By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: PM Modi Mandi Rally: हिमाचलप्रदेशः राममन्दिरनिर्माणस्य संकल्पभूमिः- प्रधानमंत्री मोदी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > PM Modi Mandi Rally: हिमाचलप्रदेशः राममन्दिरनिर्माणस्य संकल्पभूमिः- प्रधानमंत्री मोदी
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

PM Modi Mandi Rally: हिमाचलप्रदेशः राममन्दिरनिर्माणस्य संकल्पभूमिः- प्रधानमंत्री मोदी

डॉ मनोज शैल
Last updated: 2024/05/25 at 10:54 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

PM Modi Mandi Rally: हिमाचलप्रदेशः राममन्दिरनिर्माणस्य संकल्पभूमिः- प्रधानमंत्री मोदी

हिमसंस्कृतवार्ता- मण्डी। 

हिमाचलप्रदेशस्य लघ्वीकाश्यां मण्ड्यां  जनसभां सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् पालमपुरम् इतः दूरं नास्ति। “अद्य अहं भवन्तं स्मारयितुम् इच्छामि यत् भाजपा कार्यसमितेः सभा पालमपुरे अभवत्। तत्र गृहीतनिर्णयैः इतिहासः निर्मितः। तस्मिन् एव सत्रे भाजपया अयोध्यायां भव्यराममन्दिरस्य निर्माणस्य संकल्प: स्वीकृत: अर्थात् हिमाचलप्रदेश: राममन्दिरनिर्माणस्य संकल्पभूमि: अस्ति” इति। 

काङ्ग्रेसदलं कदापि राममन्दिरस्य निर्माणं न अनुमन्यते

हिमाचले गृहीतः ऐतिहासिकः संकल्पः सिद्धः इति प्रधानमंत्री मोदी उक्तवान्। ५०० वर्षाणां प्रतीक्षा ५०० वर्षाणां निरन्तरसङ्घर्षेण लक्षशः जनाः हुतात्मन: अभवन्। इदानीं सा ५०० वर्षाणां प्रतीक्षा समाप्ता। भवतः एकमतेन एषा प्रतीक्षा समाप्ता, भवतः मतस्य शक्तिः ५०० वर्षाणां प्रतीक्षायाः समाप्तिम् अकरोत्। अद्य रामलला अयोध्यायां उपविष्ट: अस्ति, हिमाचलः प्रसन्नः अस्ति, देवी-देवताः आशीर्वादस्य वर्षणं कुर्वन्ति। परन्तु, काङ्ग्रेसः प्रसन्नः नास्ति। यदि भवतः एकमतेन मोदिन: शक्तिः न वर्धिता स्यात् तर्हि काङ्ग्रेसः कदापि राममन्दिरस्य निर्माणं न अनुमन्यते स्म।

‘काङ्ग्रेसः दलाईलामावर्यस्य नाम अपि ग्रहीतुं बिभेति स्म’

हिमाचले बौद्धधर्मस्य महत्त्वपूर्णस्थानानि सन्ति, काङ्ग्रेससर्वकारः एतावत् भीरुः आसीत् यत् दलाईलामा इति नाम अपि ग्रहीतुं बिभेति स्म। अहं बहुधा दलाईलामावर्येण सह वार्तालापं करोमि, सः एव अस्माकं समृद्धस्य धरोहरस्य प्रवर्तकः अस्ति। भारतं बुद्धदेशः अस्ति तथा च मोदीसर्वकारेण एतस्य धरोहरस्य प्रबलतया प्रचारः कृतः। हिमाचलस्य पर्यटनस्य अपि अस्य लाभः भविष्यति।

देहल्या: येन राजपरिवारेण हिमाचलप्रदेश: वञ्चित: तेन न पृष्ठतः आगत्य स्वमुखं दर्शितम्। 

काङ्ग्रेसेन कङ्गनाविषये दुष्टवचनानि उक्तानि

प्रधानमंत्री मोदी उक्तवान् यत् ये केवलं पूर्वजानां धरोहरे जीवन्ति ते अस्य देशस्य निर्माणं न कर्तुं शक्नुवन्ति। ये मृत्तिकातः उत्थाय पर्वतपर्यन्तम् ऊर्ध्वतां प्राप्नुवन्ति ते एव देशस्य निर्माणम् कर्तुं शक्नुवन्ति। अतः अद्य भारतस्य भविष्यं ते यूनः एव सन्ति ये अस्माकं स्टार्टअपसंस्थाः आरभन्ते, ये युनः स्वस्य उपग्रहान् अन्तरिक्षे प्रेषयन्ति, या: कन्याः क्षेत्रेषु ड्रोन्-विमानं चालयन्ति, या: कन्याः युद्धविमानं चालयन्ति, परन्तु काङ्ग्रेसपक्षः तस्मिन् एव रूढिवादीचिन्तने निमग्नः अस्ति। स्वयमेव सफलतां प्राप्यमाणानां कन्यानां कृते काङ्ग्रेसः किं वदति इति भवन्तः दृष्टवन्तः वा? काङ्ग्रेसेन मण्डीनाम गृहीत्वा कङ्गनाया: विषये यानि अश्लीलानि वचनानि उक्तानि तत् मण्ड्याः अपमानम्, लघ्वीकाश्या: अपमानम्, हिमाचलस्य अपमानम्, हिमाचलस्य प्रत्येकस्य पुत्र्याः च अपमानमेव।

‘काङ्ग्रेसः महिलाविरोधी अस्ति’

प्रधानमंत्री मोदी उक्तवान् यत् एतद् काङ्ग्रेसदलन एकविंशतितमे शतके आगन्तुं न शक्नोति, जनाः अग्रे गच्छन्ति, काङ्ग्रेसः पश्चात् गच्छति। २० शताब्द्याः प्रति गच्छति, काङ्ग्रेसस्य राजपरिवारः अत्यन्तं पुत्रीविरोधी अस्ति, काङ्ग्रेसः महिलाविरोधी अस्ति।

 

आपदाकाले प्रेषितानि शतशः कोटिरूप्यकाणि, राज्ये अभवत् वानर-वितरणम्- मोदी

प्रधानमंत्री मोदी उक्तवान् यत् आपत्काले केन्द्रसर्वकारेण प्रभावितेभ्य: आश्रयं दातुं शतशः कोटिरूप्यकाणि प्रेषितानि। परन्तु राज्ये तेषां सदुपयोग: नाभवत्। प्रदेशसर्वकारेण केन्द्रसर्वकारस्य सहायताया: दुरुपयोगं कृत्वा वानरवितरणं कृतम्। यदा पुनः सर्वकारः निर्मित: भविष्यति तदा तस्य अन्वेषणम् कृत्वा मण्डीक्षेत्रस्य प्रभावितेभ्य: एव तस्या: सहायताया: वितरणं भविष्यति। एषा मम प्रतिज्ञा अस्ति। 

  

प्रधानमंत्री मोदी राज्यसर्वकारं लक्ष्यं कृतवान्

राज्यसर्वकारं लक्ष्यं कृत्वा प्रधानमंत्री मोदी उक्तवान् यत् काङ्ग्रेसः केवलं वञ्चनं, तालाबन्दी च जानाति। यत्र हिमाचले लक्षशः कार्याणि प्रदातुं चर्चा आसीत्, यत्र सेवा-आयोगस्य प्रतिबन्धः आसीत्। आयोगे ताल: न स्थापित:, हिमाचलस्य पुत्राणां कन्यानां युनां च भविष्ये ताला: स्थापितवन्तः। जयरामठाकुरेण शतशः संस्थानानि उद्घाटितानि तानि सर्वाणि पिहितानि। देश: वञ्चकान् कदापि न क्षमति। हिमाचलस्य जीवने कर्मचारी अतीव महत्त्वपूर्णं जीवनम् अस्ति। सम्पूर्णं कुटुम्बं तस्य उपरि आश्रित: वर्तते। तेन कर्मचारिणा सह अपि किं महत् वञ्चनम् अभवत्। कर्मचारी अद्यापि महार्घतावृत्तिं प्रतीक्षते। आपदाकाले केन्द्रात् शतशः कोटिरूप्यकाणि प्रेषितानि, तस्य अपि अत्र दुरुपयोगः अभवत्। अस्य सर्वकारस्य भविष्यं नास्ति इति उक्तवान्, तस्य क्षयः निश्चितः अस्ति। आपदाकाले प्रेषितं धनं कुत्र वितरितम्, केन चोरितं इति ज्ञात्वा प्रथमं मण्डी-जनानां हस्ते समर्पयिष्यामि इति प्रधानमंत्रीमहोदयः अवदत्। काङ्ग्रेससर्वकारः एतत् राज्यं विनाशमार्गे नयति, एतत् स्थगितव्यम् अस्ति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Chhoti Kashi, chhoti Kashi mandi, election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, Mandi News, National News, PM Modi, PM Modi Rally, छोटी काशी मण्डी, नरेन्द्र मोदी, मण्डी, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article PM Modi Shimla (Nahan) Rally: प्रधानमंत्रिणा पहाड़ीभाषायां भाषणस्य आरम्भः कृतः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?