हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशसर्वकारेण एप्रिलमासस्य प्रथमदिनात् आरभ्य सर्वकारीयकर्मचारिभ्यः चतुर्प्रतिशतं महार्घतावृत्ति: (डीए) दातुं अधिसूचना प्रसारिता। बजटप्रतिज्ञां पूरयन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खो: नेतृत्वे काङ्ग्रेससर्वकारेण शनिवासरे आधिकारिकं ज्ञापनपत्रं प्रसार्य आगामिमासात् राज्यसर्वकारकर्मचारिभ्यः चतुर्प्रतिशतं महार्घतावृत्ते: घोषणा कृता। प्रधानसचिवः (वित्तम्) शनिवासरे मन्त्रिमण्डलस्य सभायाः अनन्तरं प्रसारितायां अधिसूचनायां उक्तवान् यत्, २०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् चतुर्प्रतिशतदरेण वर्धितं महार्घतावृत्ति: दास्यते। एतस्याः घोषणायाः अनन्तरं सर्वकारीयकर्मचारिणां अधिकारिणां च विद्यमानम् महार्घतावृत्ति: (डीए( ३४ प्रतिशतात् ३८ प्रतिशतं यावत् वर्धते।
एते आदेशाः अखिलभारतीयसेवानां अधिकारिणां, हिमाचलप्रदेशन्यायसेवायाः अधिकारिणां, यूजीसी-वेतनमानस्य अन्तर्गतं राज्यसर्वकारस्य कर्मचारिणां च कृते अपि प्रवर्तन्ते। सः सूचितवान् यत् एतत् अतिरिक्तं महार्घतावृत्ति: मईमासस्य २०२४ तमे वर्षे देयस्य एप्रिल, २०२४ तमस्य वर्षस्य वेतनेन सह नगदरूपेण भुक्तं भविष्यति तथा च २०२२ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् सञ्चितस्य अवशिष्टधनस्य भुक्तिः पृथक्-पृथक् आदेशैः अस्मिन् कोषे निर्धारितरीत्या प्रदास्यते।
३ जनवरी २०२२ दिनाङ्कस्य आधिकारिकज्ञापनपत्रे निहिताः अन्ये नियमाः शर्ताः च प्रवर्तन्ते एव। एषा घोषणा राज्ये २.६६ लक्षकर्मचारिणां लाभाय भविष्यति। १७ फरवरी दिनाङ्के २०२४-२५ तमस्य वर्षस्य वार्षिकं बजटं प्रस्तुतं कुर्वन् मुख्यमन्त्री मार्चमासे डीए अधिसूचनाम् करिष्यति इति अवदत्। राज्यकर्मचारिणां कृते प्रायः १२ प्रतिशतं डीए ऋणं भवति, यस्य भुक्तिः त्रिषु चरणेषु भवितुं शक्यते।
हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता

शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment
Leave a comment