By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Lok Sabha Election 2024 : हिमाचलसहितं ६ राज्यानां गृहसचिवानां निवृत्तये आदेशा:, निर्वाचनात् पूर्वं निर्वाचनायोगस्य कार्यविधि:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Lok Sabha Election 2024 : हिमाचलसहितं ६ राज्यानां गृहसचिवानां निवृत्तये आदेशा:, निर्वाचनात् पूर्वं निर्वाचनायोगस्य कार्यविधि:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Lok Sabha Election 2024 : हिमाचलसहितं ६ राज्यानां गृहसचिवानां निवृत्तये आदेशा:, निर्वाचनात् पूर्वं निर्वाचनायोगस्य कार्यविधि:

डॉ मनोज शैल
Last updated: 2024/03/18 at 10:35 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Lok Sabha Election 2024 : हिमाचलसहितं ६ राज्यानां गृहसचिवानां निवृत्तये आदेशा:, निर्वाचनात् पूर्वं निर्वाचनायोगस्य कार्यविधि:

हिमसंस्कृतवार्ता- नवदेहली।

भारतस्य निर्वाचनायोगेन लोकसभानिर्वाचनात् पूर्वं महत् निर्णयः कृतः। आयोगेन हिमाचलप्रदेशसहितस्य षट् राज्यानां गृहसचिवानां निवृत्ते: आदेशः दत्तः। हिमाचलस्य अतिरिक्तं गुजरातस्य, उत्तरप्रदेशस्य, उत्तराखण्डस्य, बिहारस्य, झारखण्डस्य च गृहसचिवानां निवृत्तये आदेशाः दत्ताः सन्ति। निर्वाचनेषु समानावसरं सुनिश्चेतुं एषा कार्यविधि: कृता। सूत्रेषु उक्तं यत् आयोगेन बृहन्मुम्बईनगरपालिकायाः आयुक्तं प्रशासकं च इकबालसिंहचहलं निर्वाचनकार्यात् मुक्तं कर्तुं अपि आदेशः दत्तः।

अवधेयं वर्तते यत् आयोगेन उत्तरप्रदेशः, बिहारः, गुजरातः, हिमाचलप्रदेशः, उत्तराखण्डः, झारखण्डः च इत्येतेषां प्रदेशानां सर्वकारेभ्यः वर्तमानगृहसचिवान् निवृत्तये आदेशः दत्तः। तेषां स्थाने आयोगस्य निरीक्षणे अन्ये अधिकारिणः नियुक्ताः भविष्यन्ति। सूत्रेषु उक्तं यत् आयोगेन मिजोरम- हिमाचलप्रदेशसर्वकारेभ्यः अपि स्वसामान्यप्रशासनिकविभागस्य सचिवानां परिवर्तनविषये निर्देशाः निर्गताः। आयोगेन पश्चिमबङ्गसर्वकाराय पुलिसमहानिदेशकं राजीवकुमारं वर्तमानप्रभारात् निष्कास्य अनिर्वाचनकार्यं कर्तुं नियुक्तं कर्तुं आदेशः दत्तः। आयोगेन राज्यसर्वकारेण त्रयाणां पुलिसाधिकारिणां नामसूचीं प्रेषयितुं कथितं यत् तेषां स्थाने नियुक्तिं कर्तुं अधिकारीणः चयनं करणीयम्। अस्मिन् विषये कार्यविधिं पूर्णां कर्तुं राज्यसर्वकाराय गतसायं ५ वादनपर्यन्तं समयः दत्तः आसीत्।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

TAGGED: ECI, Election, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, loksabha, LokSabha Election, State Election commission, चुनाव आयोग, निर्वाचन आयोग, लोकसभा, लोकसभा चुनाव, लोकसभा चुनाव 2024, लोकसभा निर्वाचन, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article लोकसभानिर्वाचनम् : सामान्यनिर्वाचनानां घोषणायाम् अनुरागठाकुरस्य प्रचारं तीव्रम्। अधुनापि काङ्ग्रेसाय प्रत्याशिन: प्रतीक्षा
Next Article Himachal News: अयोग्यविधायकै: सर्वोच्चन्यायालयात् आश्रय: न प्राप्त:, विधानसभा- अध्यक्षाय तथा निर्वाचनायोगाय सूचनापत्रम् निर्गतम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?