By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मोदिन: प्रतिज्ञा एव भाजपाया: प्रतिज्ञा- अनुरागठाकुर:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > मोदिन: प्रतिज्ञा एव भाजपाया: प्रतिज्ञा- अनुरागठाकुर:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

मोदिन: प्रतिज्ञा एव भाजपाया: प्रतिज्ञा- अनुरागठाकुर:

डॉ मनोज शैल
Last updated: 2024/04/29 at 4:23 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मोदिन: प्रतिज्ञा एव भाजपाया: प्रतिज्ञा- अनुरागठाकुर:

हिमसंस्कृतवार्ता- हमीरपुरम्। केन्द्रीयमंत्री, हमीरपुरसंसदीयक्षेत्रस्य सांसद: तथा भाजपाप्रत्याशी अनुरागठाकुर: अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: प्रतिज्ञा एव भाजपाया: प्रतिज्ञा वर्तते । सः रविवासरे धर्मपुरस्य शीतलामन्दिरस्य समीपे स्थिते स्थाने उपस्थितजनसमूहं सम्बोधयन् उक्तवान्। केन्द्रीयमन्त्री उक्तवान् यत् हिमाचलप्रदेशस्य जनाः अपि प्रचण्डबहुमतेन राज्यात् ४ कमलपुष्पाणि मोदिने समर्पयितुं गच्छन्ति। सः अवदत् यत् विगतदशवर्षेषु केन्द्रे मोदीसर्वकारेण निर्धनै:, कृषकै:, महिलाभि:, युवभि: च सहितं देशस्य प्रत्येकं वर्गाय अनेकानां योजनानां लाभः दत्तः। आगामिषु ५ वर्षेषु अपि सर्वेषां वर्गाणां कृते भाजपायाः संकल्पपत्रं जनसामान्यं प्रति दत्तम् अस्ति।

सः अवदत् यत् ७० वर्षाणाम् उपरि प्रत्येकं वृद्धः, भवेत् सः निर्धनः, मध्यमवर्गः, उच्चमध्यमवर्गः वा, पञ्चलक्षरूप्यकपर्यन्तं निःशुल्कचिकित्सायाः सुविधां प्राप्स्यति। केन्द्रीयमन्त्री उक्तवान् यत् किसानसम्मानयोजनायाः व्याप्तिम् वर्धयित्वा प्रधानमन्त्री कृषकान् आवश्यककृषिनिवेशान् प्रदातुं पौष्टिकशाकानां उत्पादनं वर्धयितुं प्रोत्साहयिष्यति। अपि च प्लाण्डु:, रक्तांकम्, आलूकम् इत्यादीनां आवश्यकशाकानां उत्पादनार्थं नूतनानां समूहानां स्थापना भविष्यति। एतेषु समूहेषु भण्डारणस्य वितरणस्य च सुविधाः अपि प्रदत्ताः भविष्यन्ति।

भाजपा प्रत्याशी अवदत् यत् आगामिपञ्चवर्षपर्यन्तं निःशुल्कखाद्यान्नयोजना निरन्तरं भविष्यति। २०२० वर्षात् आरभ्य ८० कोटिभ्यः अधिकेभ्यः परिवारेभ्यः निःशुल्कखाद्यान्नं प्रदत्तं भविष्यति । अग्रिमपञ्चवर्षपर्यन्तं पी.एम. गरीब कल्याण अन्नयोजनाया: अन्तर्गतं नि:शुल्कखाद्यान्नं प्रदास्यते। केन्द्रीयमन्त्री उक्तवान् यत् ३ कोटिः महिलाभ्य: लक्षपति: भगिनीं कर्तुं प्रतिज्ञा कृता अस्ति, अधुनापर्यन्तं एककोटिग्रामीणमहिलाः लक्षपति-भगिनी कृत्वा सशक्तीकरणं कृतमस्ति। अधुना त्रिकोटिग्रामीणाः महिला: लक्षपति: भगिन्य: करिष्यन्ते।

अनुरागठाकुरः अवदत् यत् मोदीसर्वकारस्य हैट्रिक इति निश्चितम् अस्ति तथा च देशस्य जनाः सम्यक् जानन्ति यत् प्रधानमन्त्री नरेन्द्रमोदी तृतीयवारं देशस्य बागडोरं स्वीकुर्वन् अस्ति। सः अपि अवदत् यत् काङ्ग्रेसनेतारः स्वस्य क्रोधं गोपयितुं न शक्नुवन्ति, यस्मात् कारणात् ते प्रायः मीडियाद्वारा देशस्य प्रसिद्धप्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै अपमानजनकटिप्पण्य: कृत्वा परस्परस्पर्धायां प्रवृत्ताः सन्ति, परन्तु जनसमूहः सर्वं जानाति, तस्य उत्तरं च  प्रथमचरणद्वये मतदानेन् दत्तवन्त:। आगामिषु सर्वेषु निर्वाचनेषु च समुचितं उत्तरं दास्यन्ति।

सः अवदत् यत् जूनमासस्य चतुर्थे दिने देशे भाजपासर्वकारस्य निर्माणं भविष्यति तथा च देशस्य जनाः प्रत्येकं मतदानकेन्द्रत: काङ्ग्रेसाय उपयुक्तं उत्तरं दत्त्वा दर्पणं दर्शयिष्यन्ति।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

TAGGED: anurag thakur, bjp, BJP Himachal, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Election, HP NEWS, Lok Sabha Election, PM Modi, अनुराग ठाकुर, नरेन्द्र मोदी, भाजपा, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल भाजपा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article येभ्य: भाजपादलेन नामपत्रं दत्तम् ते १५ कोटिरूप्यकाणि गृहीतवन्तः – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Next Article चेन्नै-पञ्जाबयोः आईपीएल-क्रीडायाः चिटिकाया: मूल्यं पुनः वर्धितम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?