्दिरप्रकरणं ७० वर्षाणि यावत् लम्बितम् अस्ति किन्तु भाजपा न केवलं तस्य विषयस्य समाधानं प्राप्नोत् अपितु अयोध्यायां भव्यराममन्दिरस्य निर्माणमपि कृतवती। सः अवदत् यत् अनुरागठाकुरस्य प्रयत्नेन प्रधानमंत्री मोदी बल्कड्रगपार्क, एम्स, पीजीआई सैटेलाइट, लठियानी-मण्डली सेतु इत्यादय: अनेका: बृहत् योजना: आनयत्। सः अवदत् यत् यदा सः निर्वाचनप्रचाराय गच्छति तदा सर्वे स्वप्रत्याशिनः विजयानन्तरं तं मन्त्रीकरणस्य विषये वदन्ति। परन्तु हमीरपुरसंसदीय निर्वाचनक्षेत्रस्य प्रत्याशी केवलं मन्त्री एव अस्ति।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

TAGGED: amit shah, bjp, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Election, HP NEWS, HP Politics, Lok Sabha Election, अमित शाह, भाजपा, लोकसभा चुनाव, लोकसभा चुनाव 2024, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPCM : यदि अनुमतिः दीयते तर्हि २४ होराभ्यन्तरे १५०० रूप्यकाणि महिलानां वित्तकोषसंख्यासु निक्षिप्तानि भविष्यन्ति
Next Article Lok Sabha Election : चीनदेशः भारतस्य सीम्नि अधिग्रहणं करोति, गृहाणि निर्मीयन्ते, मोदी मौनम् उपविष्टः अस्ति – मल्लिकार्जुनखड़गे 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?