By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/16 at 10:49 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • राष्ट्रपतिः द्रौपदी मुर्मूः गतदिवसे सिक्किमस्य स्थापनादिवसावसरे जनानां अभिनन्दनं कृतवती। सामाजिकमाध्यमेषु एकस्मिन् व्याख्याने सा अवदत् यत् सिक्किमम् प्राकृतिकसौन्दर्येन धन्यम् अस्ति यत् तस्य हिमशिखरेषु, सघनवनेषु, जलप्रपातेषु च दृश्यते।  राष्ट्रपतिः अवदत् यत् सिक्किम-प्रदेशस्य जनाः स्वजीवनशैल्याः परिश्रमेण च देशस्य विकासे महत्त्वपूर्णं योगदानं दत्तवन्तः।  राष्ट्रपतिमुर्मूः राज्यस्य, तस्य जनानां च निरन्तरसमृद्धिबलं च कामनाम् अकरोत्।
  • लोकसभानिर्वाचनस्य शेषचरणस्य प्रचारः चरमावस्थायाम्, विभिन्नराजनैतिकदलानां नेतारः समर्थनं प्राप्तुं यथाशक्ति प्रयतन्ते।
  • प्रधानमंत्री मोदीमहोदयः अवदत् यत् एतत् लोकसभानिर्वाचनं देशस्य कृते एतादृशं नेतारं निर्वाचयितुं अवसरः अस्ति यः सशक्तं सर्वकारं चालयितुं शक्नोति तथा च विश्वं भारतस्य सामर्थ्यस्य विषये अवगतं कर्तुं शक्नोति।
  • केन्द्रेण ४१ सामान्यतया प्रयुक्तानां औषधानां षट् सूत्राणां च मूल्येषु न्यूनता कृता ।
  • वैश्विक-याचनानुसारं हरितहाइड्रोजननिर्माणसुविधां स्थापयितुं भारतदेश: सज्ज:।
  • ऋतुविज्ञानविभागेन वायव्यभारते बिहारे च आगामिपञ्चदिनेषु तीव्रतापस्य पूर्वानुमानं कृतम् अस्ति।
  • २०२८ तमस्य वर्षस्य लॉस एन्जल्स ओलम्पिकक्रीडायां पदकसङ्ख्यानां विकासार्थं क्रीडामन्त्रालयेन टाप्स-(TOPS) इत्यस्यां योजनायां त्रयः स्क्वैशक्रीडकाः समाविष्टाः ।
  • थाईलैण्ड् ओपन बैडमिण्टन पुरुषयुगलक्रीडायां सात्विकसाईंराजः रङ्कीरेड्डी, चिराग शेट्टी च इत्येतयोः युगलम् क्वार्टर् फाइनलपर्यन्तं प्राप्तम् ।

हिमाचलवार्ता:

  • न्यायालयस्य आदेशानुसारं हिमाचलप्रदेशस्य षट् सर्वकारीयक्षेत्रस्य चिकित्सामहाविद्यालयेषु दिव्याङ्गछात्राणां कृते निःशुल्कशिक्षणस्य सुविधा भविष्यति। एतेन सर्वेषु चिकित्सामहाविद्यालयेषु एमबीबीएस, एमडी, नर्सिंग इत्यादीनां पाठ्यक्रमाणाम् शतशः दिव्याङ्गछात्राणां लाभः भविष्यति। अटल- चिकित्सा-एवं-अनुसन्धान -विश्वविद्यालयेन मे १५ दिनाङ्के अस्मिन् विषये आदेशाः कृताः।
  • मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् भाजपा केवलं गोनाम्ना एव राजनीतिं कृतवती, यदा तु वर्तमानकाङ्ग्रेससर्वकारेण गोपालकानां कल्याणाय बहवः योजनाः कृताः। सः अवदत् यत् निर्धनपशूनां समस्यायाः समाधानार्थं राज्यसर्वकारेण निजी-गो-आश्रयस्थानेषु आश्रितानां गोभ्यः प्रदत्तं अनुदानं प्रतिमासं ७०० रुप्यकात् १२०० रुप्यकाणि यावत् वर्धयितुं अपि निर्णयः कृतः।
  • लोकसभानिर्वाचनं दृष्ट्वा आबकारीविभागेन विगतसप्ताहद्वये सिरमौर:, सोलनम्, हमीरपुरम्, काङ्गड़ा, शिमला, कुल्लू:, मण्डी इत्यादिषु जनपदेषु अवैधमद्यव्यापारस्य विरुद्धं कार्यविधि कृत्वा १,१६,६२१ सेटकमितं अवैधमद्यं लाहनं चेति गृहीता अस्ति ।  आबकारी आयुक्तः डॉ. युनुसः गतदिवसे अवदत् यत् लोकसभानिर्वाचनस्य अधिसूचनायाः प्रकाशनानन्तरं विभागेन राज्यस्य सर्वेषु जनपदेषु कार्यदलदलानि, उड्डयनदलानि (एफएस) च निर्मितानि।
  • मण्डीसंसदीय-निर्वाचनक्षेत्रस्य भाजपा प्रत्याशी कङ्गनारणौत इत्यनया कुल्लूमण्डलस्य आनी विधानसभाक्षेत्रस्य श्वाड़तः गान्धीपरिवारस्य उपरि महत् आक्रमणं कृत्वा उक्तं यत् इटलीदेशस्य महिलायाः हिन्दीभाषायाः ज्ञानं देशस्य संस्कृतिविषये च अवगमनं नास्ति। हिन्दीभाषायाः एकमपि शब्दं न जानाति। सम्भवतः इटालियनसंस्कृति: अपि न जानाति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskrit news, Himsanskritnews, himsanskritnews headlines, International news, loksabha, National News, News Headlines, PM Modi, अन्तर्राष्ट्रीय समाचार, आज के मुख्य सामाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP ACR Report : हिमाचले वार्षिकगोपनीयताप्रतिवेदनस्य प्रक्रिया परिवर्तमाना अस्ति
Next Article हिमाचलप्रदेशस्य षट् चिकित्सामहाविद्यालयेषु दिव्याङ्गछात्रेभ्य: प्रदास्यते निःशुल्कशिक्षासुविधा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?