By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News: हिमाचलप्रदेशत: अभिषेकमनुसिंघवी राज्यसभायै काङ्ग्रेसप्रत्याशी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News: हिमाचलप्रदेशत: अभिषेकमनुसिंघवी राज्यसभायै काङ्ग्रेसप्रत्याशी
हिमाचलवार्ताराजनैतिकवार्ता

Himachal News: हिमाचलप्रदेशत: अभिषेकमनुसिंघवी राज्यसभायै काङ्ग्रेसप्रत्याशी

डॉ मनोज शैल
Last updated: 2024/02/15 at 9:33 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal News: हिमाचलप्रदेशत: अभिषेकमनुसिंघवी राज्यसभायै काङ्ग्रेसप्रत्याशी, शीर्षनेतृत्वेन कृतम् अनुमोदनम्

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशात् राज्यसभायां गमनस्य काङ्ग्रेसस्य प्रत्याशिन: विषये स्थितिः स्पष्टा अभवत्। काङ्ग्रेस शीर्षनेतृत्वेन बुधवासरे हिमाचलतः अभिषेक मनुसिंघवी राज्यसभाप्रत्याशीरूपेण नामाङ्कितः। अस्मिन् विषये दलस्य राष्ट्रियाध्यक्षेन मल्लिकार्जुनखड़गे इत्यनेन अनुमोदनं दत्तम्। राज्यसभानिर्वाचनार्थं नामाङ्कनपत्राणि १५ फरवरी दिनाङ्के सायं ५:०० वादनपर्यन्तं प्रवेशितानि भविष्यन्ति। अभिषेक मनुसिंघवी नामाङ्कनार्थं शिमलां प्राप्तवान्। शिमलाम् आगत्य सिंघवी हिमाचल विधानसभाम् अगच्छत्। अस्मिन् काले सः मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः इत्यनेन सह मिलितवान्। मुख्यमन्त्री हिमाचलतः राज्यसभा निर्वाचनार्थं काङ्ग्रेस प्रत्याशी अभिषेक मनुसिंघवी इत्यस्मै हृदयेन अभिनन्दनं कृतवान्। मन्त्रिणौ हर्षवर्धनः जगतसिंहनेगी च स्वागतं कृतवन्तौ। श्वः नामाङ्कनं प्रवेशितं भविष्यति इति कथ्यते।

परिचय: – अभिषेकमनुसिंघवी

अभिषेकमनुसिंघवी काङ्ग्रेसस्य राष्ट्रियप्रवक्ता अस्ति। सम्प्रति सः पश्चिमबङ्गालतः राज्यसभासदस्यः अस्ति। सिंघवी त्रिवारं सांसदः अभवत्। सः देशस्य सर्वोच्चन्यायालयस्य वरिष्ठाधिवक्तृषु अन्यतमः अस्ति। सिंघवी इत्यस्य जन्म १९५९ तमे वर्षे फेब्रुवरी २४ दिनाङ्के मारवाड़ी-परिवारे अभवत्। तस्य पिता लक्ष्मीमल्लसिंहवी जैन-इतिहास-संस्कृतेः विद्वान् आसीत्। सः प्रसिद्धः अधिवक्ता, ब्रिटेनदेशे भारतस्य पूर्वोच्चायुक्तः च आसीत्। सः राज्यसभायाः सदस्यत्वेन निर्वाचितः (१९९८–२००४)। तस्य मातुः नाम कमलासिंघवी अस्ति।

सिंघवी १९९७ तमे वर्षे ३७ वर्षे भारतस्य कनिष्ठतमः अतिरिक्त- सॉलिसिटरजनरल अभवत्, १९९८ पर्यन्तं एकवर्षं यावत् एतत् पदं कृतवान्। सः २००१ तमे वर्षात् काङ्ग्रेसस्य राष्ट्रियप्रवक्ता अस्ति। २००६ तमे वर्षे एप्रिलमासे राज्यसभा सदस्यत्वेन निर्वाचितः।  अगस्त २००६,  मई २००९, अगस्त २००९, जुलाई २०११ पर्यन्तं च स: कार्मिकं, जनसमस्या, कानून एवं न्याय समिति: सदस्य: अभवत्। २००६ तमस्य वर्षस्य अगस्तमासात् २००७ पर्यन्तं सः विभिन्नमन्त्रालयानाम् सदस्यः आसीत्। सितम्बर २००६ तः सितम्बर २०१० पर्यन्तं सिंघवी विशेषाधिकारसमितेः सदस्यः आसीत् । जुलाई २०१० तः विदेशमन्त्रालयस्य परामर्शदातृसमितेः सदस्यः, जुलाई २०११ तः कार्मिक, लोकशिकायत, कानून तथा न्यायसमितेः सामान्यप्रयोजनसमिते: च अध्यक्षः आसीत्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskritam, HIM SASNSKRIT VARTA, Himachal Congress, Himachal news, Himsanskritnews, Rajysabha, राज्यसभा, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल कांग्रेस, हिमाचल प्रदेश, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Vidhan Sabha Budget Session: राज्यपालस्य अभिभाषणेन आरब्धम् विधानसभायाः  आयव्ययकम् सत्रम्
Next Article हिमाचले शिक्षकाणां अशिक्षणकार्यं कर्तुं प्रतिबन्धं कर्तुं सर्वकारस्य निर्णयः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?