दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे दृश्यते।
हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई।
प्राप्तवार्तानुसारं दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे द्रष्टुं गच्छति। ब्रह्मानन्दः स्वस्य हास्यस्य आधारेण सम्पूर्णे भारते विशिष्टमेकं परिचयं निर्मितवान्। अधुना यावत् सः १००० तः अधिकेषु चलचित्रेषु कार्यं कृतवान्। परन्तु ब्रह्मानन्दमः बॉलीवुड-मध्ये एकमेव चलचित्रं कृतवान्। सः १९९९ तमे वर्षे अमिताभस्य ‘सूर्यवंशम्’ इति चलचित्रे दृष्टः आसीत्। अधुना ब्रह्मानन्दमः २५ वर्षाणाम् अनन्तरं बॉलीवुड-मध्ये पुनरागमनं कुर्वन् अस्ति। ब्रह्मानन्दः केचन वर्षाणि दक्षिणचलचित्रेभ्यः दूरम् आसीत्। अधुना सः दक्षिणचलचित्रक्षेत्रे ‘कीडा कोला’ इति चलचित्रेण अपि पुनरागमनं कृतवान्। गुरु रन्धावा इतस्य प्रथमचलचित्रेण ‘कुछ खट्टा हो जाए’ इत्यनेन ब्रह्मानन्दमः बॉलीवुड-मध्ये पुनरागमनं कुर्वन् अस्ति। गायकः गुरु रन्धावा अस्मिन् चलचित्रेण नायकरूपेण बॉलीवुडक्षेत्रे पदार्पणं करोति। एतत् चलचित्रं फरवरी मासस्य १६-दिनाङ्के प्रदर्शितं भविष्यति। अधुना एव चलचित्रस्य विज्ञापन पुटकं प्रदर्शितं जातम्। पुटके ब्रह्मानन्द: अपि दृश्यते।
दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे दृश्यते
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
