By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमपातस्य कारणेन हिमाचलस्य चत्वारः राष्ट्रियराजमार्गाः, २३२ मार्गाः पिधिता, १८०० विद्युत्परावर्तका: च स्थगिताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमपातस्य कारणेन हिमाचलस्य चत्वारः राष्ट्रियराजमार्गाः, २३२ मार्गाः पिधिता, १८०० विद्युत्परावर्तका: च स्थगिताः
हिमाचलवार्ताप्रादेशिकवार्ता

हिमपातस्य कारणेन हिमाचलस्य चत्वारः राष्ट्रियराजमार्गाः, २३२ मार्गाः पिधिता, १८०० विद्युत्परावर्तका: च स्थगिताः

डॉ मनोज शैल
Last updated: 2024/02/21 at 10:40 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

हिमपातस्य कारणेन हिमाचलस्य चत्वारः राष्ट्रियराजमार्गाः, २३२ मार्गाः पिधिता, १८०० विद्युत्परावर्तका: च स्थगिताः वो

हिमसंस्कृतवार्ता- शिमला।

हिमाचलप्रदेशस्य उच्चपर्वतक्षेत्रेषु त्रिदिवसेभ्य: सतत् हिमपातः भवति। राज्ये प्रचण्डहिमपातस्य कारणेन चत्वारः राष्ट्रियराजमार्गाः, २२८ मार्गाः च यातायातस्य कृते निरुद्धा: सन्ति। लाहौल- स्पीति- जनपदे १६५ मार्गाः स्थगिताः अभवन्। चम्बाजनपदस्य ५२ मार्गेषु यातायातस्य प्रभावः अस्ति । तथैव १८०० विद्युत्परिवर्तकानां विफलतायाः कारणेन राज्ये अनेकेषु क्षेत्रेषु अन्धकारः अस्ति। कुल्लुमण्डले, लाहौल-स्पीतौ च त्रिदिवसेभ्य: हिमपातः निरन्तरं वर्तते। प्रचण्डहिमपातस्य कारणेन लाहौल-उपत्यका देशात् विश्वात् च विच्छिन्ना अस्ति।

रोहताङ्गदर्रायां पञ्चपादपर्यन्तं हिमपातः अभवत्। यत्र कोकसरे ७० सेंटीमीटर, अटलकन्दराया: उत्तरद्वारे ६० से.मी., सिस्सु इत्यत्र ६० से.मी., गोन्धला-तान्दौ च  ६० से.मी., दार्चायां ४५ से.मी., अटलकन्दराया: दक्षिण-द्वारे १०० से.मी जलोडीदर्रायां च २० से.मी. हिमपात: अभवत्। तस्मिन् एव काले रविवासरात् आरभ्य मण्डलस्य कुल्लू-लाहौलस्य चन्द्राघाट्यां विद्युत्-विफलता वर्तते। प्रचण्डहिमपातस्य कारणात् उभयो: जनपदयोः त्रयाणां राजमार्गैः सह १५० तः अधिकेषु मार्गेषु यातायातस्य स्थगनम् अभवत्। लाहौल-स्पीति-जिलाप्रशासनेन हिमस्खलनस्य सम्भावना प्रकटिता अस्ति। किन्नौरमण्डलस्य उच्चप्रदेशेषु अपि नवीनहिमपातः अभवत्। राज्यराजधानी शिमलानगरे गतरात्रौ प्रचण्डवृष्टिः अभवत्। अस्मिन् काले वायुवेग: अपि अभवत्।

पुलिसस्य मते धुंधीक्षेत्रे प्रचण्डहिमपातस्य कारणेन मार्गे प्रायः ४.५ पादपर्यन्तं हिमपातः सञ्चितः अस्ति तथा च मार्गस्य स्थितिः कस्यापि प्रकारस्य वाहनस्य गमनाय उपयुक्ता नास्ति। अतः पर्यटकानाम्, स्थानीयजनानाञ्च सुरक्षां मनसि कृत्वा नेहरूकुण्डतः सोलङ्ग-अवरोधं प्रति सामान्यवाहनानां गमनं पिहितम् अस्ति। यावत् मार्गस्य स्थितिः न भवति तावत् केवलं 4×4 वाहनानि एव सोलङ्ग-अवरोधं प्राप्तुं शक्नुवन्ति।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Himachal news, Himachal Pradesh, himachal update, Himsanskritnews, himsanskritnews him sanskritam, Meteorological Centre, Meterological Department, मौसम विज्ञान केन्द्र, मौसम विभाग, हिम संस्कृत वार्ताः, हिमसंस्कृत, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Doctors Strike: हिमाचले भौमवासरात् सार्धद्विहोरापर्यन्तं २६०० चिकित्सकानाम् आन्दोलनम् आरब्धम्
Next Article HPRCA: हिमाचलप्रदेश- राज्य- चयन- आयोगस्य जालपुटस्य परीक्षणं आरब्धम्। सप्ताहे क्रियान्वितं भविष्यति।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?