By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics : ‘कारागृहं गमिष्यन्ति’ विक्रीताः विधायकाः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics : ‘कारागृहं गमिष्यन्ति’ विक्रीताः विधायकाः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics : ‘कारागृहं गमिष्यन्ति’ विक्रीताः विधायकाः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/05/10 at 11:51 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Politics : ‘कारागृहं गमिष्यन्ति’ विक्रीताः विधायकाः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता- धर्मशाला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशस्य विक्रीताः विधायकाः कारागृहं गमिष्यन्ति। अन्वेषणं प्रचलति, तस्य समाप्तेः अनन्तरं महत् प्रकाशनं भविष्यति। तेषु केचन भूतस्करा:, मादकद्रव्यतस्करा:, केचन खनन-तस्करा: च अभवन्। धर्मशालाविधायकः अपि १४ मासेषु राजनैतिकविपण्यां स्वं विक्रीतवान्। मुख्यमन्त्री लोकसभाप्रत्याशिन: आनन्दशर्मा इत्यस्य नामाङ्कनपत्रानन्तरं ज़ोरावरक्रीडाङ्गणे एतानि वचनानि उक्तवान्।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशस्य इतिहासे अस्माकं सर्वकारेण एकवर्षे सर्वाधिकं २२०० कोटिरूप्यकाणां अतिरिक्तराजस्वं प्राप्तम्। यदि राज्यस्य जनाः भ्रष्टाचारस्य द्वाराणि पिधाय अस्मान् समर्थयन्ति तर्हि समाजस्य प्रत्येकस्य वर्गस्य कृते पूर्वापेक्षया सर्वकारस्य कोष: अधिक: उद्घाटितः भविष्यति। अस्माकं सम्पूर्णं मन्त्रिमण्डलं राज्यं स्वावलम्बनं कर्तुं प्रवृत्तम् अस्ति। जयरामठाकुरः मुख्यमन्त्रीरूपेण ५ वर्षाणि यावत् सुप्तवान्, अतः राज्यस्य कोषस्य लुण्ठनं जातम्। भाजपानेतृभिः राज्यकोषस्य महती हानिः कृता, एतत् अपि आगामिसमये प्रकाशितं भविष्यति। काङ्ग्रेससर्वकारस्य १५ मासस्य कार्यकालस्य आधारेण जनमतस्य न्यायालये राजनैतिकाह्वानं वर्तते। ये मुद्रापत्राधारितं मतं क्रीणन्ति तेभ्यः पाठं पाठयितुं जनस्य हस्ते अस्ति।

मुख्यमन्त्री उक्तवान् यत् जूनमासस्य प्रथमदिनाङ्के काङ्गड़ासंसदीयक्षेत्रात् आनन्दशर्माणं सांसदरूपेण निर्वाचयन्तु, तस्य स्वरः राष्ट्रियस्तरस्य श्रूयते। सामान्यजनस्य कृते तस्य हृदये पीडा अस्ति, सः सामान्यकुटुम्बात् एतत् पदं प्राप्तवान्। आनन्दस्य परिचयस्य आवश्यकता नास्ति, हिमाचलः तस्य मनसि निवसति। सः काङ्गड़ायाम् अपि च सम्पूर्णे हिमाचले स्वस्य राज्यसभा-सांसद-निधिं दत्तवान्। पूर्वस्मिन् मनमोहनसिंहसर्वकारे आनन्दशर्मण: वर्चस्वम् आसीत्। मण्ड्यां भारतीय- सूचना- प्रौद्योगिकीसंस्थानं (IIT) काङ्गड़ायां केन्द्रीयविश्वविद्यालयः, एनआईएफटी (NIF), कन्दरोड़ी इत्यत्र च १५० रुप्यकाणां औद्योगिकपार्कः, पालमपुरनगरे चायमण्डलस्य क्षेत्रीयकार्यालयः इत्यादयः बृहत् उपहाराः राज्याय आनयत्।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् आनन्दशर्मा दलस्य शीर्षनेतृत्वस्य आज्ञानुसारं निर्वाचनक्षेत्रे प्रविष्टः अस्ति। सः मां मुख्यमंत्री सति उक्तवान् यत् हिमाचलप्रदेश: आत्मनिर्भर: कर्तव्य: तर्हि ग्रामीणक्षेत्रेषु निवसतद्भि: जनेभ्य: साक्षात् आश्रयराशिः प्रेषयितव्या:। हिमाचलसर्वकारः १५ मासानां कार्यकाले जनहिताय कार्यं कृतवान्। राज्ये एतादृशी महती आपदा अभवत्, परन्तु केन्द्रसर्वकारः एकं नाणकमपि न दत्तवान्, यदा लघुबालाः स्वरक्षितकोषं भङ्ग्य दानं कृतवन्तः। भाजपा केवलं राजनीतिषु व्यग्र: एव आसीत्, जनानां व्रणं न चिकित्सति स्म। मुख्यमन्त्री उक्तवान् यत्, दलेन विधानसभा- उपनिर्वाचने धर्मशालातः जग्गी स्थापित:। विक्रयणार्थं न, प्रामाणिकम्। धर्मशालानगरनिगमस्य महापौरत्वेन सः उत्तमं कार्यं कृतवान्, मित्रवतः च अस्ति। जनता निर्वाचने तस्य समर्थनं कुर्यात्, धर्मशालायाः विक्रयणीयस्य विधायकस्य विषये जनसामान्यं जानाति, केवलं जनशक्तिः एव तस्मै पाठं शिक्षयिष्यति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Election, HP NEWS, HPCM, Lok Sabha Election, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Governor HP : वर्तमानपरिप्रेक्ष्ये परिस्थित्यानुसारं भारतीयसंस्कृतेः दर्शनस्य अवगमनस्य च आवश्यकता- राज्यपाल: शिवप्रतापशुक्ल:।
Next Article Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च  नामांकनं कृतवन्तौ
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?