By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/19 at 10:46 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • अद्य अष्टराज्यानां केन्द्रशासितप्रदेशानाञ्च एकोनपञ्चाशत् लोकसभासनेभ्यः पञ्चमचरणीय मतदानाय सर्वविधसन्नद्धताः प्रवर्तिताः सन्ति।
  • अवशिष्टचरणद्वयस्य मतदानाय प्रचाराभियानं सजवं प्रवर्तते, प्रधानमन्त्रिणा भाजपेति दलनेत्रा नरेन्द्रमोदिना झारखण्डपश्चिम बङ्गयोः नैर्वाचनिकसभाः सम्बोधिताः। 
  • राष्ट्रियवञ्चितायोगेन उदीरितं यत् अनुसूचितजातिवर्गान्तर्गत-छात्राणां नामाङ्कनं चतुर्दशोत्तरद्विसहस्रतवर्षस्य तुलनायां चतुश्चत्वारिंशत्प्रतिशतम् प्रवर्धितमस्तीति। 
  • बैंकाक नगरे प्रवर्तमानायां थाइलैंड ओपन बैडमिण्टन इति स्पर्धायाम् अद्य पुरुषयुगलवर्गस्य अंतिमचक्रं चिरागशेट्टी सात्विकसांईराज रंकी रेड्डी च विजितवन्तौ। 
  • शारजाह-नगरे प्रचलिष्यमाणायां चतुरङ्ग-प्रतिस्पर्धायां भारतीय-चतुरङ्ग-क्रीडकः अरविन्द-चितंबरम् स्थानीय-चतुरङ्ग-क्रीडकम् ए.आर. सालेह-सलेम-इत्यमुं सार्ध-चतुरङ्गैः पराजितवान्।

हिमाचलवार्ता: 

  • पूर्वमुख्यमन्त्री तथा विपक्षनेता जयरामठाकुरः अकथयत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: हिमाचले आगमनेन जनाः पुनः एकवारं लोकसभानिर्वाचने राज्यस्य चत्वारि अपि आसनानि भाजपाय दास्यन्ति। मण्डीनगरस्य पड्डल-क्रीडाङ्गणे मई-मासस्य २४ दिनाङ्के प्रस्तावितायाः प्रधानमंत्री-मोदी-महोदयस्य सभायाः सज्जतायाः वृत्तान्तं गृहीत्वा सः मीडिया-सङ्घटनै: एतत् कथितवान्।
  • रायबरेली-अमेठी-क्षेत्रयोः निर्वाचनं सम्पन्नं कृत्वा पूर्वकाङ्ग्रेस-राष्ट्रीय-अध्यक्षः राहुलगान्धी महासचिव प्रियंका गान्धी च प्रचारार्थं हिमाचलम् आगमिष्यत:। लोकसभाक्षेत्रयोः द्वयोः निर्वाचनक्षेत्रयो: २० मे दिनाङ्के मतदानं भवितव्यम् अतः राज्ये तारक-अभियानकानां निर्वाचनजनसभाः २० मई-मासस्य अनन्तरं एव भवितुं सज्जता क्रियते।
  • मण्डीसंसदीयक्षेत्रतः भाजपाप्रत्याशी कङ्गनारणौत इत्यनया भ्रष्टाचारं कृत्वा काङ्ग्रेस प्रत्याशी विक्रमादित्यसिंह: इत्यस्य उपरि तीक्ष्णं वाचिकम् आक्रमणं कृतम्। कङ्गना उक्तवती यत् विक्रमादित्यसिंहस्य परिवारेण स्कूटर-यानेन सेबफलानि विक्रीतानि। अद्य सः स्वयमेव प्रत्याभूतौ अस्ति।कङ्गना विक्रमादित्यसिंहस्य परिवारं शक्तिक्षुधार्तपरिवारम् इति उक्तवती, नैतिकतायाः आधारेण अस्य परिवारस्य एकं मन्त्रीपदं अध्यक्षपदं वा त्यक्तव्यम् आसीत्, परन्तु सत्तायाः क्षुधायाः कारणात् ते तत् कर्तुं न शक्तवन्तः इति अवदत्।
  • हिमाचलप्रदेशः सम्पूर्णतया निर्वाचनवर्णैः चित्रितः अस्ति । अधुना निर्वाचने केवलं ११ दिवसाः अवशिष्टाः सन्ति। राजनैतिकदलानि विजयाय यथाशक्ति प्रयतन्ते, यतोहि एतानि निर्वाचनानि सामान्यानि न अपितु नेतॄणाम् अहङ्कारसम्बद्धानि निर्वाचनानि सन्ति। अस्मिन् समये राजनैतिकदलानि स्वप्रत्याशिनां चयनं कुर्वन्तः बहु अध्ययनं कृतवन्तः। अस्मिन् समये राजनैतिकदलानि अधिकानि नवीनमुखेषु द्यूतं कृतवन्तः। केचन नामानि सन्ति ये चिरकालात् राजनीतिषु आसन् किन्तु प्रथमवारं निर्वाचनराजनीत्यां भाग्यस्य प्रयासं कुर्वन्ति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: election news, himachal abhi abhi, himachal update, Himsanskritnews, himsanskritnews headlines, National News, News Headlines, आज के मुख्य सामाचार, प्रमुखा संस्कृतवार्ता, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article BJP Himachal : स्वपरिवारस्य विकासाय पुत्रान् मुख्यमन्त्रीकरणाय च इण्डिया-गठबन्धनं निर्मितम्- जेपीनड्डा
Next Article HP Election: मण्ड्यां नाहने च भविष्यति प्रधानमंत्रिण: मोदिन: निर्वाचनसभाः – जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?