Ind vs Eng Cricket Test : तिब्बती धर्मगुरु दलाईलामा सहितं बृहत् व्यक्तित्वं आमन्त्रयिष्यति हिमाचलप्रदेशक्रिकेटसंघ:
हिमसंस्कृतवार्ता- धर्मशाला।
भारत-इंग्लैंडयोः मध्ये मार्चमासात् आरभ्य अन्तर्राष्ट्रीय- क्रिकेटक्रीडाङ्गणे धर्मशालायाम् आयोज्यमानाया: टेस्ट क्रीडायाः अतिथिसूचीं हिमाचलप्रदेशक्रिकेटसंघेन आरब्धा। हिमाचलप्रदेशक्रिकेटसंघ: ७ मार्चतः ११ मार्चपर्यन्तं आयोज्य टेस्टक्रीडायाः कृते तिब्बती-धर्मगुरु दलाई लामासहितं राज्यपालं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुं च आमन्त्रयिष्यति। एचपीसीए- प्रतिनिधिः दलाईलामा-महोदयस्य निवासस्थाने दर्शनं कृत्वा आमन्त्रणं प्रसारयिष्यन्ति। एतदतिरिक्तं शिमलानगरस्य एचपीसीए-अधिकारिणः मुख्यमन्त्रीं राज्यपालं च पत्रेण सह आहूय स्पर्धां प्रति आगन्तुं निवेदयिष्यन्ति। एचपीसीए प्रतिस्पर्धाकाले आमन्त्रितानां अतिथिनां सूचीं सज्जीकरोति। सम्पूर्णसूची सज्जा भवति ततः परम् अतिथिभ्यः आमन्त्रणपत्राणि प्रदत्तानि भविष्यन्ति।
एचपीसीए-क्रीडायाः आरम्भे धार्मिकगुरुं दलाई लामावर्यम् आमन्त्रयितुं प्रयतते। येन सः अपि क्रीडकान् मिलितुं शक्नोति। पूर्वं धर्मशालायां आईपीएल-क्रीडायाः समये तिब्बतीधर्मनेता दलाईलामा क्रीडाङ्गणं प्राप्य क्रीडायाः पूर्वं क्रीडकान् मिलित्वा प्रोत्साहितवान् आसीत्। तत्सह यदा यदा धर्मशालायां कस्यापि अन्तारराष्ट्रीयक्रीडायाः आयोजनं भवति तदा तदा क्रीडकाः धर्मगुरुं तस्य निवासस्थाने मिलितुं गच्छन्ति। एचपीसीए सचिवः अवनीश परमारः अवदत् यत् एचपीसीए भारत-इंग्लैण्ड-टेस्ट प्रतिस्पर्धाया: कृते दलाईलामा, राज्यपालः, मुख्यमन्त्री, केन्द्रीयमन्त्री च अन्यान् च अतिथयवर्यान् आमन्त्रयिष्यति।