यदि आपदा न स्यात् तर्हि मनालीपर्यन्तं चतुष्पंक्तिराजमार्गस्य उद्घाटनं अभविष्यत्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे सुन्दरनगरस्य पुङ्गपर्यन्तं किरतपुर-नेरचौकचतुष्पंक्तिराजमार्गस्य उद्घाटनं करिष्यति। यदि राज्ये आपदा न आगता स्यात् तर्हि प्रधानमन्त्रिणा मनालीपर्यन्तम् अस्य चतुष्पंक्तिराजमार्गस्य उद्घाटनं कर्तव्यं स्यात्। वर्षाकारणात् नेरचौकतः मनालीपर्यन्तं चतुष्पंक्तिराजर्मार्गस्य प्रतीक्षा वर्षद्वयं यावत् वर्धिता अस्ति।
नेरचौकत: मनालीपर्यन्तं २०२४ तमस्य वर्षस्य स्थाने २०२६ तमे वर्षे पूर्णतया चतुष्पंक्तिराजर्मार्गं सज्जं भविष्यति । आपदायाः क्षतिकारणात् परियोजनायां वर्षद्वयं विलम्बः भवति। वर्षर्तौ प्रचण्डवृष्ट्या परियोजनायाः २० कि.मी. यावत् भाग: क्षतिग्रस्त: जात:।
भविष्ये एतादृशानां आपदां कारणेन चतुष्पंक्तिराजर्मार्गे क्षतिः न भवेत् इति सम्भाव्यक्षेत्राणां रक्षणाय एनएचएआइ विशेषं ध्यानं ददाति। मुखविज्ञानिनः भूवैज्ञानिकाः च, पर्यावरणविदः तस्य अध्ययनं करिष्यन्ति। अस्य कारणात् परियोजनायाः समाप्तेः समयसीमा वर्षद्वयेन विस्तारिता अस्ति ।
सूचयामः यत् ९, १० जुलै दिनाङ्के व्यआसनद्यां जलप्रलयस्य अनन्तरं पुनः २०२३ तमस्य वर्षस्य अगस्त-मासस्य १४, १५ दिनाङ्केषु मण्डी-मनाल्योः मध्ये राजमार्गः क्षतिग्रस्तः अभवत् । अस्य वर्षाऋतुतः पूर्वं एनएचएआइ इत्यनेन मनाली, किरतपुर-नेरचौक्, पण्डोह-टकोली, टकोली-कुल्लू इत्यादय: अस्य चतुष्पंक्तिमार्गस्य त्रयः चरणाः प्रायः सम्पन्नाः आसन् ।
भारतीयप्रौद्योगिकीसंस्थानस्य (IIT) रूड़की इत्यस्य विशेषज्ञाः अस्मिन् विषये कार्यं करिष्यन्ति यत् यस्य क्षेत्रस्य क्षतिः अभवत् तस्य पुनर्निर्माणं कथं भवेत् । आपदापश्चात् केन्द्रसर्वकारस्य विशेषज्ञसमित्या चतुष्पंक्तिमार्गस्य दर्शनं कृतम् आसीत् । भविष्ये सुरक्षितं भवतु इति परामर्श: मार्गदर्शिकाः च दत्ताः। एनएचएआइ इत्येतत् अपि एतादृशेषु मार्गदर्शिकेषु कार्यं कुर्वन् अस्ति।