By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News: अयोग्यविधायकै: सर्वोच्चन्यायालयात् आश्रय: न प्राप्त:, विधानसभा- अध्यक्षाय तथा निर्वाचनायोगाय सूचनापत्रम् निर्गतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himachal News: अयोग्यविधायकै: सर्वोच्चन्यायालयात् आश्रय: न प्राप्त:, विधानसभा- अध्यक्षाय तथा निर्वाचनायोगाय सूचनापत्रम् निर्गतम्
राजनैतिकवार्ताहिमाचलवार्ता

Himachal News: अयोग्यविधायकै: सर्वोच्चन्यायालयात् आश्रय: न प्राप्त:, विधानसभा- अध्यक्षाय तथा निर्वाचनायोगाय सूचनापत्रम् निर्गतम्

डॉ मनोज शैल
Last updated: 2024/03/18 at 10:40 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal News: अयोग्यविधायकै: सर्वोच्चन्यायालयात् आश्रय: न प्राप्त:, विधानसभा- अध्यक्षाय तथा निर्वाचनायोगाय सूचनापत्रम् निर्गतम्

हिमसंस्कृतवार्ता- नवदेहली। 

दलस्य सचेतनाया: उल्लङ्घनस्य कारणेन हिमाचलप्रदेश- विधानसभायाः अयोग्यानां षट्काङ्ग्रेसविधायकानां प्रकरणस्य सोमवासरे सर्वोच्चन्यायालये श्रवणम् अभवत्। यस्मिन् सर्वोच्चन्यायालयेन हिमाचलप्रदेशस्य विधानसभाध्यक्षस्य कुलदीपसिंहपठानियावर्यस्य कार्यालयात् षट्काङ्ग्रेसविद्रोहिणः अयोग्यतायाः विरुद्धं याचिकायां प्रतिक्रिया याचिता अस्ति।

अयोग्यविधायकाः विधानसभाकार्यविधौ भागं ग्रहीतुं न शक्ष्यन्ति- सर्वोच्चन्यायालय:

सर्वोच्चन्यायालयेन एतदपि उक्तं यत् तेषां याचिकायाः निर्णयपर्यन्तं विद्रोही हिमाचलप्रदेशकाङ्ग्रेसविधायकानां मतदानं वा विधानसभाकार्यविधौ भागं ग्रहीतुं वा अनुमतिः न भविष्यति। अयोग्यविधायकानां सर्वोच्चन्यायालयात् स्थगितत्वं न प्राप्तम्।

विधानसभा अध्यक्षाय सूचनापत्रम् निर्गतमम् अस्ति। तदतिरिक्तं चतुर्सप्ताहान्तरे तेभ्यः उत्तरमपि प्राप्तम् अस्ति। एतत् एव न, रिक्तासनेषु उपनिर्वाचनं कर्तुं निर्वाचनायोगाय अपि सूचनापत्रम् निर्गतमस्ति। अस्मिन् प्रकरणे अग्रिमं श्रवणं मई ६ दिनाङ्के भविष्यति। विधानसभाबजटसत्रे संसदीयकार्याणां मन्त्री हर्षवर्धनचौहानस्य उपालम्भं श्रुत्वा विधानसभासभापतिना एते: विधायका: अयोग्या: घोषिता:।

षट् रिक्तासनेषु भविष्यति उपनिर्वाचनम्

एते नेतारः सर्वोच्चन्यायालये विधानसभाध्यक्षस्य निर्णयस्य विरुद्धं आह्वानम् कृतवन्तः आसन्। सर्वोच्चन्यायालयेन गतविचारे तान् पृष्टम् आसीत् यत् ते किमर्थं उच्चन्यायालयं न गता:, किमर्थं ते प्रत्यक्षतया सर्वोच्चन्यायालयम् आगता: इति। इदानीं शनिवासरे निर्वाचनायोगेन एतेषां विधायकानां विधानसभाक्षेत्राणि रिक्तानि इति मत्वा उपनिर्वाचनानि घोषितानि। जूनमासस्य प्रथमदिनाङ्के भवितुं शक्नुवन्तः संसदनिर्वाचनेन सह एतेषु क्षेत्रेषु अपि मतदानस्य समयसूची प्रकाशिता अस्ति।

उभौ दलौ मंथनम् आरब्धवन्तौ, रणनीतिं परिवर्तयितव्या भविष्यति। सम्भवतः कोऽपि अवगतः नासीत् यत् लोकसभानिर्वाचन- २०२४ इत्यनेन सह षडासनेषु विधानसभा उपनिर्वाचनं घोषितं भविष्यति।

राज्यसभानिर्वाचने विधायकाः भाजपाप्रत्याशिनं मतदानं कृतवन्तः

अधुना काङ्ग्रेसदलं भाजपादलं च अस्य विषये मंथनं प्रारब्धवन्तौ। अभ्यर्थीनां चयनार्थं द्वयोः दलयोः परिश्रमं कर्तव्यं भविष्यति। अयोग्यतां प्राप्ताः काङ्ग्रेसविधायकाः राज्यसभानिर्वाचने भाजपाप्रत्याशिनं मतदानं कृतवन्तः आसन्। सार्धैकवर्षे कार्याभावात् ते रुष्टा: इति कथयन्ति। ते स्वक्षेत्रेषु स्थापिताः नेतारः सन्ति, तेभ्य: जनानां समर्थनं च वर्तते। एतेषु षट् निर्वाचनक्षेत्रेषु काङ्ग्रेसेन नूतना: प्रत्याशिन:  स्थापयितुं प्रवृत्ताः भविष्यन्ति, यदा तु भाजपायाः समक्षं आह्वानं वर्तते यत् तेभ्यः नामपत्रं दातव्यं वा गतनिर्वाचने पराजितस्य स्वस्य नेतु: विषये विश्वासो विधातव्य: वा। अस्मिन् विषये पक्षद्वयेन रणनीतयः सज्जीकर्तुं आरब्धाः सन्ति।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, himachal update, Himsanskritnews, HP Congress, Rajysabha, Supreme court, कांग्रेस, भाजपा, राज्यसभा, सर्वोच्च न्यायालय, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल कांग्रेस, हिमाचल भाजपा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Lok Sabha Election 2024 : हिमाचलसहितं ६ राज्यानां गृहसचिवानां निवृत्तये आदेशा:, निर्वाचनात् पूर्वं निर्वाचनायोगस्य कार्यविधि:
Next Article Lok Sabha Election 2024 : आचारसंहिताया: प्रवर्तनात् इन्दिरागांधी- प्रियभगिनी- सुखसम्मान- निधियोजनाया: प्रपत्रात् मुख्यमन्त्री इन्दिरागान्धी च इत्येतयो: छायाचित्रे अपहृते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?