By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Budget Session : अलीखड्ड-पेयजलयोजनायै पूर्वसर्वकारेण प्रदत्तं प्राविधिकम् अनुमोदनम् – संजय अवस्थी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Budget Session : अलीखड्ड-पेयजलयोजनायै पूर्वसर्वकारेण प्रदत्तं प्राविधिकम् अनुमोदनम् – संजय अवस्थी
हिमाचलवार्ताप्रादेशिकवार्ता

HP Budget Session : अलीखड्ड-पेयजलयोजनायै पूर्वसर्वकारेण प्रदत्तं प्राविधिकम् अनुमोदनम् – संजय अवस्थी

डॉ मनोज शैल
Last updated: 2024/02/22 at 3:35 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Budget Session : अलीखड्ड-पेयजलयोजनायै पूर्वसर्वकारेण प्रदत्तं प्राविधिकम् अनुमोदनम् – संजय अवस्थी

हिमसंस्कृतवार्ता- शिमला।

मुख्यसंसदीयसचिव: (सीपीएस) संजय: अवस्थी मुख्यमन्त्रिणा प्रस्तुतस्य आयव्ययकस्य प्रशंसाम् अकरोत्। अस्मिन् आयव्ययके राज्यस्य ग्राम्य-अर्थव्यवस्थां सुदृढं कर्तुं हिमाचलं स्वावलम्बनं च कर्तुं महत्त्वपूर्णानि पदानि गृहीतानि सन्ति। सः अवदत् यत् राजनैतिकबाध्यतायाः कारणेन विपक्षः अस्य आयव्ययकस्य विरोधं करोति। विवादास्पदाया: अलीखड्ड-पेयजलयोजनायाः विषये सः अवदत् यत् पूर्वसर्वकारस्य कार्यकाले अस्याः पेयजलयोजनायाः तकनीकी अनुमोदनं प्राप्तम्, वर्तमानसर्वकारेण एतत् कार्यम् अग्रे नीतम्। इयं पेयजलयोजना अर्कीक्षेत्रस्य राजस्व-अभिलेखेषु अस्ति।

चिकित्सका: कार्य-स्थगनान्दोलने, रोगिण: विपत्तिग्रस्ता:- डॉ जनकराज: 

भाजपाविधायकः जनकराजः हिमाचलस्य स्वास्थ्यसुविधानां दुर्दशां वर्तते इति उक्तवान्। चिकित्सका: कार्य-स्थगनान्दोलनं कृतवन्तः। चिकित्सालयेषु उपकरणानां, औषधानां च अभावः अस्ति। तत्र कर्मचारिणां महत् अभावः अस्ति। आदर्शस्वास्थ्यसंस्थानाम् उद्घाटनस्य घोषणा अपि नगण्या अस्ति। वैद्यानाम् एनपीए-सम्बद्धस्य विषयस्य विषये सर्वकारेण समितिः निर्मिता इति सः अवदत्। येषां कार्यं न कर्त्तव्यं तेषां कृते समितिः निर्मिता भवति।

वित्तीयस्थितौ उन्नयनं कर्तुं दृढ़पदानि ग्रहीतुं आवश्यकता अस्ति- राजेन्द्रराणा

काङ्ग्रेसविधायकः राजेन्द्रराणा उक्तवान् यत् हिमाचलप्रदेशस्य आर्थिकस्थितिं सुदृढां कर्तुं दृढ़पदानि ग्रहीतुम् आवश्यकता वर्तते। राज्ये पर्यटनक्षेत्रे बहु कार्यं कर्त्तव्यम् अस्ति। विधवापुत्राणां शिक्षणव्ययस्य वहनं प्रशंसनीयम्। सः हमीरपुरे १०० कोटिरूप्यकेण कर्करोगनिवारणसंस्थानस्य स्थापनायाः बजटे घोषणाया: स्वागतं कृतवान्।

आयव्ययकम् विवरणानां मायाजाले – त्रिलोक जम्वाल:

भाजपाविधायक: त्रिलोकजमवाल: उक्तवान् यत् राज्यसर्वकारेण प्रतिज्ञा अर्थात् गारण्टीनामधेयेन जनता भ्रामिता अस्ति। राज्ये आपदापीडिताः क्षतिपूर्तिं प्राप्तुं न शक्तवन्तः। या परिस्थिति: प्रचलति तया बिलासपुरस्य सदरसहितं 25 ग्रामपंचायता: जलं न प्राप्स्यन्ति। सः बजटं विवरणानां मायाजालं इति अकथयत्।

आयव्ययके जनाः उपेक्षिताः- बलबीरवर्मा

भाजपाविधायकः बलबीरवर्मा इत्यनेन उक्तं यत् सुक्खुसर्वकारेण स्वस्य द्वयोः आयव्ययकयो: हिमाचलस्य जनानां वञ्चनं कृतम्। सः अवदत् यत् अस्मिन् बजटे किमपि नूतनं नास्ति। राज्यस्य जना: १० गारण्टीनाम्ना सर्वकारेण वञ्चिता:, भाजपा जनान् अस्य विषये अवगतं कारयिष्यति।

प्रतिज्ञाः पूर्णाः क्रियन्ते : मोहनलालब्राक्टा

मुख्यसंसदीयसचिव: (सीपीएस) मोहनलालब्राक्टा अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी जनेभ्यः १५ लक्षरूप्यकाणि दास्यामि इति प्रतिज्ञां कृतवान्, परन्तु अद्य एतत् प्रतिज्ञा कुत्र अस्ति। विपक्षः महिलाभ्यः १५०० रूप्यकाणां दानस्य विषयं निरन्तरं उत्थापयति। सः अवदत् यत् काङ्ग्रेसपक्षेण कृताः प्रतिज्ञाः चरणबद्धरूपेण पूर्णाः भवन्ति।

आयव्ययकम् रिक्तम् – दीपराज:

भाजपाविधायकः दीपराजः मुख्यमन्त्रिणा प्रस्तुतं बजटं रिक्तम् इति उक्तवान्। अस्मिन् जनसमूहः वञ्चितः अस्ति। सर्वकारेण केन्द्रप्रायोजिताः योजनाः बजटे समाविष्टाः सन्ति। महिलाभ्यः १५००-१५०० रूप्यकाणि दास्यामि इति प्रतिज्ञां कृतवान् आसीत्। एषा घोषणा शून्या सिद्धा भवति। जीविकाया: नाम्ना यूनः वञ्चिताः भवन्ति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: hp budget, HP Vidhan Sabha Budget Session, HP vidhansabha, hpgovt, हिम संस्कृत वार्ताः, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल विधानसभा, हिमाचल विधानसभा सत्र
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Budget Session : हिमाचलाय विकासयोजना- निर्मातु: आवश्यकता: राजेश धर्माणी
Next Article Hotel Wildflower Hall : ओबरायसमूहाय एकवर्षाभ्यन्तरे निजातिथिगृहं रिक्तं कर्तुं सर्वोच्चन्यायालयस्य आदेश:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?