By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य  सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य  सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना
हिमाचलवार्तासंस्कृतगतिविधयः

लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य  सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना

डॉ मनोज शैल
Last updated: 2024/02/18 at 8:04 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य  सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना

https://himsanskritam.com/wp-content/uploads/2024/02/VID-20240217-WA0152.mp4

हिमसंस्कृतवार्ता- मण्डी। 

प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च आयोजनं भवति। तत्रैव लघ्वीकाश्यां मण्ड्यां जिलाशिक्षकप्रशिक्षणसंस्थानस्य सायुज्ये एकस्मिन् चक्रे प्रायश: ९०० शिक्षकाणां चतुर्षु स्थानेषु प्रशिक्षणम् सम्पन्नम्। तेषु एव खण्डस्रोतसमन्वयकस्य केन्द्रस्य सभागारे खलियारे कक्षा षष्ठीत: अष्टमीपर्यन्तं संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: आयोजनम् अभवत्। अस्यां कार्यशालायां मण्डीजनपदस्य भिन्न-भिन्नशिक्षाखण्डानां षष्ट्याधिकसंस्कृतशिक्षका प्रशिक्षणं गृहीतवन्तः। अस्मिन् अवसरे जिलाशिक्षकप्रशिक्षणप्रभारी विजयशर्मा शिक्षकान् सम्बोधयन् उक्तवान् यत् विश्वस्य प्राचीनतमा भाषा संस्कृतं वर्त्तते। जीवनस्य सर्वेषां संस्काराणां सम्पादनम् अनया भाषया एव भवति। संस्कृतं विना संस्कृति: न आयाति। अत: अस्माकं सौभाग्यं वर्त्तते यत् संस्कृतशिक्षका: अत्र संस्कृतमाध्यमेन प्रशिक्षणं प्राप्य नवीनया ऊर्जया विद्यालयेषु संस्कृतमयं वातावरणं निर्मास्यन्ति। अस्य प्रशिक्षणस्य समन्वयक: रजनीशचौधरी उक्तवान् यत् अस्या: कार्यशालाया: आरम्भ: १३ फरवरीत: १७ फरवरीपर्यन्तम् अभवत्।    

कार्यशालायामस्यां मण्डीजनपदस्य षष्ट्याधिकसंस्कृतशिक्षका: प्रशिक्षणं प्राप्तवन्त:। संस्कृतमाध्यमेन शिक्षकाणां प्रशिक्षणं दृष्ट्वा अहमपि मुदितोऽस्मि इति स: अकथयत्। पञ्चदिवसीयकार्यशालायां शिक्षकै: शिक्षणाधिगमस्य प्रविधिनां विषये, राष्ट्रियोप्लब्धिसर्वेक्षणे भाषाया: स्तरविषये,, भाषिकतत्त्वानां विषये, मूल्याङ्कनस्य विषये, नवशिक्षानीति: २०२० इत्यस्या: विषये, सामाजिकमाध्यमै: संस्कृतम्, भाषाशिक्षणस्य साधनानां विषये च प्रशिक्षणं प्राप्तम्। कार्यशालाया: प्रशिक्षकेण डॉ मनोजकुमारशैलेन विद्यालयेषु संस्कृतमयं वातावरणं निर्मातुं सप्तसंकल्पा: उपस्थापिता:।  कार्यशालाया: समाप्तौ सर्वे शिक्षका: तान् सप्तसंकल्पान् स्वीकृत्य प्रतिगतवन्त:।

सप्तसंकल्पा:

  1. विद्यालये दिनद्वये संस्कृतप्रार्थनासभाया: आयोजनम्। 
  2. विद्यालये नित्योपयोगिवस्तूनां संस्कृतेन नामानां लेखनम्।
  3. मासान्ते संस्कृते कार्यक्रमस्य आयोजनम्।
  4. प्रतिवर्षं संस्कृतसप्ताहस्य आचरणम्।
  5. वार्षिकोत्सवे संस्कृतमाध्यमेन अपि कार्यक्रमा:। 
  6. संस्कृतस्य संस्कृतमाध्यमेन पाठनं तदर्थम् आरम्भे परीक्षायां एकस्य पद्यस्य सरलसंस्कृतव्याख्या।
  7. संस्कृत-प्रतियोगितासु छात्राणां सहभागिता। 

अस्यां कार्यशालायां प्रशिक्षकरूपेण डॉ मनोहरलाल:, डॉ सेवकराम:, डॉ मनोजकुमारशैल:, आचार्यनरेन्द्र: आचार्यहंसराज: च उपस्थिता: अभवन्।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Chhoti Kashi, Education, Education Minister, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, hp education, छोटी काशी, छोटी काशी मण्डी, नई शिक्षा नीति 2020, मण्डी, शिक्षा मंत्री, शिक्षा विभाग हिमाचल, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल शिक्षा विभाग
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Ind vs Eng Cricket Test : तिब्बती धर्मगुरु दलाईलामा सहितं बृहत् व्यक्तित्वं आमन्त्रयिष्यति हिमाचलप्रदेशक्रिकेटसंघ:
Next Article Himachal Congress : सर्वकारेण शिमलाम् आहूत: प्रकाशचौधरी, पूर्वमन्त्रिणः उपालम्भ: न्यायोचित: – प्रतिभासिंह 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?