By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Doctors Strike: हिमाचले भौमवासरात् सार्धद्विहोरापर्यन्तं २६०० चिकित्सकानाम् आन्दोलनम् आरब्धम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Doctors Strike: हिमाचले भौमवासरात् सार्धद्विहोरापर्यन्तं २६०० चिकित्सकानाम् आन्दोलनम् आरब्धम्
हिमाचलवार्ताप्रादेशिकवार्ता

HP Doctors Strike: हिमाचले भौमवासरात् सार्धद्विहोरापर्यन्तं २६०० चिकित्सकानाम् आन्दोलनम् आरब्धम्

डॉ मनोज शैल
Last updated: 2024/02/21 at 10:36 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Doctors Strike: हिमाचले भौमवासरात् सार्धद्विहोरापर्यन्तं २६०० चिकित्सकानाम् आन्दोलनम् आरब्धम्

हिमसंस्कृतवार्ता- शिमला। 

हिमाचलप्रदेशे भौमवासरात् प्रतिदिनं सार्धद्विहोरापर्यन्तं २६०० चिकित्सका: आन्दोलनम् आरब्धवन्तः। प्रातः ९:३० वादनतः मध्याह्नद्वादशवादनपर्यन्तं प्राथमिकस्वास्थ्यकेन्द्रेषु, जिलाचिकित्सालयेषु च रोगिणां चिकित्सां वैद्याः न करिष्यन्ति। मंगलवासरे प्रातःकाले वैद्यानां आन्दोलनस्य कारणेन रोगिण: समस्यानां सम्मुखीकरणम् अभवन्। राज्ये सर्वत्र चिकित्सालयेषु वैद्याः आन्दोलनम् कुर्वन्ति। हिमाचल- चिकित्सा- अधिकारिसङ्घस्य कथनमस्ति यत् यावत् सर्वकारः तेषां प्रार्थनां न स्वीकरोति तावत् ते आन्दोलनम् करिष्यन्ति। तस्मिन् एव काले मार्चमासस्य ५ दिनाङ्कात् परं वयं सामूहिकावकाशं गमिष्यामः। धर्मशाला-चिकित्सालये, कुल्लौ च चिकित्सका: आन्दोलनम् कृतवन्तः। अस्य कारणात् ओपीडी- कक्षस्य बहिः रोगिणः प्रतीक्षन्ते स्म। महात्मागान्धी खनेरी चिकित्सालये चिकित्सकाः आन्दोलनम् आरब्धवन्तः। अनेन रोगिणां समस्याः वर्धिताः। प्रातः कालादेव ओपीडी-मध्ये न उपविष्टः वैद्यः, सोलनमण्डलस्य चिकित्सालयेषु आन्दोलनस्य कारणात् प्रातः ९:३० वादनतः अपराह्ण १२:०० वादनपर्यन्तं वैद्याः ओपीडी इत्यत्र न उपविष्टाः। अस्य कारणात् रोगिणां बहु कष्टस्य सम्मुखीकरणम् अभवत्। आपत्काले एव रोगिणः चिकित्सासुविधां प्राप्नुवन्ति। पूर्वं वैद्याः कृष्णवर्णीयं फलकंइ धारयित्वा चिकित्सालयेषु सेवां प्रयच्छन्ति स्म। परन्तु फरवरीमासस्य १३ दिनाङ्के सर्वकारेण सह आयोजितस्य समागमस्य कार्यसूची वैद्यैः न प्राप्तस्य अनन्तरं ते अधुना कार्य-स्थगनान्दोलनं आरब्धम् कर्तुं निश्चितवन्तः। राज्यजिलाचिकित्सा संघस्य अध्यक्षः डॉ. कमल अटवालः अवदत् यत् तस्य पञ्च मुख्याः प्रार्थना: सन्ति। अस्मिन् एनपीए-पुनर्स्थापनं मुख्यप्रार्थना अस्ति। स्वास्थ्यनिदेशकं अन्यनिदेशकस्य अधीनं कार्यं कर्तव्यमिति संघः न स्वीकरोति इति कारणेन स्वास्थ्यनिदेशकं उपमिशननिदेशकपदात् निष्कासयितुं संघेन आग्रहः कृतः।

चिकित्सकानां प्रार्थना:

एनपीए, एड्स नियन्त्रण सोसायटी इत्यस्मिन् परियोजनानिदेशकस्य प्रभारं स्वास्थ्यनिदेशकाय दातुं, चिकित्सामहाविद्यालयस्य प्राचार्यस्य, चिकित्सा- अधीक्षकाणां शक्तीनां प्रतिदानम् एतदतिरिक्तं १३ फेब्रुवरी-दिनाङ्के मुख्यमन्त्रिणा सह आयोजितायाः सभायाः मुख्यविन्दुः बहिः न निष्कासिताः इति संघस्य कथनम् अस्ति । एतदेव कारणं यत् अधुना राज्ये सर्वत्र वैद्याः स्वाग्रहानां कृते आन्दोलनम् कुर्वन्ति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Cm Sukhu, cmo himachal, Health, Health Department HP, Health Minister, him sanskrit varta, HIM SASNSKRIT VARTA, Himsanskritnews, HP Doctor's Strike, HPCM, स्वास्थ्य विभाग, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचल प्रदेशस्य राजधानी शिमलाया: श्यामलाघाट स्थिते ज़िला शिक्षण- प्रशिक्षण- संस्थाने सेवारतानां संस्कृत- शिक्षकाणां पञ्चदिवसीयं प्रशिक्षणं प्रारब्धम्
Next Article हिमपातस्य कारणेन हिमाचलस्य चत्वारः राष्ट्रियराजमार्गाः, २३२ मार्गाः पिधिता, १८०० विद्युत्परावर्तका: च स्थगिताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?