By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
हिमाचलवार्ताराष्ट्रीयवार्ताः

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/21 at 11:02 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • इरानदेशे राष्ट्रपतिनिर्वाचनं जूनमासस्य २८ दिनाङ्के भविष्यति।ततः पूर्वं इरानस्य सर्वोच्चनेता अयातुल्ला अलीखामेनेई इत्यनेन राष्ट्रपति इब्राहिम रईसी इत्यस्य उद्ग्रविमानस्य दुर्घटनायां मृत्योः अनन्तरं उपराष्ट्रपतिः मोहम्मद मोखबेरं अन्तरिमराष्ट्रपतिरूपेण नियुक्तः।
  • भारतीयजनतापक्षस्य प्रधानमन्त्री वरिष्ठनेता च नरेन्द्रमोदी उक्तवान् यत् काङ्ग्रेसदलं वंशवादी दलम् अस्ति, तद् केवलं एकस्य परिवारस्य हिताय एव अस्ति। बिहारस्य मोतिहारीनगरे जनसभायां सः अवदत् यत् काङ्ग्रेसपक्षस्य नेतृत्वे I.N.D.I. लोकसभानिर्वाचने गठबन्धनस्य हानिः भविष्यति। भ्रष्टाचारे भारतविरोधिप्रचारे च सम्बद्धानां जनानां कृते समुचितं उत्तरं जनसमूहः दास्यति इति सः अवदत्।
  • दिल्लीनगरस्य राउस- एवेन्यू- न्यायालयेन गतदिवसे आबकारीनीतिवञ्चन- सम्बद्धे धनशोधनप्रकरणे पूर्व- उपमुख्यमन्त्री आम-आदमीपक्षस्य नेता च मनीष सिसोदियायाः न्यायिकनिग्रहः ३१ मईपर्यन्तं विस्तारितः। अस्य प्रकरणस्य अग्रिमं श्रवणं मई ३१ दिनाङ्के भविष्यति।

हिमाचलवार्ता:

  • भारतीयनिर्वाचन- आयोगेन विभिन्नविभागेषु पदोन्नतिनियुक्तिसम्बद्धेषु, स्थानान्तरणादिविषयेषु च आहत्य ६१ प्रकरणेषु अनुमोदनं दत्तम्। अस्माद् कारणात् शतशः लम्बितप्रकरणेषु कर्मचारिणः आश्रयं प्राप्तवन्तः। राज्ये कार्यान्विता आदर्शाचारसंहिता यदा प्रवर्तते तदा आरभ्य निर्वाचनविभागेन राज्यसर्वकारस्य विभिन्नविभागेभ्यः अनुमोदनार्थं ७७ प्रकरणाः प्राप्ताः आसन्।
  • केन्द्रीय मंत्री अनुरागठाकुर: अवदत् यत् काङ्ग्रेसेन चीनदेशात् कति कोटिरूप्यकाणि गृहीतानि इति प्रकाशयितव्यम्।  सः अवदत् यत् सेनायाः शल्यक्रियाप्रहारविषये काङ्ग्रेसनेतारः प्रश्नान् उत्थापयन्ति, ते देशेन सह ज्ञानस्य प्रकटीकरणं कुर्वन्ति वा? अनुरागठाकुरः अवदत् यत् यदा भारतीयसेना ढोकलामे चीनीसेनायाः कृते उपयुक्तं उत्तरं ददाति स्म तदा काङ्ग्रेसनेतारः चीनीसेनया सह गुप्यकक्षे वार्तां कुर्वन्ति स्म। पिहितद्वारेषु कीदृशानि हस्ताक्षराणि कृतानि इति राहुलगान्धी जनसामान्यं सूचयेत्।
  • काजायां या घटना घटिता सा न केवलं निन्दनीया, अपितु राज्यस्य काङ्ग्रेससर्वकारस्य, काङ्ग्रेसपक्षस्य च सुनियोजितं षड्यंत्रम् अपि अस्ति। यथा सर्वकारस्य भ्रष्टतत्वानि भाजपा-प्रत्याशिनां विपक्षनेतृणां च उपरि आक्रमणं कृतवन्तः, तथैव स्पष्टं भवति यत् काङ्ग्रेसदलं भीतम् उत्तेजितं च अस्ति, निर्वाचनं जेतुम् अपि कस्मिन् अपि स्तरे गन्तुं शक्नोति। भाजपा प्रदेशाध्यक्ष डॉ. राजीवबिन्दल: इत्यनेन सोमवासरे सोलननगरे आयोजिते पत्रकारसम्मेलने एते आरोपाः कृताः।

क्रीड़ावार्ता

  • भारतीयपुरुषस्य कनिष्ठहॉकीदलस्य यूरोपभ्रमणस्य आरम्भः बेल्जियमदेशस्य उपरि विजयेन अभवत्। उपकप्तानः शारदानन्द तिवारी भारतस्य कृते द्वौ गोलौ कृतवान्।
  • जापानदेशे विश्वपैरा एथलेटिकप्रतियोगितायां महिलानां एफ-५१ स्पर्धायां भारतस्य एकता भ्यान स्वर्णपदकं प्राप्तवती अस्ति। सा विंशतिबिन्दुभिः एकद्वयमीटर् यावत् ऋतो: उत्तमं प्रदर्शनं कृतवती।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himachal Pradesh, Himsanskritnews, himsanskritnews headlines, National News, News Headlines, अन्ताराष्ट्रीय समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal Election : ये विक्रयणं कुर्वन्ति, क्रीणन्ति च तेभ्य: पाठं पाठयिष्यन्ति जना:- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Next Article Himachal News – भारतीयनिर्वाचन-आयोगेन विभिन्नविभागेषु पदोन्नतिनियुक्तिसम्बद्धेषु, स्थानान्तरणादिविषयेषु च आहत्य ६१ प्रकरणेषु अनुमोदनं दत्तम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?