By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/17 at 10:16 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः अवदत् यत् २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं निजीक्षेत्रस्य महत्त्वपूर्णा भूमिका भविष्यति। नवीदिल्लीनगरे व्यापारसङ्गठनेन आयोजिते कार्यक्रमे श्रीमती सीतारमण देशस्य विकासस्य आवश्यकतायां बलं दत्तवती।
  • मईमासस्य अष्टादशदिनाङ्कस्य तिथि: अनेकेभ्यः महत्त्वपूर्णेभ्यः कारणेभ्यः देशस्य विश्वस्य च इतिहासे अभिलेखिता अस्ति। १९७४ तमे वर्षे मईमासस्य अष्टादशदिनाङ्के एव भारतेन राजस्थानस्य पोखरणे प्रथमं परमाणुपरीक्षणं कृत्वा विश्वस्य सर्वान् देशान् आश्चर्यचकितं कृतम्। तस्य नाम स्माइलिंग बुद्धा इति आसीत्। अवधेयं वर्त्तते यत् इत: पूर्वं केवलं पञ्चदेशेषु परमाणुपरीक्षणं कृतम् आसीत्।
  • लोकसभानिर्वाचनस्य पञ्चमचरणस्य प्रचारस्य समाप्त्यर्थं एकः दिवसः अवशिष्टः अस्ति, राजनैतिकदलानि पूर्णरूपेण प्रचारं कुर्वन्ति।
  • भारतेन उक्तम् – चाबहार-बन्दरगाहः भूपरिवेष्टित-मध्य-एशिया-देशानां कृते प्रमुखः संपर्कः भविष्यति ।
  • सर्वकारेण परामर्श: दत्त: यत् कम्बोडियादेशे जीविकां प्राप्तुं गच्छन्तः नागरिकाः अनुचित-अभिकर्तृभ्यः सावधानाः भवेयुः।
  • भारतस्य पोयमन्तिबैस्य आकाशपालयोः युगलम् तुर्कीदेशे विश्वमेज टेनिसप्रतियोगितायाः मिश्रितयुगलस्य उपाधिः प्राप्तौ ।
  • थाईलैण्ड् ओपन बैडमिण्टनप्रतियोगितायां सात्विकसाईंराजरङ्कीरेड्डी, चिराग शेट्टी चेत्येतयो: युगलं पुरुषयुगलस्य उपान्तस्पर्धि-पर्यन्तं प्राप्तवन्तौ ।

हिमाचलवार्ता:

  • हिमाचलप्रदेशे निर्वाचनक्रियाकलापः वर्धमानः अस्ति। अस्यां श्रृङ्खलां पुनः एकवारं भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः जगतप्रकाशनड्डा हिमाचलप्रदेशस्य एकदिवसीययात्रायां वर्तते। भाजपामहासचिव: बिहारीलालशर्मा अवदत् यत् भाजपादलस्य राष्ट्रीयाध्यक्ष जगतप्रकाशनड्डा एकदिवसीये प्रवासे तिस्र: सभा: करिष्यन्ति।
  • भारतीयजनतापक्षेण पूर्वमन्त्री रामलालमार्कण्डेयः, राकेशचौधरी च दलात् निष्कासितौ। निष्कासनसम्बद्धे निर्गताया: सूचनानुसारं रामलालमार्कण्डेयविषये लिखितम् आसीत् यत् भवान् दलस्य अधिकृतप्रत्याशिना विरुद्धं स्वतन्त्रप्रत्याशीरूपेण लाहौल- स्पीतिविधानसभा- उपनिर्वाचनं प्रतिस्पर्धयति। यत् अनुशासनहीनतायाः व्याप्तेः अन्तर्गतम् आगच्छति।
  • अद्यपर्यन्तं हिमाचलप्रदेशसर्वकारः हमीरपुरसंसदीयक्षेत्रं प्रति रेलसेवाप्रदानाय राज्यस्य भागं निक्षेपयितुं न शक्तवान्, अतः हमीरपुरस्य जनाः रेलसेवाभ्यः वंचिताः सन्ति। केन्द्रीयमन्त्री तथा हमीरपुरस्य सांसदप्रत्याशी अनुरागठाकुरः स्वस्य संसदीयक्षेत्रस्य अन्तर्गतं मण्डीजनपदस्य धर्मपुरविधानसभायाः मंडपग्रामे निर्वाचनसभां सम्बोधयन् एतान् आरोपान् कृतवान्। अनुरागठाकुरः हिमाचलप्रदेशस्य काङ्ग्रेससर्वकारं पृष्टवान् यत् ते २८ सहस्रकोटिरूप्यकाणां ऋणेन किं कृतवन्तः।
  • शिमला-जनपदस्य रामपुरे द्वाभ्यां जनाभ्यां द्वयोः मोनालयोः अवैध-मृगयायाः प्रकरणं प्रकाशितम् अस्ति। वनविभागस्य दलेन निरीक्षणकिले अभियुक्तौ मृतपक्षिभ्यां सह दृष्ट्वा रामपुरपुलिसाय सूचितम्। पुलिसेन गुडु-लेखराजयोः विरुद्धं प्रकरणं कृत्वा अग्रे कार्यविधि आरब्धा।
  • मुख्यमंत्री सुखविंदरसिंहसुक्खु:  सुजानपुरप्रवासे भाजपाप्रत्याशिन: राजेन्द्रराणावर्यस्य उपरि मौखिकाक्रमणम् अकरोत्। पलाहीग्रामे पथसभां सम्बोधयन् मुख्यमन्त्री सुक्खुः अवदत् यत् राजेन्द्रराणा सुजानपुरस्य जनान् कार्याय न अपितु क्रशर- निविदा- अनुमोदनार्थं मिलति स्म। सः अवदत् यत् पूर्वमुख्यमन्त्री प्रेमकुमारधूमलः अस्मिन् अवसरे सुजानपुरविधानसभाक्षेत्रात् षड्यंत्रेण पराजितः अस्ति। सुजानपुरस्य जनाः एकवारं त्रुटिं कृतवन्तः परन्तु अधुना एषा त्रुटिः पुनः न भविष्यति। जयरामठाकुरः मुख्यमन्त्री अभवत् किन्तु सः पञ्चवर्षपर्यन्तं हमीरपुरमण्डलस्य उपेक्षां कृतवान्।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, National News, News Headlines, आज के मुख्य सामाचार, मुख्य वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article PM Modi : मोदिन: प्रतिज्ञा अस्ति  – विपक्षीजना: यावत् शक्यं शक्त्या: प्रयोगं कुर्वन्तु नागरिक- संसोधन-अधिनियमम् अपसारयितुं न शक्नुवन्ति
Next Article प्रधानमन्त्री मोदी नवभारतस्य शिल्पकारः- मुख्यमन्त्री योगी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?