By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च  नामांकनं कृतवन्तौ
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च  नामांकनं कृतवन्तौ
राजनैतिकवार्ताहिमाचलवार्ता

Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च  नामांकनं कृतवन्तौ

डॉ मनोज शैल
Last updated: 2024/05/10 at 11:58 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च  नामांकनं कृतवन्तौ

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशस्य मण्डी संसदीयासनतः काङ्ग्रेसस्य प्रत्याशी विक्रमादित्यसिंहः, काङ्गड़ातः आनन्दशर्मा च गुरुवासरे नामांकनपत्रं कृतवन्तौ। विक्रमादित्यस्य नामांकने मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, राज्यप्रभारी राजीवशुक्ल:, प्रदेशकांग्रेसस्य अध्यक्षा प्रतिभासिंह, पूर्वमंत्री कौलसिंहठाकुर: अन्ये च पदाधिकारिण: उपस्थिता आसन्। अस्मिन् समये विक्रमादित्यः अपि शक्तिं प्रदर्शितवान्। नामाङ्कनानन्तरं मीडियाभिः सह वार्तालापं कुर्वन् राजीवशुक्लः विश्वास: अकरोत् यत् विक्रमादित्यसिंहः लक्षद्वयाधिकान्तरेण विजयं प्राप्स्यति।

भाजपायाः वास्तविकं मुखं जनाः ज्ञातवन्तः- सुक्खुः

इतरथा मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यस्य जनाः भाजपायाः वास्तविकं मुखं ज्ञातवन्तः। तत्र सर्वकारस्य पतनस्य प्रयासः आसीत्, अधुना तस्य उत्तरं प्राप्स्यति। आपदा प्रभावितस्थितौ अस्मिन् निर्वाचने काङ्ग्रेसपक्षः यथा क्रीडितः। १५ मासस्य कार्यकालः, यस्मिन् सामान्यजनसम्बद्धेषु विषयेषु कार्यं कृतम् । एतान् सर्वान् विषयान् वयं सार्वजनिकन्यायालये स्थापयिष्यामः। काङ्गड़ा-चम्बा संसदीयासनतः काङ्ग्रेस प्रत्याशी आनन्द: शर्मा धर्मशालायां नामांकनं पूरितवान्। अस्मिन्नवसरे अपि  मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, उपमुख्यमंत्री मुकेश अग्निहोत्री, कांग्रेसप्रदेशाध्यक्षा प्रतिभासिंह, कांग्रेसस्य प्रदेशप्रभारी राजीवशुक्ल: आदय: उपस्थिता आसन्।

जयरामस्य पटकथायुक्तं चलचित्रं जूनमासस्य ४ दिनाङ्के ‘बाक्स ऑफिस इत्यत्र असफलं भविष्यति

नामाङ्कनानन्तरं विक्रमादित्यसिंहः अवदत् यत् अद्यपर्यन्तं मान्या (कङ्गना) मण्डीविषये स्वस्य दृष्टिविषये एकमपि वचनं न उक्तवती। विकासविषयेषु वयं युद्धं करिष्यामः। वयं विकासस्य राजनीतिं कुर्मः, ते मनोरञ्जनस्य राजनीतिं कुर्वन्ति। अस्य निर्देशकः जयरामठाकुरः अस्ति। जयरामस्य पटकथाकृतम् एतत् भाजपा-चलचित्रं जून- मासस्य चतुर्थे दिने ‘बाक्स- ऑफिस-मध्ये’ अवश्यमेव असफलं भविष्यति। असौ उक्तवान् यत् वयं केवलं विषयेषु निर्वाचनं करिष्यामः। संसदीय निर्वाचनक्षेत्रे सीएसडी- कैंटीन डिपो, सैन्य-अकादमी, भृगु- जोत- कन्दरा, जलोड़ीजोत- कन्दरा (CSD Canteen, Depot, Army Academy, Bhrigu Jot Tunnel, Jalodi Jot Tunnel) इत्येतेषां निर्माणं तस्य प्राथमिकता भविष्यति।

राजीव: भारद्वाज:  तथा सतपालरायजादा १०, सुल्तानपुरी च १३ दिनांके नामांकनं करिष्यन्ति

हमीरपुरसंसदीयक्षेत्रत: कांग्रेसप्रत्याशी सतपालरायजादा तथा शिमलासंसदीयक्षेत्रात् प्रत्याशी विनोदसुल्तानपुरी च मई १३ दिनांके नामांकनं करिष्यत:। अस्मिन् काले अपि काङ्ग्रेसपक्षः हमीरपुरे, शिमलानगरे च निर्वाचनजनसभाः करिष्यति। कांगड़ा-चम्बा संसदीयक्षेत्रत: भाजपाप्रत्याशी डॉ. राजीवभारद्वाज: १० दिनांके नामांकनं करिष्यति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: bjp, Congress, Divya Himachal, him sanskritam, HIM SASNSKRIT VARTA, Himachal Congress, Himsanskritnews, HP Congress, HP NEWS, HP Politics, Vikramaditya Singh, लोकसभा चुनाव, लोकसभा चुनाव 2024, विधानसभा चुनाव, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल चुनाव
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Politics : ‘कारागृहं गमिष्यन्ति’ विक्रीताः विधायकाः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Next Article काङ्ग्रेसदलं सैम पित्रौदाया: वचनेन सहमतं नास्ति, देशस्य प्रत्येकः नागरिकः सम्मानितः अस्ति- राजीवशुक्लः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?